श्रीं सौं शरवणभवः शरच्चंद्रायुतप्रभः ।
शशांकशेखरसुतः शचीमांगल्यरक्षकः ॥ 1 ॥
शतायुष्यप्रदाता च शतकोटिरविप्रभः ।
शचीवल्लभसुप्रीतः शचीनायकपूजितः ॥ 2 ॥
शचीनाथचतुर्वक्त्रदेवदैत्याभिवंदितः ।
शचीशार्तिहरश्चैव शंभुः शंभूपदेशकः ॥ 3 ॥
शंकरः शंकरप्रीतः शम्याककुसुमप्रियः ।
शंकुकर्णमहाकर्णप्रमुखाद्यभिवंदितः ॥ 4 ॥
शचीनाथसुताप्राणनायकः शक्तिपाणिमान् ।
शंखपाणिप्रियः शंखोपमषड्गलसुप्रभः ॥ 5 ॥
शंखघोषप्रियः शंखचक्रशूलादिकायुधः ।
शंखधाराभिषेकादिप्रियः शंकरवल्लभः ॥ 6 ॥
शब्दब्रह्ममयश्चैव शब्दमूलांतरात्मकः ।
शब्दप्रियः शब्दरूपः शब्दानंदः शचीस्तुतः ॥ 7 ॥
शतकोटिप्रविस्तारयोजनायतमंदिरः ।
शतकोटिरविप्रख्यरत्नसिंहासनान्वितः ॥ 8 ॥
शतकोटिमहर्षींद्रसेवितोभयपार्श्वभूः ।
शतकोटिसुरस्त्रीणां नृत्तसंगीतकौतुकः ॥ 9 ॥
शतकोटींद्रदिक्पालहस्तचामरसेवितः ।
शतकोट्यखिलांडादिमहाब्रह्मांडनायकः ॥ 10 ॥
शंखपाणिविधिभ्यां च पार्श्वयोरुपसेवितः ।
शंखपद्मनिधीनां च कोटिभिः परिसेवितः ॥ 11 ॥
शशांकादित्यकोटीभिः सव्यदक्षिणसेवितः ।
शंखपालाद्यष्टनागकोटीभिः परिसेवितः ॥ 12 ॥
शशांकारपतंगादिग्रहनक्षत्रसेवितः ।
शशिभास्करभौमादिग्रहदोषार्तिभंजनः ॥ 13 ॥
शतपत्रद्वयकरः शतपत्रार्चनप्रियः ।
शतपत्रसमासीनः शतपत्रासनस्तुतः ॥ 14 ॥
शारीरब्रह्ममूलादिषडाधारनिवासकः ।
शतपत्रसमुत्पन्नब्रह्मगर्वविभेदनः ॥ 15 ॥
शशांकार्धजटाजूटः शरणागतवत्सलः ।
रकाररूपो रमणो राजीवाक्षो रहोगतः ॥ 16 ॥
रतीशकोटिसौंदर्यो रविकोट्युदयप्रभः ।
रागस्वरूपो रागघ्नो रक्ताब्जप्रिय एव च ॥ 17 ॥
राजराजेश्वरीपुत्रो राजेंद्रविभवप्रदः ।
रत्नप्रभाकिरीटाग्रो रविचंद्राग्निलोचनः ॥ 18 ॥
रत्नांगदमहाबाहू रत्नताटंकभूषणः ।
रत्नकेयूरभूषाढ्यो रत्नहारविराजितः ॥ 19 ॥
रत्नकिंकिणिकांच्यादिबद्धसत्कटिशोभितः ।
रवसंयुक्तरत्नाभनूपुरांघ्रिसरोरुहः ॥ 20 ॥
रत्नकंकणचूल्यादिसर्वाभरणभूषितः ।
रत्नसिंहासनासीनो रत्नशोभितमंदिरः ॥ 21 ॥
राकेंदुमुखषट्कश्च रमावाण्यादिपूजितः ।
राक्षसामरगंधर्वकोटिकोट्यभिवंदितः ॥ 22 ॥
रणरंगे महादैत्यसंग्रामजयकौतुकः ।
राक्षसानीकसंहारकोपाविष्टायुधान्वितः ॥ 23 ॥
राक्षसांगसमुत्पन्नरक्तपानप्रियायुधः ।
रवयुक्तधनुर्हस्तो रत्नकुक्कुटधारणः ॥ 24 ॥
रणरंगजयो रामास्तोत्रश्रवणकौतुकः ।
रंभाघृताचीविश्वाचीमेनकाद्यभिवंदितः ॥ 25 ॥
रक्तपीतांबरधरो रक्तगंधानुलेपनः ।
रक्तद्वादशपद्माक्षो रक्तमाल्यविभूषितः ॥ 26 ॥
रविप्रियो रावणेशस्तोत्रसाममनोहरः ।
राज्यप्रदो रंध्रगुह्यो रतिवल्लभसुप्रियः ॥ 27 ॥
रणानुबंधनिर्मुक्तो राक्षसानीकनाशकः ।
राजीवसंभवद्वेषी राजीवासनपूजितः ॥ 28 ॥
रमणीयमहाचित्रमयूरारूढसुंदरः ।
रमानाथस्तुतो रामो रकाराकर्षणक्रियः ॥ 29 ॥
वकाररूपो वरदो वज्रशक्त्यभयान्वितः ।
वामदेवादिसंपूज्यो वज्रपाणिमनोहरः ॥ 30 ॥
वाणीस्तुतो वासवेशो वल्लीकल्याणसुंदरः ।
वल्लीवदनपद्मार्को वल्लीनेत्रोत्पलोडुपः ॥ 31 ॥
वल्लीद्विनयनानंदो वल्लीचित्ततटामृतम् ।
वल्लीकल्पलतावृक्षो वल्लीप्रियमनोहरः ॥ 32 ॥
वल्लीकुमुदहास्येंदुः वल्लीभाषितसुप्रियः ।
वल्लीमनोहृत्सौंदर्यो वल्लीविद्युल्लताघनः ॥ 33 ॥
वल्लीमंगलवेषाढ्यो वल्लीमुखवशंकरः ।
वल्लीकुचगिरिद्वंद्वकुंकुमांकितवक्षकः ॥ 34 ॥
वल्लीशो वल्लभो वायुसारथिर्वरुणस्तुतः ।
वक्रतुंडानुजो वत्सो वत्सलो वत्सरक्षकः ॥ 35 ॥
वत्सप्रियो वत्सनाथो वत्सवीरगणावृतः ।
वारणाननदैत्यघ्नो वातापिघ्नोपदेशकः ॥ 36 ॥
वर्णगात्रमयूरस्थो वर्णरूपो वरप्रभुः ।
वर्णस्थो वारणारूढो वज्रशक्त्यायुधप्रियः ॥ 37 ॥
वामांगो वामनयनो वचद्भूर्वामनप्रियः ।
वरवेषधरो वामो वाचस्पतिसमर्चितः ॥ 38 ॥
वसिष्ठादिमुनिश्रेष्ठवंदितो वंदनप्रियः ।
वकारनृपदेवस्त्रीचोरभूतारिमोहनः ॥ 39 ॥
णकाररूपो नादांतो नारदादिमुनिस्तुतः ।
णकारपीठमध्यस्थो नगभेदी नगेश्वरः ॥ 40 ॥
णकारनादसंतुष्टो नागाशनरथस्थितः ।
णकारजपसुप्रीतो नानावेषो नगप्रियः ॥ 41 ॥
णकारबिंदुनिलयो नवग्रहसुरूपकः ।
णकारपठनानंदो नंदिकेश्वरवंदितः ॥ 42 ॥
णकारघंटानिनदो नारायणमनोहरः ।
णकारनादश्रवणो नलिनोद्भवशिक्षकः ॥ 43 ॥
णकारपंकजादित्यो नववीराधिनायकः ।
णकारपुष्पभ्रमरो नवरत्नविभूषणः ॥ 44 ॥
णकारानर्घशयनो नवशक्तिसमावृतः ।
णकारवृक्षकुसुमो नाट्यसंगीतसुप्रियः ॥ 45 ॥
णकारबिंदुनादज्ञो नयज्ञो नयनोद्भवः ।
णकारपर्वतेंद्राग्रसमुत्पन्नसुधारणिः ॥ 46 ॥
णकारपेटकमणिर्नागपर्वतमंदिरः ।
णकारकरुणानंदो नादात्मा नागभूषणः ॥ 47 ॥
णकारकिंकिणीभूषो नयनादृश्यदर्शनः ।
णकारवृषभावासो नामपारायणप्रियः ॥ 48 ॥
णकारकमलारूढो नामानंतसमन्वितः ।
णकारतुरगारूढो नवरत्नादिदायकः ॥ 49 ॥
णकारमकुटज्वालामणिर्नवनिधिप्रदः ।
णकारमूलमंत्रार्थो नवसिद्धादिपूजितः ॥ 50 ॥
णकारमूलनादांतो णकारस्तंभनक्रियः ।
भकाररूपो भक्तार्थो भवो भर्गो भयापहः ॥ 51 ॥
भक्तप्रियो भक्तवंद्यो भगवान्भक्तवत्सलः ।
भक्तार्तिभंजनो भद्रो भक्तसौभाग्यदायकः ॥ 52 ॥
भक्तमंगलदाता च भक्तकल्याणदर्शनः ।
भक्तदर्शनसंतुष्टो भक्तसंघसुपूजितः ॥ 53 ॥
भक्तस्तोत्रप्रियानंदो भक्ताभीष्टप्रदायकः ।
भक्तसंपूर्णफलदो भक्तसाम्राज्यभोगदः ॥ 54 ॥
भक्तसालोक्यसामीप्यरूपमोक्षवरप्रदः ।
भवौषधिर्भवघ्नश्च भवारण्यदवानलः ॥ 55 ॥
भवांधकारमार्तांडो भववैद्यो भवायुधम् ।
भवशैलमहावज्रो भवसागरनाविकः ॥ 56 ॥
भवमृत्युभयध्वंसी भावनातीतविग्रहः ।
भवभूतपिशाचघ्नो भास्वरो भारतीप्रियः ॥ 57 ॥ [भय]
भाषितध्वनिमूलांतो भावाभावविवर्जितः ।
भानुकोपपितृध्वंसी भारतीशोपदेशकः ॥ 58 ॥
भार्गवीनायकश्रीमद्भागिनेयो भवोद्भवः ।
भारक्रौंचासुरद्वेषो भार्गवीनाथवल्लभः ॥ 59 ॥
भटवीरनमस्कृत्यो भटवीरसमावृतः ।
भटतारागणोड्वीशो भटवीरगणस्तुतः ॥ 60 ॥
भागीरथेयो भाषार्थो भावनाशबरीप्रियः ।
भकारे कलिचोरारिभूताद्युच्चाटनोद्यतः ॥ 61 ॥
वकारसुकलासंस्थो वरिष्ठो वसुदायकः ।
वकारकुमुदेंदुश्च वकाराब्धिसुधामयः ॥ 62 ॥
वकारामृतमाधुर्यो वकारामृतदायकः ।
दक्षे वज्राभीतियुतो वामे शक्तिवरान्वितः ॥ 63 ॥
वकारोदधिपूर्णेंदुः वकारोदधिमौक्तिकम् ।
वकारमेघसलिलो वासवात्मजरक्षकः ॥ 64 ॥
वकारफलसारज्ञो वकारकलशामृतम् ।
वकारपंकजरसो वसुर्वंशविवर्धनः ॥ 65 ॥
वकारदिव्यकमलभ्रमरो वायुवंदितः ।
वकारशशिसंकाशो वज्रपाणिसुताप्रियः ॥ 66 ॥
वकारपुष्पसद्गंधो वकारतटपंकजम् ।
वकारभ्रमरध्वानो वयस्तेजोबलप्रदः ॥ 67 ॥
वकारवनितानाथो वश्याद्यष्टप्रियाप्रदः ।
वकारफलसत्कारो वकाराज्यहुताशनः ॥ 68 ॥
वर्चस्वी वाङ्मनोऽतीतो वाताप्यरिकृतप्रियः ।
वकारवटमूलस्थो वकारजलधेस्तटः ॥ 69 ॥
वकारगंगावेगाब्धिः वज्रमाणिक्यभूषणः ।
वातरोगहरो वाणीगीतश्रवणकौतुकः ॥ 70 ॥
वकारमकरारूढो वकारजलधेः पतिः ।
वकारामलमंत्रार्थो वकारगृहमंगलम् ॥ 71 ॥
वकारस्वर्गमाहेंद्रो वकारारण्यवारणः ।
वकारपंजरशुको वलारितनयास्तुतः ॥ 72 ॥
वकारमंत्रमलयसानुमन्मंदमारुतः ।
वाद्यंतभांत षट्क्रम्य जपांते शत्रुभंजनः ॥ 73 ॥
वज्रहस्तसुतावल्लीवामदक्षिणसेवितः ।
वकुलोत्पलकादंबपुष्पदामस्वलंकृतः ॥ 74 ॥
वज्रशक्त्यादिसंपन्नद्विषट्पाणिसरोरुहः ।
वासनागंधलिप्तांगो वषट्कारो वशीकरः ॥ 75 ॥
वासनायुक्ततांबूलपूरिताननसुंदरः ।
वल्लभानाथसुप्रीतो वरपूर्णामृतोदधिः ॥ 76 ॥
इति श्री सुब्रह्मण्य त्रिशती स्तोत्रम् ।