View this in:
हनुमान् (आंजनेय) अष्टोत्तर शतनाम स्तोत्रम्
आंजनेयो महावीरो हनुमान्मारुतात्मजः |
तत्वज्ञानप्रदः सीतादेवीमुद्राप्रदायकः ‖ 1 ‖
अशोकवनिकाच्छेत्ता सर्वमायाविभंजनः |
सर्वबंधविमोक्ता च रक्षोविध्वंसकारकः ‖ 2 ‖
परविद्यापरीहारः परशौर्यविनाशनः |
परमंत्रनिराकर्ता परयंत्रप्रभेदकः ‖ 3 ‖
सर्वग्रहविनाशी च भीमसेनसहायकृत् |
सर्वदुःखहरः सर्वलोकचारी मनोजवः ‖ 4 ‖
पारिजातद्रुमूलस्थः सर्वमंत्रस्वरूपवान् |
सर्वतंत्रस्वरूपी च सर्वयंत्रात्मकस्तथा ‖ 5 ‖
कपीश्वरो महाकायः सर्वरोगहरः प्रभुः |
बलसिद्धिकरः सर्वविद्यासंपत्प्रदायकः ‖ 6 ‖
कपिसेनानायकश्च भविष्यच्चतुराननः |
कुमारब्रह्मचारी च रत्नकुंडलदीप्तिमान् ‖ 7 ‖
संचलद्वालसन्नद्धलंबमानशिखोज्ज्वलः |
गंधर्वविद्यातत्त्वज्ञो महाबलपराक्रमः ‖ 8 ‖
कारागृहविमोक्ता च शृंखलाबंधमोचकः |
सागरोत्तारकः प्राज्ञो रामदूतः प्रतापवान् ‖ 9 ‖
वानरः केसरिसुतः सीताशोकनिवारकः |
अंजनागर्भसंभूतो बालार्कसदृशाननः ‖ 10 ‖
विभीषणप्रियकरो दशग्रीवकुलांतकः |
लक्ष्मणप्राणदाता च वज्रकायो महाद्युतिः ‖ 11 ‖
चिरंजीवी रामभक्तो दैत्यकार्यविघातकः |
अक्षहंता कांचनाभः पंचवक्त्रो महातपाः ‖ 12 ‖
लंकिणीभंजनः श्रीमान् सिंहिकाप्राणभंजनः |
गंधमादनशैलस्थो लंकापुरविदाहकः ‖ 13 ‖
सुग्रीवसचिवो धीरः शूरो दैत्यकुलांतकः |
सुरार्चितो महातेजा रामचूडामणिप्रदः ‖ 14 ‖
कामरूपी पिंगलाक्षो वार्धिमैनाकपूजितः |
कबलीकृतमार्तांडमंडलो विजितेंदिर्यः ‖ 15 ‖
रामसुग्रीवसंधाता महिरावणमर्दनः |
स्फटिकाभो वागधीशो नवव्याकृतिपंडितः ‖ 16 ‖
चतुर्बाहुर्दीनबंधुर्महात्मा भक्तवत्सलः |
संजीवननगाहर्ता शुचिर्वाग्मी दृढव्रतः ‖ 17 ‖
कालनेमिप्रमथनो हरिमर्कटमर्कटः |
दांतः शांतः प्रसन्नात्मा शतकंठमदापहृत् ‖ 18 ‖
योगी रामकथालोलः सीतान्वेषणपंडितः |
वज्रदंष्ट्रो वज्रनखो रुद्रवीर्यसमुद्भवः ‖ 19 ‖
इंद्रजित्प्रहितामोघब्रह्मास्त्रविनिवारकः |
पार्थध्वजाग्रसंवासी शरपंजरभेदकः ‖ 20 ‖
दशबाहुर्लोर्कपूज्यो जांबवत्प्रीतिवर्धनः |
सीतासमेतश्रीरामपादसेवाधुरंधरः ‖ 21 ‖
इत्येवं श्रीहनुमतो नाम्नामष्टोत्तरं शतम् |
यः पठेच्छृणुयान्नित्यं सर्वान्कामानवाप्नुयात् ‖ 22 ‖
Last Updated: 28 December, 2020