View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

श्रि दत्त स्तवम्

श्री गणेशाय नमः श्री सरस्वत्यै नमः
श्रीपादवल्लभ नरसिंहसरस्वति
श्रीगुरु दत्तात्रेयाय नमः

दत्तात्रेयं महात्मानं वरदं भक्तवत्सलम् ।
प्रपन्नार्तिहरं वन्दे स्मर्तृगामि सनोवतु ॥ 1 ॥

दीनबन्धुं कृपासिन्धुं सर्वकारणकारणम् ।
सर्वरक्षाकरं वन्दे स्मर्तृगामि सनोवतु ॥ 2 ॥

शरणागतदीनार्त परित्राणपरायणम् ।
नारायणं विभुं वन्दे स्मर्तृगामि सनोवतु ॥ 3 ॥

सर्वानर्थहरं देवं सर्वमङ्गल मङ्गलम् ।
सर्वक्लेशहरं वन्दे स्मर्तृगामि सनोवतु ॥ 4 ॥

ब्रह्मण्यं धर्मतत्त्वज्ञं भक्तकीर्तिविवर्धनम् ।
भक्ताऽभीष्टप्रदं वन्दे स्मर्तृगामि सनोवतु ॥ 5 ॥

शोषणं पापपङ्कस्य दीपनं ज्ञानतेजसः ।
तापप्रशमनं वन्दे स्मर्तृगामि सनोवतु ॥ 6 ॥

सर्वरोगप्रशमनं सर्वपीडानिवारणम् ।
विपदुद्धरणं वन्दे स्मर्तृगामि सनोवतु ॥ 7 ॥

जन्मसंसारबन्धघ्नं स्वरूपानन्ददायकम् ।
निश्श्रेयसपदं वन्दे स्मर्तृगामि सनोवतु ॥ 8 ॥

जय लाभ यशः काम दातुर्दत्तस्य यः स्तवम् ।
भोगमोक्षप्रदस्येमं प्रपठेत् सुकृती भवेत् ॥9 ॥

इति श्री दत्तस्तवम् ।




Browse Related Categories: