View this in:
बृहस्पति कवचम् (गुरु कवचम्)
अस्य श्रीबृहस्पति कवचमहा मंत्रस्य, ईश्वर ऋषिः,
अनुष्टुप् छंदः, बृहस्पतिर्देवता,
गं बीजं, श्रीं शक्तिः, क्लीं कीलकम्,
बृहस्पति प्रसाद सिद्ध्यर्थे जपे विनियोगः ‖
ध्यानम्
अभीष्टफलदं वंदे सर्वज्ञं सुरपूजितम् |
अक्षमालाधरं शांतं प्रणमामि बृहस्पतिम् ‖
अथ बृहस्पति कवचम्
बृहस्पतिः शिरः पातु ललाटं पातु मे गुरुः |
कर्णौ सुरगुरुः पातु नेत्रे मेभीष्टदायकः ‖ १ ‖
जिह्वां पातु सुराचार्यः नासं मे वेदपारगः |
मुखं मे पातु सर्वज्ञः कंठं मे देवतागुरुः ‖ २ ‖
भुजा वंगीरसः पातु करौ पातु शुभप्रदः |
स्तनौ मे पातु वागीशः कुक्षिं मे शुभलक्षणः ‖ ३ ‖
नाभिं देवगुरुः पातु मध्यं पातु सुखप्रदः |
कटिं पातु जगद्वंद्यः ऊरू मे पातु वाक्पतिः ‖ ४ ‖
जानुजंघे सुराचार्यः पादौ विश्वात्मकः सदा |
अन्यानि यानि चांगानि रक्षेन्मे सर्वतो गुरुः ‖ ५ ‖
फलशृतिः
इत्येतत्कवचं दिव्यं त्रिसंध्यं यः पठेन्नरः |
सर्वान् कामानवाप्नोति सर्वत्र विजयी भवेत् ‖
‖ इति श्री बृहस्पति कवचम् ‖
Last Updated: 28 December, 2020