View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

मृदपि च चंदनम्

मृदपि च चंदनमस्मिन् देशे ग्रामो ग्रामः सिद्धवनम् ।
यत्र च बाला देवीस्वरूपा बालाः सर्वे श्रीरामाः ॥

हरिमंदिरमिदमखिलशरीरं
धनशक्ती जनसेवायै
यत्र च क्रीडायै वनराजः
धेनुर्माता परमशिवा
नित्यं प्रातः शिवगुणगानं
दीपनुतिः खलु शत्रुपरा ॥ 1 ॥

भाग्यविधायि निजार्जितकर्म
यत्र श्रमः श्रियमर्जयति
त्यागधनानां तपोनिधीनां
गाथां गायति कविवाणी
गंगाजलमिव नित्यनिर्मलं
ज्ञानं शंसति यतिवाणी ॥ 2 ॥

यत्र हि नैव स्वदेहविमोहः
युद्धरतानां वीराणां
यत्र हि कृषकः कार्यरतः सन्
पश्यति जीवनसाफल्यं
जीवनलक्ष्यं न हि धनपदवी
यत्र च परशिवपदसेवा ॥ 3 ॥

रचन: श्री जनार्दन हेग्डे




Browse Related Categories: