Vaidika Vignanam
Back

Open In Vignanam Mobile App

अय्यप्प पंच रत्नम्

लोकवीरं महापूज्यं सर्वरक्षाकरं विभुम् ।
पार्वती हृदयानंदं शास्तारं प्रणमाम्यहम् ॥ 1 ॥

विप्रपूज्यं विश्ववंद्यं विष्णुशंभोः प्रियं सुतम् ।
क्षिप्रप्रसादनिरतं शास्तारं प्रणमाम्यहम् ॥ 2 ॥

मत्तमातंगगमनं कारुण्यामृतपूरितम् ।
सर्वविघ्नहरं देवं शास्तारं प्रणमाम्यहम् ॥ 3 ॥

अस्मत्कुलेश्वरं देवम्-अस्मच्छत्रु विनाशनम् ।
अस्मदिष्टप्रदातारं शास्तारं प्रणमाम्यहम् ॥ 4 ॥

पांड्येशवंशतिलकं केरले केलिविग्रहम् ।
आर्तत्राणपरं देवं शास्तारं प्रणमाम्यहम् ॥ 5 ॥

पंचरत्नाख्यमेतद्यो नित्यं शुद्धः पठेन्नरः ।
तस्य प्रसन्नो भगवान् शास्ता वसति मानसे ॥

इति श्री शास्ता पंचरत्नम् ।

——

अथ शास्ता नमस्कार श्लोकाः ।

त्रयंबकपुराधीशं गणाधिपसमन्वितम् ।
गजारूढमहं वंदे शास्तारं प्रणमाम्यहम् ॥ 1 ॥

शिववीर्यसमुद्भूतं श्रीनिवासतनूद्भवम् ।
शिखिवाहानुजं वंदे शास्तारं प्रणमाम्यहम् ॥ 2 ॥

यस्य धन्वंतरिर्माता पिता देवो महेश्वरः ।
तं शास्तारमहं वंदे महारोगनिवारणम् ॥ 3 ॥

भूतनाथ सदानंद सर्वभूतदयापर ।
रक्ष रक्ष महाबाहो शास्त्रे तुभ्यं नमो नमः ॥ 4 ॥

Vaidika Vignanam