मैत्रीं भजत अखिलहृज्जेत्रीम् आत्मवदेव परानपि पश्यत । युद्धं त्यजत स्पर्धां त्यजत त्यजत परेषु अक्रममाक्रमणम् ॥
जननी पृथिवी कामदुघाऽऽस्ते जनको देवः सकलदयालुः । दाम्यत दत्त दयध्वं जनताः श्रेयो भूयात् सकलजनानाम् ॥