लोकवीरं महापूज्यं सर्वरक्षाकरं विभुम् ।
पार्वती हृदयानन्दं शास्तारं प्रणमाम्यहम् ॥ 1 ॥
विप्रपूज्यं विश्ववन्द्यं विष्णुशम्भोः प्रियं सुतम् ।
क्षिप्रप्रसादनिरतं शास्तारं प्रणमाम्यहम् ॥ 2 ॥
मत्तमातङ्गगमनं कारुण्यामृतपूरितम् ।
सर्वविघ्नहरं देवं शास्तारं प्रणमाम्यहम् ॥ 3 ॥
अस्मत्कुलेश्वरं देवम्-अस्मच्छत्रु विनाशनम् ।
अस्मदिष्टप्रदातारं शास्तारं प्रणमाम्यहम् ॥ 4 ॥
पाण्ड्येशवंशतिलकं केरले केलिविग्रहम् ।
आर्तत्राणपरं देवं शास्तारं प्रणमाम्यहम् ॥ 5 ॥
पञ्चरत्नाख्यमेतद्यो नित्यं शुद्धः पठेन्नरः ।
तस्य प्रसन्नो भगवान् शास्ता वसति मानसे ॥
इति श्री शास्ता पञ्चरत्नम् ।
——
अथ शास्ता नमस्कार श्लोकाः ।
त्रयम्बकपुराधीशं गणाधिपसमन्वितम् ।
गजारूढमहं वन्दे शास्तारं प्रणमाम्यहम् ॥ 1 ॥
शिववीर्यसमुद्भूतं श्रीनिवासतनूद्भवम् ।
शिखिवाहानुजं वन्दे शास्तारं प्रणमाम्यहम् ॥ 2 ॥
यस्य धन्वन्तरिर्माता पिता देवो महेश्वरः ।
तं शास्तारमहं वन्दे महारोगनिवारणम् ॥ 3 ॥
भूतनाथ सदानन्द सर्वभूतदयापर ।
रक्ष रक्ष महाबाहो शास्त्रे तुभ्यं नमो नमः ॥ 4 ॥