View this in:
This stotram is in सरल देवनागरी(हिंन्दी). View this in
शुद्ध देवनागरी (Samskritam), with appropriate anuswaras marked.
मूक पंच शति 5 - मंदस्मित शतकम्
बध्नीमो वयमंजलिं प्रतिदिनं बंधच्छिदे देहिनां
कंदर्पागमतंत्रमूलगुरवे कल्याणकेलीभुवे |
कामाक्ष्या घनसारपुंजरजसे कामद्रुहश्चक्षुषां
मंदारस्तबकप्रभामदमुषे मंदस्मितज्योतिषे ‖1‖
सध्रीचे नवमल्लिकासुमनसां नासाग्रमुक्तामणे-
राचार्याय मृणालकांडमहसां नैसर्गिकाय द्विषे |
स्वर्धुन्या सह युध्वेन हिमरुचेरर्धासनाध्यासिने
कामाक्ष्याः स्मितमंजरीधवलिमाद्वैताय तस्मै नमः ‖2‖
कर्पूरद्युतिचातुरीमतितरामल्पीयसीं कुर्वती
दौर्भाग्योदयमेव संविदधती दौषाकरीणां त्विषाम् |
क्षुल्लानेव मनोज्ञमल्लिनिकरान्फुल्लानपि व्यंजती
कामाक्ष्या मृदुलस्मितांशुलहरी कामप्रसूरस्तु मे ‖3‖
या पीनस्तनमंडलोपरि लसत्कर्पूरलेपायते
या नीलेक्षणरात्रिकांतिततिषु ज्योत्स्नाप्ररोहायते |
या सौंदर्यधुनीतरंगततिषु व्यालोलहंसायते
कामाक्ष्याः शिशिरीकरोतु हृदयं सा मे स्मितप्राचुरी ‖4‖
येषां गच्छति पूर्वपक्षसरणिं कौमुद्वतः श्वेतिमा
येषां संततमारुरुक्षति तुलाकक्ष्यां शरच्चंद्रमाः |
येषामिच्छति कंबुरप्यसुलभामंतेवसत्प्रक्रियां
कामाक्ष्या ममतां हरंतु मम ते हासत्विषामंकुराः ‖5‖
आशासीमसु संततं विदधती नैशाकरीं व्याक्रियां
काशानामभिमानभंगकलनाकौशल्यमाबिभ्रती |
ईशानेन विलोकिता सकुतुकं कामाक्षि ते कल्मष-
क्लेशापायकरी चकास्ति लहरी मंदस्मितज्योतिषाम् ‖6‖
आरूढस्य समुन्नतस्तनतटीसाम्राज्यसिंहासनं
कंदर्पस्य विभोर्जगत्त्रयप्राकट्यमुद्रानिधेः |
यस्याश्चामरचातुरीं कलयते रश्मिच्छटा चंचला
सा मंदस्मितमंजरी भवतु नः कामाय कामाक्षि ते ‖7‖
शंभोर्या परिरंभसंभ्रमविधौ नैर्मल्यसीमानिधिः
गैर्वाणीव तरंगिणी कृतमृदुस्यंदां कलिंदात्मजाम् |
कल्माषीकुरुते कलंकसुषमां कंठस्थलीचुंबिनीं
कामाक्ष्याः स्मितकंदली भवतु नः कल्याणसंदोहिनी ‖8‖
जेतुं हारलतामिव स्तनतटीं संजग्मुषी संततं
गंतुं निर्मलतामिव द्विगुणितां मग्ना कृपास्त्रोतसि |
लब्धुं विस्मयनीयतामिव हरं रागाकुलं कुर्वती
मंजुस्ते स्मितमंजरी भवभयं मथ्नातु कामाक्षि मे ‖9‖
श्वेतापि प्रकटं निशाकररुचां मालिन्यमातन्वती
शीतापि स्मरपावकं पशुपतेः संधुक्षयंती सदा |
स्वाभाव्यादधराश्रितापि नमतामुच्चैर्दिशंती गतिं
कामाक्षि स्फुटमंतरा स्फुरतु नस्त्वन्मंदहासप्रभा ‖10‖
वक्त्रश्रीसरसीजले तरलितभ्रूवल्लिकल्लोलिते
कालिम्ना दधती कटाक्षजनुषा माधुव्रतीं व्यापृतिम् |
निर्निद्रामलपुंडरीककुहनापांडित्यमाबिभ्रती
कामाक्ष्याः स्मितचातुरी मम मनः कातर्यमुन्मूलयेत् ‖11‖
नित्यं बाधितबंधुजीवमधरं मैत्रीजुषं पल्लवैः
शुद्धस्य द्विजमंडलस्य च तिरस्कर्तारमप्याश्रिता |
या वैमल्यवती सदैव नमतां चेतः पुनीतेतरां
कामाक्ष्या हृदयं प्रसादयतु मे सा मंदहासप्रभा ‖12‖
द्रुह्यंती तमसे मुहुः कुमुदिनीसाहाय्यमाबिभ्रती
यांती चंद्रकिशोरशेखरवपुःसौधांगणे प्रेंखणम् |
ज्ञानांभोनिधिवीचिकां सुमनसां कूलंकषां कुर्वती
कामाक्ष्याः स्मितकौमुदी हरतु मे संसारतापोदयम् ‖13‖
काश्मीरद्रवधातुकर्दमरुचा कल्माषतां बिभ्रती
हंसौधैरिव कुर्वती परिचितिं हारीकृतैर्मौक्तिकैः |
वक्षोजन्मतुषारशैलकटके संचारमातन्वती
कामाक्ष्या मृदुलस्मितद्युतिमयी भागीरथी भासते ‖14‖
कंबोर्वंशपरंपरा इव कृपासंतानवल्लीभुवः
संफुल्लस्तबका इव प्रसृमरा मूर्ताः प्रसादा इव |
वाक्पीयूषकणा इव त्रिपथगापर्यायभेदा इव
भ्राजंते तव मंदहासकिरणाः कांचीपुरीनायिके ‖15‖
वक्षोजे घनसारपत्ररचनाभंगीसपत्नायिता
कंठे मौक्तिकहारयष्टिकिरणव्यापारमुद्रायिता |
ओष्ठश्रीनिकुरुंबपल्लवपुटे प्रेंखत्प्रसूनायिता
कामाक्षि स्फुरतां मदीयहृदये त्वन्मंदहासप्रभा ‖16‖
येषां बिंदुरिवोपरि प्रचलितो नासाग्रमुक्तामणिः
येषां दीन इवाधिकंठमयते हारः करालंबनम् |
येषां बंधुरिवोष्ठयोररुणिमा धत्ते स्वयं रंजनं
कामाक्ष्याः प्रभवंतु ते मम शिवोल्लासाय हासांकुराः ‖17‖
या जाड्यांबुनिधिं क्षिणोति भजतां वैरायते कैरवैः
नित्यं यां नियमेन या च यतते कर्तुं त्रिणेत्रोत्सवम् |
बिंबं चांद्रमसं च वंचयति या गर्वेण सा तादृशी
कामाक्षि स्मितमंजरी तव कथं ज्योत्स्नेत्यसौ कीर्त्यते ‖18‖
आरुढा रभसात्पुरः पुररिपोराश्लेषणोपक्रमे
या ते मातरुपैति दिव्यतटिनीशंकाकरी तत्क्षणम् |
ओष्ठौ वेपयति भ्रुवौ कुटिलयत्यानम्रयत्याननं
तां वंदे मृदुहासपूरसुषमामेकाम्रनाथप्रिये ‖19‖
वक्त्रेंदोस्तव चंद्रिका स्मितततिर्वल्गु स्फुरंती सतां
स्याच्चेद्युक्तिमिदं चकोरमनसां कामाक्षि कौतूहलम् |
एतच्चित्रमहर्निशं यदधिकामेषा रुचिं गाहते
बिंबोष्ठद्युमणिप्रभास्वपि च यद्बिब्बोकमालंबते ‖20‖
सादृश्यं कलशांबुधेर्वहति यत्कामाक्षि मंदस्मितं
शोभामोष्ठरुचांब विद्रुमभवामेताद्भिदां ब्रूमहे |
एकस्मादुदितं पुरा किल पपौ शर्वः पुराणः पुमान्
एतन्मध्यसमुद्भवं रसयते माधुर्यरूपं रसम् ‖21‖
उत्तुंगस्तनकुंभशैलकटके विस्तारिकस्तूरिका-
पत्रश्रीजुषि चंचलाः स्मितरुचः कामाक्षि ते कोमलाः |
संध्यादीधितिरंजिता इव मुहुः सांद्राधरज्योतिषा
व्यालोलामलशारदाभ्रशकलव्यापारमातन्वते ‖22‖
क्षीरं दूरत एव तिष्ठतु कथं वैमल्यमात्रादिदं
मातस्ते सहपाठवीथिमयतां मंदस्मितैर्मंजुलैः |
किं चेयं तु भिदास्ति दोहनवशादेकं तु संजायते
कामाक्षि स्वयमर्थितं प्रणमतामन्यत्तु दोदुह्यते ‖23‖
कर्पूरैरमृतैर्जगज्जननि ते कामाक्षि चंद्रातपैः
मुक्ताहारगुणैर्मृणालवलयैर्मुग्धस्मितश्रीरियम् |
श्रीकांचीपुरनायिके समतया संस्तूयते सज्जनैः
तत्तादृङ्मम तापशांतिविधये किं देवि मंदायते ‖24‖
मध्येगर्भितमंजुवाक्यलहरीमाध्वीझरीशीतला
मंदारस्तबकायते जननि ते मंदस्मितांशुच्छटा |
यस्या वर्धयितुं मुहुर्विकसनं कामाक्षि कामद्रुहो
वल्गुर्वीक्षणविभ्रमव्यतिकरो वासंतमासायते ‖25‖
बिंबोष्ठद्युतिपुंजरंजितरुचिस्त्वन्मंदहासच्छटा |
कल्याणं गिरिसार्वभौमतनये कल्लोलयत्वाशु मे |
फुल्लन्मल्लिपिनद्धहल्लकमयी मालेव या पेशला
श्रीकांचीश्वरि मारमर्दितुरुरोमध्ये मुहुर्लंबते ‖26‖
बिभ्राणा शरदभ्रविभ्रमदशां विद्योतमानाप्यसो
कामाक्षि स्मितमंजरी किरति ते कारुण्यधारारसम् |
आश्चर्यं शिशिरीकरोति जगतीश्चालोक्य चैनामहो
कामं खेलति नीलकंठहृदयं कौतूहलांदोलितम् ‖27‖
प्रेंखत्प्रौढकटाक्षकुंजकुहरेष्वत्यच्छगुच्छायितं
वक्त्रेंदुच्छविसिंधुवीचिनिचये फेनप्रतानायितम् |
नैरंतर्यविजृंभितस्तनतटे नैचोलपट्टायितं
कालुष्यं कबलीकरोतु मम ते कामाक्षि मंदस्मितम् ‖28‖
पीयूषं तव मंथरस्मितमिति व्यर्थैव सापप्रथा
कामाक्षि ध्रुवमीदृशं यदि भवेदेतत्कथं वा शिवे |
मंदारस्य कथालवं न सहते मथ्नाति मंदाकिनी-
मिंदुं निंदति कीर्तितेऽपि कलशीपाथोधिमीर्ष्यायते ‖29‖
विश्वेषां नयनोत्सवं वितनुतां विद्योततां चंद्रमा
विख्यातो मदनांतकेन मुकुटीमध्ये च संमान्यताम् |
आः किं जातमनेन हाससुषमामालोक्य कामाक्षि ते
कालंकीमवलंबते खलु दशां कल्माषहीनोऽप्यसौ ‖30‖
चेतः शीतलयंतु नः पशुपतेरानंदजीवातवो
नम्राणां नयनाध्वसीमसु शरच्चंद्रातपोपक्रमाः |
संसाराख्यसरोरुहाकरखलीकारे तुषारोत्कराः
कामाक्षि स्मरकीर्तिबीजनिकरास्त्वन्मंदहासांकुराः ‖31‖
कर्मौघाख्यतमःकचाकचिकरान्कामाक्षि संचिंतये
त्वन्मंदस्मितरोचिषां त्रिभुवनक्षेमंकरानंकुरान् |
ये वक्त्रं शिशिरश्रियो विकसितं चंद्रातपांभोरुह-
द्वेषोद्धेषोणचातुरीमिव तिरस्कर्तुं परिष्कुर्वते ‖32‖
कुर्युर्नः कुलशैलराजतनये कूलंकषं मंगलं
कुंदस्पर्धनचुंचवस्तव शिवे मंदस्मितप्रक्रमाः |
ये कामाक्षि समस्तसाक्षिनयनं संतोषयंतीश्वरं
कर्पूरप्रकरा इव प्रसृमराः पुंसामसाधारणाः ‖33‖
कम्रेण स्नपयस्व कर्मकुहनाचोरेण मारागम-
व्याख्याशिक्षणदीक्षितेन विदुषामक्षीणलक्ष्मीपुषा |
कामाक्षि स्मितकंदलेन कलुषस्फोटक्रियाचुंचुना
कारुण्यामृतवीचिकाविहरणप्राचुर्यधुर्येण माम् ‖34‖
त्वन्मंदस्मितकंदलस्य नियतं कामाक्षि शंकामहे
बिंबः कश्चन नूतनः प्रचलितो नैशाकरः शीकरः |
किंच क्षीरपयोनिधिः प्रतिनिधिः स्वर्वाहिनीवीचिका-
बिब्वोकोऽपि विडंब एव कुहना मल्लीमतल्लीरुचः ‖35‖
दुष्कर्मार्कनिसर्गकर्कशमहस्संपर्कतपतं मिल-
त्पंकं शंकरवल्लभे मम मनः कांचीपुरालंक्रिये |
अंब त्वन्मृदुलस्मितामृतरसे मंक्त्वा विधूय व्यथा-
मानंदोदयसौधशृंगपदवीमारोढुमाकांक्षति ‖36‖
नम्राणां नगराजशेखरसुते नाकालयानां पुरः
कामाक्षि त्वरया विपत्प्रशमेन कारुण्यधाराः किरन् |
आगच्छंतमनुग्रहं प्रकटयन्नानंदबीजानि ते
नासीरे मृदुहास एव तनुते नाथे सुधाशीतलः ‖37‖
कामाक्षि प्रथमानविभ्रमनिधिः कंदर्पदर्पप्रसूः
मुग्धस्ते मृदुहास एव गिरिजे मुष्णातु मे किल्बिषम् |
यं द्रष्टुं विहिते करग्रह उमे शंभुस्त्रपामीलितं
स्वैरं कारयति स्म तांडवविनोदानंदिना तंडुना ‖38‖
क्षुण्णं केनचिदेव धीरमनसा कुत्रापि नानाजनैः
कर्मग्रंथिनियंत्रितैरसुगमं कामाक्षि सामान्यतः |
मुग्धैर्द्रुष्टुमशक्यमेव मनसा मूढसय मे मौक्तिकं
मार्गं दर्शयतु प्रदीप इव ते मंदस्मितश्रीरियम् ‖39‖
ज्योत्स्नाकांतिभिरेव निर्मलतरं नैशाकरं मंडलं
हंसैरेव शरद्विलाससमये व्याकोचमंभोरुहम् |
स्वच्छैरेव विकस्वरैरुडुगुणैः कामाक्षि बिंबं दिवः
पुण्यैरेव मृदुस्मितैस्तव मुखं पुष्णाति शोभाभरम् ‖40‖
मानग्रंथिविधुंतुदेन रभसादास्वाद्यमाने नव-
प्रेमाडंबरपूर्णिमाहिमकरे कामाक्षि ते तत्क्षणम् |
आलोक्य स्मितचंद्रिकां पुनरिमामुन्मीलनं जग्मुषीं
चेतः शीलयते चकोरचरितं चंद्रार्धचूडामणेः ‖41‖
कामाक्षि स्मितमंजरीं तव भजे यस्यास्त्विषामंकुरा-
नापीनस्तनपानलालसतया निश्शंकमंकेशयः |
ऊर्ध्वं वीक्ष्य विकर्षति प्रसृमरानुद्दामया शुंडया
सूनुसुते बिसशंकयाशु कुहनादंतावलग्रामणीः ‖42‖
गाढाश्लेषविमर्दसंभ्रमवशादुद्दाममुक्तागुण-
प्रालंबे कुचकुंभयोर्विगलिते दक्षद्विषो वक्षसि |
या सख्येन पिनह्यति प्रचुरया भासा तदीयां दशां
सा मे खेलतु कामकोटि हृदये सांद्रस्मितांशुच्छटा ‖43‖
मंदारे तव मंथरस्मितरुचां मात्सर्यमालोक्यते
कामाक्षि स्मरशासने च नियतो रागोदयो लक्ष्यते |
चांद्रीषु द्युतिमंजरीषु च महांद्वेषांकुरो दृश्यते
शुद्धानां कथमीदृशी गिरिसुतेऽतिशुद्धा दशा कथ्यताम् ‖44‖
पीयूषं खलु पीयते सुरजनैर्दुग्धांबुधिर्मथ्यते
माहेशैश्च जटाकलापनिगडैर्मंदाकिनी नह्यते |
शीतांशुः परिभूयते च तमसा तस्मादनेतादृशी
कामाक्षि स्मितमंजरी तव वचोवैदग्ध्यमुल्लंघते ‖45‖
आशंके तव मंदहासलहरीमन्यादृशीं चंद्रिका-
मेकाम्रेशकुटुंबिनि प्रतिपदं यस्याः प्रभासंगमे |
वक्षोजांबुरुहे न ते रचयतः कांचिद्दशां कौङ्मली-
मास्यांभोरुहमंब किंच शनकैरालंबते फुल्लताम् ‖46‖
आस्तीर्णाधरकांतिपल्लवचये पातं मुहुर्जग्मुषी
मारद्रोहिणि कंदलत्स्मरशरज्वालावलीर्व्यंजती |
निंदंती घनसारहारवलयज्योत्स्नामृणालानि ते
कामाक्षि स्मितचातुरी विरहिणीरीतिं जगाहेतराम् ‖47‖
सूर्यालोकविधौ विकासमधिकं यांती हरंती तम-
स्संदोहं नमतां निजस्मरणतो दोषाकरद्वेषिणी |
निर्यांती वदनारविंदकुहरान्निर्धूतजाड्या नृणां
श्रीकामाक्षि तव स्मितद्युतिमयी चित्रीयते चंद्रिका ‖48‖
कुंठीकुर्युरमी कुबोधघटनामस्मन्मनोमाथिनीं
श्रीकामाक्षि शिवंकरास्तव शिवे श्रीमंदहासांकुराः |
ये तन्वंति निरंतरं तरुणिमस्तंबेरमग्रामणी-
कुंभद्वंद्वविडंबिनि स्तनतटे मुक्ताकुथाडंबरम् ‖49‖
प्रेंखंतः शरदंबुदा इव शनैः प्रेमानिलैः प्रेरिता
मज्जंतो मंदनारिकंठसुषमासिंधौ मुहुर्मंथरम् |
श्रीकामाक्षि तव स्मितांशुनिकराः श्यामायमानश्रियो
नीलांभोधरनैपुणीं तत इतो निर्निद्रयंत्यंजसा ‖50‖
व्यापारं चतुराननैकविहृतौ व्याकुर्वती कुर्वती
रुद्राक्षग्रहणं महेशि सततं वागूर्मिकल्लोलिता |
उत्फुल्लं धवलारविंदमधरीकृत्य स्फुरंती सदा
श्रीकामाक्षि सरस्वती विजयते त्वन्मंदहासप्रभा ‖51‖
कर्पूरद्युतितस्करेण महसा कल्माषयत्याननं
श्रीकांचीपुरनायिके पतिरिव श्रीमंदहासोऽपि ते |
आलिंगत्यतिपीवरां स्तनतटीं बिंबाधरं चुंबति
प्रौढं रागभरं व्यनक्ति मनसो धैर्यं धुनीतेतराम् ‖52‖
वैशद्येन च विश्वतापहरणक्रीडापटीयस्तया
पांडित्येन पचेलिमेन जगतां नेत्रोत्सवोत्पादेन |
कामाक्षि स्मितकंदलैस्तव तुलामारोढुमुद्योगिनी
ज्योत्स्नासौ जलराशिपोषणतया दूष्यां प्रपन्ना दशाम् ‖53‖
लावण्यांबुजिनीमृणालवलयैः शृंगारगंधद्विप-
ग्रामण्यः श्रुतिचामरैस्तरुणिमस्वाराज्यतेजोंकुरैः |
आनंदामृतसिंधुवीचिपृषतैरास्याब्जहंसैस्तव
श्रीकामाक्षि मथान मंदहसितैर्मत्कं मनःकल्मषम् ‖54‖
उत्तुंगस्तनमंडलीपरिचलन्माणिक्यहारच्छटा-
चंचच्छोणिमपुंजमध्यसरणिं मातः परिष्कुर्वती |
या वैदग्ध्यमुपैति शंकरजटाकांतारवाटीपत-
त्स्वर्वापीपयसः स्मितद्युतिरसौ कामाक्षि ते मंजुला ‖55‖
सन्नामैकजुषा जनेन सुलभं संसूचयंती शनै-
रुत्तुंगस्य चिरादनुग्रहतरोरुत्पत्स्यमानं फलम् |
प्राथम्येन विकस्वरा कुसुमवत्प्रागल्भ्यमभ्येयुषी
कामाक्षि स्मितचातुरी तव मम क्षेमंकरी कल्पताम् ‖56‖
धानुष्काग्रसरस्य लोलकुटिलभ्रूलेखया बिभ्रतो
लीलालोकशिलीमुखं नववयस्साम्राज्यलक्ष्मीपुषः |
जेतुं मन्मथमर्दिनं जननि ते कामाक्षि हासः स्वयं
वल्गुर्विभ्रमभूभृतो वितनुते सेनापतिप्रक्रियाम् ‖57‖
यन्नाकंपत कालकूटकबलीकारे चुचुंबे न यद्-
ग्लान्या चक्षुषि रूषितानलशिखे रुद्रस्य तत्तादृशम् |
चेतो यत्प्रसभं स्मरज्वरशिखिज्वालेन लेलिह्यते
तत्कामाक्षि तव स्मितांशुकलिकाहेलाभवं प्राभवम् ‖58‖
संभिन्नेव सुपर्वलोकतटिनी वीचीचयैर्यामुनैः
संमिश्रेव शशांकदीप्तिलहरी नीलैर्महानीरदैः |
कामाक्षि स्फुरिता तव स्मितरुचिः कालांजनस्पर्धिना
कालिम्ना कचरोचिषां व्यतिकरे कांचिद्दशामश्नुते ‖59‖
जानीमो जगदीश्वरप्रणयिनि त्वन्मंदहासप्रभां
श्रीकामाक्षि सरोजिनीमभिनवामेषा यतः सर्वदा |
आस्येंदोरवलोकेन पशुपतेरभ्येति संफुल्लतां
तंद्रालुस्तदभाव एव तनुते तद्वैपरीत्यक्रमम् ‖60‖
यांती लोहितिमानमभ्रतटिनी धातुच्छटाकर्दमैः
भांती बालगभस्तिमालिकिरणैर्मेघावली शारदी |
बिंबोष्ठद्युतिपुंजचुंबनकलाशोणायमानेन ते
कामाक्षि स्मितरोचिषा समदशामारोढुमाकांक्षते ‖61‖
श्रीकामाक्षि मुखेंदुभूषणमिदं मंदस्मितं तावकं
नेत्रानंदकरं तथा हिमकरो गच्छेद्यथा तिग्मताम् |
शीतं देवि तथा यथा हिमजलं संतापमुद्रास्पदं
श्वेतं किंच तथा यथा मलिनतां धत्ते च मुक्तामणिः ‖62‖
त्वन्मंदस्मितमंजरीं प्रसृमरां कामाक्षि चंद्रातपं
संतः संततमामनंत्यमलता तल्लक्षणं लक्ष्यते |
अस्माकं न धुनोति तापकमधिकं धूनोति नाभ्यंतरं
ध्वांतं तत्खलु दुःखिनो वयमिदं केनोति नो विद्महे ‖63‖
नम्रस्य प्रणयप्ररूढकलहच्छेदाय पादाब्जयोः
मंदं चंद्रकिशोरशेखरमणेः कामाक्षि रागेण ते |
बंधूकप्रसवश्रियं जितवतो बंहीयसीं तादृशीं
बिंबोष्ठस्य रुचिं निरस्य हसितज्योत्स्ना वयस्यायते ‖64‖
मुक्तानां परिमोचनं विदधतस्तत्प्रीतिनिष्पादिनी
भूयो दूरत एव धूतमरुतस्तत्पालनं तन्वती |
उद्भूतस्य जलांतरादविरतं तद्दूरतां जग्मुषी
कामाक्षि स्मितमंजरी तव कथं कंबोस्तुलामश्नुते ‖65‖
श्रीकामाक्षि तव स्मितद्युतिझरीवैदग्ध्यलीलायितं
पश्यंतोऽपि निरंतरं सुविमलंमन्या जगन्मंडले |
लोकं हासयितुं किमर्थमनिशं प्राकाश्यमातन्वते
मंदाक्षं विरहय्य मंगलतरं मंदारचंद्रादयः ‖66‖
क्षीराब्धेरपि शैलराजतनये त्वन्मंदहासस्य च
श्रीकामाक्षि वलक्षिमोदयनिधेः किंचिद्भिदां ब्रूमहे |
एकस्मै पुरुषाय देवि स ददौ लक्ष्मीं कदाचित्पुरा
सर्वेभ्योऽपि ददात्यसौ तु सततं लक्ष्मीं च वागीश्वरीम् ‖67‖
श्रीकांचीपुररत्नदीपकलिके तान्येव मेनात्मजे
चाकोराणि कुलानि देवि सुतरां धन्यानि मन्यामहे |
कंपातीरकुटुंबचंक्रमकलाचुंचूनि चंचूपुटैः
नित्यं यानि तव स्मितेंदुमहसामास्वादमातन्वते ‖68‖
शैत्यप्रक्रममाश्रितोऽपि नमतां जाड्यप्रथां धूनयन्
नैर्मल्यं परमं गतोऽपि गिरिशं रागाकुलं चारयन् |
लीलालापपुरस्सरोऽपि सततं वाचंयमान्प्रीणयन्
कामाक्षि स्मितरोचिषां तव समुल्लासः कथं वर्ण्यते ‖69‖
श्रोणीचंचलमेखलामुखरितं लीलागतं मंथरं
भ्रूवल्लीचलनं कटाक्षवलनं मंदाक्षवीक्षाचणम् |
यद्वैदग्ध्यमुखेन मन्मथरिपुं संमोहयंत्यंजसा
श्रीकामाक्षि तव स्मिताय सततं तस्मै नम्सकुर्महे ‖70‖
श्रीकामाक्षि मनोज्ञमंदहसितज्योतिष्प्ररोहे तव
स्फीतश्वेतिमसार्वभौमसरणिप्रागल्भ्यमभ्येयुषि |
चंद्रोऽयं युवराजतां कलयते चेटीधुरं चंद्रिका
शुद्धा सा च सुधाझरी सहचरीसाधर्म्यमालंबते ‖71‖
ज्योत्स्ना किं तनुते फलं तनुमतामौष्ण्यप्रशांतिं विना
त्वन्मंदस्मितरोचिषा तनुमतां कामाक्षि रोचिष्णुना |
संतापो विनिवार्यते नववयःप्राचुर्यमंकूर्यते
सौंदर्यं परिपूर्यते जगति सा कीर्तिश्च संचार्यते ‖72‖
वैमल्यं कुमुदश्रियां हिमरुचः कांत्यैव संधुक्ष्यते
ज्योत्स्नारोचिरपि प्रदोषसमयं प्राप्यैव संपद्यते |
स्वच्छत्वं नवमौक्तिकस्य परमं संस्कारतो दृश्यते
कामाक्ष्याः स्मितदीधितेर्विशदिमा नैसर्गिको भासते ‖73‖
प्राकाश्यं परमेश्वरप्रणयिनि त्वन्मंदहासश्रियः
श्रीकामाक्षि मम क्षिणोतु ममतावैचक्षणीमक्षयाम् |
यद्भीत्येव निलीयते हिमकरो मेघोदरे शुक्तिका-
गर्भे मौक्तिकमंडली च सरसीमध्ये मृणाली च सा ‖74‖
हेरंबे च गुहे हर्षभरितं वात्सल्यमंकूरयत्
मारद्रोहिणि पूरुषे सहभुवं प्रेमांकुरं व्यंजयत् |
आनम्रेषु जनेषु पूर्णकरुणावैदग्ध्यमुत्तालयत्
कामाक्षि स्मितमंजसा तव कथंकारं मया कथ्यते ‖75‖
संक्रुद्धद्विजराजकोऽप्यविरतं कुर्वंद्विजैः संगमं
वाणीपद्धतिदूरगोऽपि सततं तत्साहचर्यं वहन् |
अश्रांतं पशुदुर्लभोऽपि कलयन्पत्यौ पशूनां रतिं
श्रीकामाक्षि तव स्मितामृतरसस्यंदो मयि स्पंदताम् ‖76‖
श्रीकामाक्षि महेश्वरे निरुपमप्रेमांकुरप्रक्रममं
नित्यं यः प्रकटीकरोति सहजामुन्निद्रयन्माधुरीम् |
तत्तादृक्तव मंदहासमहिमा मातः कथं मानितां
तन्मूर्ध्ना सुरनिम्नगां च कलिकामिंदोश्च तां निंदति ‖77‖
ये माधुर्यविहारमंटपभुवो ये शैत्यमुद्राकरा
ये वैशद्यदशाविशेषसुभगास्ते मंदहासांकुराः |
कामाक्ष्याः सहजं गुणत्रयमिदं पर्यायतः कुर्वतां
वाणीगुंफनडंबरे च हृदये कीर्तिप्ररोहे च मे ‖78‖
कामाक्ष्या मृदुलस्मितांशुनिकरा दक्षांतके वीक्षणे
मंदाक्षग्रहिला हिमद्युतिमयूखाक्षेपदीक्षांकुराः |
दाक्ष्यं पक्ष्मलयंतु माक्षिकगुडद्राक्षाभवं वाक्षु मे
सूक्ष्मं मोक्षपथं निरीक्षितुमपि प्रक्षालयेयुर्मनः ‖79‖
जात्या शीतशीतलानि मधुराण्येतानि पूतानि ते
गांगानीव पयांसि देवि पटलान्यल्पस्मितज्योतिषाम् |
एनःपंकपरंपरामलिनितामेकाम्रनाथप्रिये
प्रज्ञानात्सुतरां मदीयधिषणां प्रक्षालयंतु क्षणात् ‖80‖
अश्रांतं परतंत्रितः पशुपतिस्त्वन्मंदहासांकुरैः
श्रीकामाक्षि तदीयवर्णसमतासंगेन शंकामहे |
इंदुं नाकधुनीं च शेखरयते मालां च धत्ते नवैः
वैकुंठैरवकुंठनं च कुरुते धूलीचयैर्भास्मनैः ‖81‖
श्रीकांचीपुरदेवते मृदुवचस्सौरभ्यमुद्रास्पदं
प्रौढप्रेमलतानवीनकुसुमं मंदस्मितं तावकम् |
मंदं कंदलति प्रियस्य वदनालोके समाभाषणे
श्लक्ष्णे कुङ्मलति प्ररूढपुलके चाश्लोषणे फुल्लति ‖82‖
किं त्रैस्रोतसमंबिके परिणतं स्रोतश्चतुर्थं नवं
पीयूषस्य समस्ततापहरणं किंवा द्वितीयं वपुः |
किंस्वित्त्वन्निकटं गतं मधुरिमाभ्यासाय गव्यं पयः
श्रीकांचीपुरनायकप्रियतमे मंदस्मितं तावकम् ‖83‖
भूषा वक्त्रसरोरुहस्य सहजा वाचां सखी शाश्वती
नीवी विभ्रमसंततेः पशुपतेः सौधी दृशां पारणा |
जीवातुर्मदनश्रियः शशिरुचेरुच्चाटनी देवता
श्रीकामाक्षि गिरामभूमिमयते हासप्रभामंजरी ‖84‖
सूतिः श्वेतिमकंदलस्य वसतिः शृंगारसारश्रियः
पूर्तिः सूक्तिझरीरसस्य लहरी कारुण्यपाथोनिधेः |
वाटी काचन कौसुमी मधुरिमस्वाराज्यलक्ष्म्यास्तव
श्रीकामाक्षि ममास्तु मंगलकरी हासप्रभाचातुरी ‖85‖
जंतूनां जनिदुःखमृत्युलहरीसंतापनं कृंततः
प्रौढानुग्रहपूर्णशीतलरुचो नित्योदयं बिभ्रतः |
श्रीकामाक्षि विसृत्वरा इव करा हासांकुरास्ते हठा-
दालोकेन निहन्युरंधतमसस्तोमस्य मे संततिम् ‖86‖
उत्तुंगस्तनमंडलस्य विलसल्लावण्यलीलानटी-
रंगस्य स्फुटमूर्ध्वसीमनि मुहुः प्राकाश्यमभ्येयुषी |
श्रीकामाक्षि तव स्मितद्युतिततिर्बिंबोष्ठकांत्यंकुरैः
चित्रां विद्रुममुद्रितां वितनुते मौक्तीं वितानश्रियम् ‖87‖
स्वाभाव्यात्तव वक्त्रमेव ललितं संतोषसंपादनं
शंभोः किं पुनरंचितस्मितरुचः पांडित्यपात्रीकृतम् |
अंभोजं स्वत एव सर्वजगतां चक्षुःप्रियंभावुकं
कामाक्षि स्फुरिते शरद्विकसिते कीदृग्विधं भ्राजते ‖88‖
पुंभिर्निर्मलमानसौर्विदधते मैत्रीं दृढं निर्मलां
लब्ध्वा कर्मलयं च निर्मलतरां कीर्तिं लभंतेतराम् |
सूक्तिं पक्ष्मलयंति निर्मलतमां यत्तावकाः सेवकाः
तत्कामाक्षि तव स्मितस्य कलया नैर्मल्यसीमानिधेः ‖89‖
आकर्षन्नयनानि नाकिसदसां शैत्येन संस्तंभय-
न्निंदुं किंच विमोहयन्पशुपतिं विश्वार्तिमुच्चाटयन् |
हिंसत्संसृतिडंबरं तव शिवे हासाह्वयो मांत्रिकः
श्रीकामाक्षि मदीयमानसतमोविद्वेषणे चेष्टताम् ‖90‖
क्षेपीयः क्षपयंतु कल्मषभयान्यस्माकमल्पस्मित-
ज्योतिर्मंडलचंक्रमास्तव शिवे कामाक्षि रोचिष्णवः |
पीडाकर्मठकर्मघर्मसमयव्यापारतापानल-
श्रीपाता नवहर्षवर्षणसुधास्रोतस्विनीशीकराः ‖91‖
श्रीकामाक्षि तव स्मितैंदवमहःपूरे परिंफूर्जति
प्रौढां वारिधिचातुरीं कलयते भक्तात्मनां प्रातिभम् |
दौर्गत्यप्रसरास्तमःपटलिकासाधर्म्यमाबिभ्रते
सर्वं कैरवसाहचर्यपदवीरीतिं विधत्ते परम् ‖92‖
मंदारादिषु मन्मथारिमहिषि प्राकाश्यरीतिं निजां
कादाचित्कतया विशंक्य बहुशो वैशद्यमुद्रागुणः |
सातत्येन तव स्मिते वितनुते स्वैरासनावासनाम् ‖93‖
इंधाने भववीतिहोत्रनिवहे कर्मौघचंडानिल-
प्रौढिम्ना बहुलीकृते निपतितं संतापचिंताकुलम् |
मातर्मां परिषिंच किंचिदमलैः पीयूषवर्षैरिव
श्रीकामाक्षि तव स्मितद्युतिकणैः शैशिर्यलीलाकरैः ‖94‖
भाषाया रसनाग्रखेलनजुषः शृंगारमुद्रासखी-
लीलाजातरतेः सुखेन नियमस्नानाय मेनात्मजे |
श्रीकामाक्षि सुधामयीव शिशिरा स्रोतस्विनी तावकी
गाढानंदतरंगिता विजयते हासप्रभाचातुरी ‖95‖
संतापं विरलीकरोतु सकलं कामाक्षि मच्चेतना
मज्जंती मधुरस्मितामरधुनीकल्लोलजालेषु ते |
नैरंतर्यमुपेत्य मन्मथमरुल्लोलेषु येषु स्फुटं
प्रेमेंदुः प्रतिबिंबितो वितनुते कौतूहलं धूर्जटेः ‖96‖
चेतःक्षीरपयोधिमंथरचलद्रागाख्यमंथाचल-
क्षोभव्यापृतिसंभवां जननि ते मंदस्मितश्रीसुधाम् |
स्वादंस्वादमुदीतकौतुकरसा नेत्रत्रयी शांकरी
श्रीकामाक्षि निरंतरं परिणमत्यानंदवीचीमयी ‖97‖
आलोके तव पंचसायकरिपोरुद्दामकौतूहल-
प्रेंखन्मारुतघट्टनप्रचलितादानंददुग्धांबुधेः |
काचिद्वीचिरुदंचति प्रतिनवा संवित्प्ररोहात्मिका
तां कामाक्षि कवीश्वराः स्मितमिति व्याकुर्वते सर्वदा ‖98‖
सूक्तिः शीलयते किमद्रितनये मंदस्मितात्ते मुहुः
माधुर्यागमसंप्रदायमथवा सूक्तेर्नु मंदस्मितम् |
इत्थं कामपि गाहते मम मनः संदेहमार्गभ्रमिं
श्रीकामाक्षि न पारमार्थ्यसरणिस्फूर्तौ निधत्ते पदम् ‖99‖
क्रीडालोलकृपासरोरुहमुखीसौधांगणेभ्यः कवि-
श्रेणीवाक्परिपाटिकामृतझरीसूतीगृहेभ्यः शिवे |
निर्वाणांकुरसार्वभौमपदवीसिंहासनेभ्यस्तव
श्रीकामाक्षि मनोज्ञमंदहसितज्योतिष्कणेभ्यो नमः ‖100‖
आर्यामेव विभावयन्मनसि यः पादारविंदं पुरः
पश्यन्नारभते स्तुतिं स नियतं लब्ध्वा कटाक्षच्छविम् |
कामाक्ष्या मृदुलस्मितांशुलहरीज्योत्स्नावयस्यान्विताम्
आरोहत्यपवर्गसौधवलभीमानंदवीचीमयीम् ‖101‖
‖ इति मंदस्मितशतकं संपूर्णम् ‖
‖ इति श्री मूकपंचशती संपूर्णा ‖
‖ओउम् तत् सत् ‖