जयत्यतिबलो रामो लक्ष्मणश्च महाबलः
राजा जयति सुग्रीवो राघवेणाभिपालितः ।
दासोहं कोसलेंद्रस्य रामस्याक्लिष्टकर्मणः
हनुमान् शत्रुसैन्यानां निहंता    मारुतात्मजः ॥
न रावण सहस्रं मे युद्धे प्रतिबलं    भवेत्
शिलाभिस्तु प्रहरतः   पादपैश्च   सहस्रशः ।
अर्धयित्वा पुरीं   लंकामभिवाद्य च   मैथिलीं
समृद्धार्धो गमिष्यामि   मिषतां सर्वरक्षसाम् ॥
