Vaidika Vignanam
Back

Open In Vignanam Mobile App

अन्नमय्य कीर्तन किं करिष्यामि


किं करिष्यामि किं करोमि बहुल-
शङ्कासमाधानजाड्यं वहामि ॥

नारायाणं जगन्नाथं त्रिलोकैक-
पारायणं भक्तपावनं ।
दूरीकरोम्यहं दुरितदूरेण सं-
सारसागरमग्नचञ्चलत्वेन ॥

तिरुवेङ्कटाचलाधीश्वरं करिराज- ।
वरदं शरणागतवत्सलं ।
परमपुरुषं कृपाभरणं न भजामि
मरणभवदेहाभिमानं वहामि॥

Vaidika Vignanam