पिप्पलाद कृत श्री षनि स्तोत्रम्
नमोऽस्तु कोणसंस्थाय पिङ्गलाय नमोऽस्तु ते । [क्रोध] नमस्ते बभ्रुरूपाय कृष्णाय च नमोऽस्तु ते ॥ 1 ॥
नमस्ते रौद्रदेहाय नमस्ते चान्तकाय च । नमस्ते यमसञ्ज्ञाय नमस्ते सौरये विभो ॥ 2 ॥
नमस्ते मन्दसञ्ज्ञाय शनैश्चर नमोऽस्तु ते । प्रसादं कुरु देवेश दीनस्य प्रणतस्य च ॥ 3 ॥
इति पिप्पलाद कृत श्री शनि स्तोत्रम् ।
Browse Related Categories: