माण्डूक्य उपनिषद् is one of the shortest and most profound Upanishads, traditionally connected with the Atharva Veda. In only twelve mantras it teaches the identity of आत्मा and Brahman through the analysis of ॐ and the four quarters of consciousness: waking, dream, deep sleep, and तुरीय.
The text is foundational for Advaita Vedanta, especially through Gaudapada's Karika and Shankara's bhashya. Its opening declares that all this is ॐ, and that the Self is Brahman. It then shows that the waking experiencer, dream experiencer, and deep-sleep experiencer are not the final Self; they are understood through the fourth, which is not a state among states but the non-dual reality.
ओ-म्भ॒द्र-ङ्कर्णे॑भि-श्शृणु॒याम॑ देवाः । भ॒द्र-म्प॑श्येमा॒क्षभि॒-र्यज॑त्राः । स्थि॒रैरङ्गै᳚स्तुष्टु॒वाग्ं स॑स्त॒नूभिः॑ । व्यशे॑म दे॒वहि॑तं॒-यँदायुः॑ । स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः । स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः । स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः । स्व॒स्ति नो॒ बृह॒स्पति॑-र्दधातु ॥
ॐ शान्ति॒-श्शान्ति॒-श्शान्तिः॑ ॥
Translation (भावार्थ):
The peace invocation prays that hearing, sight, limbs, speech, and life remain strong for the pursuit of Brahman.
॥ अथ माण्डूक्योपनिषत् ॥
Translation (भावार्थ):
This title announces the beginning of the Mandukya Upanishad.
हरिः ओम् ।
ओमित्येतदक्षरमिदगं सर्वं तस्योपव्याख्यानं
भूतं भवद् भविष्यदिति सर्वमोङ्कार एव
यच्चान्यत् त्रिकालातीतं तदप्योङ्कार एव ॥ 1 ॥
Translation (भावार्थ):
The Upanishad declares that Om is all this: past, present, future, and whatever is beyond time.
सर्वगं ह्येतद् ब्रह्मायमात्मा ब्रह्म सोऽयमात्मा चतुष्पात् ॥ 2 ॥
Translation (भावार्थ):
It states the mahavakya: all this is Brahman, and this Self is Brahman, having four quarters.
जागरितस्थानो बहिष्प्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः
स्थूलभुग्वैश्वानरः प्रथमः पादः ॥ 3 ॥
Translation (भावार्थ):
The waking self, Vaishvanara, is outward-knowing, seven-limbed, nineteen-mouthed, and experiences gross objects.
स्वप्नस्थानोऽन्तःप्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः
प्रविविक्तभुक्तैजसो द्वितीयः पादः ॥ 4 ॥
Translation (भावार्थ):
The dream self, Taijasa, is inward-knowing, seven-limbed, nineteen-mouthed, and experiences subtle objects.
यत्र सुप्तो न कञ्चन कामं कामयते न कञ्चन स्वप्नं
पश्यति तत् सुषुप्तम् । सुषुप्तस्थान एकीभूतः प्रज्ञानघन
एवानन्दमयो ह्यानन्दभुक् चेतोमुखः प्राज्ञस्तृतीयः पादः ॥ 5 ॥
Translation (भावार्थ):
Deep sleep is the state where one desires nothing and sees no dream; the experiencer there is Prajna, a mass of undifferentiated awareness and bliss.
एष सर्वेश्वरः एष सर्वज्ञ एषोऽन्तर्याम्येष योनिः सर्वस्य
प्रभवाप्ययौ हि भूतानाम् ॥ 6 ॥
Translation (भावार्थ):
Prajna is the Lord of all, knower of all, inner controller, source and dissolution of beings.
नान्तःप्रज्ञं न बहिष्प्रज्ञं नोभयतःप्रज्ञं न प्रज्ञानघनं
न प्रज्ञं नाप्रज्ञम् । अदृष्टमव्यवहार्यमग्राह्यमलक्षणं
अचिन्त्यमव्यपदेश्यमेकात्मप्रत्ययसारं प्रपञ्चोपशमं
शान्तं शिवमद्वैतं चतुर्थं मन्यन्ते स आत्मा स विज्ञेयः ॥ 7 ॥
Translation (भावार्थ):
The fourth is not inward, outward, both, unconscious, or ordinary cognition; it is unseen, ungraspable, unthinkable, indescribable, peaceful, auspicious, and non-dual.
सोऽयमात्माध्यक्षरमोङ्कारोऽधिमात्रं पादा मात्रा मात्राश्च पादा
अकार उकारो मकार इति ॥ 8 ॥
Translation (भावार्थ):
The same Self is Om with respect to sound, and its quarters are the matras A, U, and M.
जागरितस्थानो वैश्वानरोऽकारः प्रथमा मात्राऽऽप्तेरादिमत्त्वाद्
वाऽऽप्नोति ह वै सर्वान् कामानादिश्च भवति य एवं वेद ॥ 9 ॥
Translation (भावार्थ):
A corresponds to the waking Vaishvanara because it is first and all-pervading; one who knows this attains desired aims and becomes foremost.
स्वप्नस्थानस्तैजस उकारो द्वितीया मात्रोत्कर्षात्
उभयत्वाद्वोत्कर्षति ह वै ज्ञानसन्ततिं समानश्च भवति
नास्याब्रह्मवित्कुले भवति य एवं वेद ॥ 10 ॥
Translation (भावार्थ):
U corresponds to Taijasa because of elevation and intermediacy; one who knows this raises the stream of knowledge and becomes balanced.
सुषुप्तस्थानः प्राज्ञो मकारस्तृतीया मात्रा मितेरपीतेर्वा
मिनोति ह वा इदं सर्वमपीतिश्च भवति य एवं वेद ॥ 11 ॥
Translation (भावार्थ):
M corresponds to Prajna because of measure and absorption; one who knows this measures all and gathers all into himself.
अमात्रश्चतुर्थोऽव्यवहार्यः प्रपञ्चोपशमः शिवोऽद्वैत
एवमोङ्कार आत्मैव संविशत्यात्मनाऽऽत्मानं य एवं वेद ॥ 12 ॥
Translation (भावार्थ):
The soundless fourth is beyond practical dealings, the cessation of phenomena, auspicious and non-dual; Om is the Self, and the knower enters the Self by the Self.
॥ इति माण्डूक्योपनिषत् समाप्ता ॥
Translation (भावार्थ):
The final closing completes the Upanishadic recitation.
Browse Related Categories:
वेद मन्त्राः (111)
- गणपति प्रार्थन घनपाठः
- गायत्री मन्त्रं घनपाठः
- श्री रुद्रं लघुन्यासम्
- श्री रुद्रं नमकम्
- श्री रुद्रं - चमकप्रश्नः
- पुरुष सूक्तम्
- श्री सूक्तम्
- दुर्गा सूक्तम्
- नारायण सूक्तम्
- मन्त्र पुष्पम्
- शान्ति मन्त्रम् (दश शान्तयः)
- नित्य सन्ध्या वन्दनम् (कृष्ण यजुर्वेदीय)
- श्री गणपति अथर्व षीर्षम् (गणपत्यथर्वषीर्षोपनिषत्)
- ईशावास्योपनिषद् (ईशोपनिषद्)
- नक्षत्र सूक्तम् (नक्षत्रेष्टि)
- मन्यु सूक्तम्
- मेधा सूक्तम्
- विष्णु सूक्तम्
- शिव पञ्चामृत स्नानाभिषेकम्
- यज्ञोपवीत धारण
- सर्व देवता गायत्री मन्त्राः
- तैत्तिरीय उपनिषद् - शीक्षावल्ली
- तैत्तिरीय उपनिषद् - आनन्दवल्ली
- तैत्तिरीय उपनिषद् - भृगुवल्ली
- भू सूक्तम्
- नवग्रह सूक्तम्
- महानारायण उपनिषद्
- अरुणप्रश्नः
- श्री महान्यासम् (पूर्णं)
- सरस्वती सूक्तम् (ऋग्वेद)
- भाग्य सूक्तम्
- पवमान सूक्तम्
- नासदीय सूक्तम्
- नवग्रह सूक्तम् (नवग्रह नमस्कारम्)
- पितृ सूक्तम्
- रात्रि सूक्तम्
- सर्प सूक्तम्
- हिरण्य गर्भ सूक्तम्
- सानुस्वार प्रश्न (सुन्नाल पन्नम्)
- गो सूक्तम्
- त्रिसुपर्णम्
- चित्ति पन्नम्
- अघमर्षण सूक्तम्
- केन उपनिषद् - प्रथमः खण्डः
- केन उपनिषद् - द्वितीयः खण्डः
- केन उपनिषद् - तृतीयः खण्डः
- केन उपनिषद् - चतुर्थः खण्डः
- मुण्डक उपनिषद् - प्रथम मुण्डक, प्रथम काण्डः
- मुण्डक उपनिषद् - प्रथम मुण्डक, द्वितीय काण्डः
- मुण्डक उपनिषद् - द्वितीय मुण्डक, प्रथम काण्डः
- मुण्डक उपनिषद् - द्वितीय मुण्डक, द्वितीय काण्डः
- मुण्डक उपनिषद् - तृतीय मुण्डक, प्रथम काण्डः
- मुण्डक उपनिषद् - तृतीय मुण्डक, द्वितीय काण्डः
- नारायण उपनिषद्
- विश्वकर्म सूक्तम्
- श्री देव्यथर्वशीर्षम्
- दुर्वा सूक्तम् (महानारायण उपनिषद्)
- मृत्तिका सूक्तम् (महानारायण उपनिषद्)
- श्री दुर्गा अथर्वशीर्षम्
- अग्नि सूक्तम् (ऋग्वेद)
- क्रिमि संहारक सूक्तम् (यजुर्वेद)
- नीला सूक्तम्
- वेद आशीर्वचनम्
- वेद स्वस्ति वाचनम्
- ऐकमत्य सूक्तम् (ऋग्वेद)
- आयुष्य सूक्तम्
- श्रद्धा सूक्तम्
- श्री गणेश (गणपति) सूक्तम् (ऋग्वेद)
- शिवोपासन मन्त्राः
- शान्ति पञ्चकम्
- शुक्ल यजुर्वेद सन्ध्यावन्दनम्
- माण्डूक्य उपनिषद्
- ऋग्वेद सन्ध्यावन्दनम्
- एकात्मता स्तोत्रम्
- भावनोपनिषद्
- कठोपनिषद् - अध्याय 1, वल्ली 1
- कठोपनिषद् - अध्याय 1, वल्ली 2
- कठोपनिषद् - अध्याय 1, वल्ली 3
- कठोपनिषद् - अध्याय 2, वल्ली 1
- कठोपनिषद् - अध्याय 2, वल्ली 2
- कठोपनिषद् - अध्याय 2, वल्ली 3
- प्रश्नोपनिषद् - प्रथमः प्रश्नः
- प्रश्नोपनिषद् - द्वितीयः प्रश्नः
- प्रश्नोपनिषद् - त्रितीयः प्रश्नः
- प्रश्नोपनिषद् - चतुर्थः प्रश्नः
- प्रश्नोपनिषद् - पञ्च प्रश्नः
- प्रश्नोपनिषद् - षष्ठः प्रश्नः
- अन्न सूक्तम्
- ऋग्वेदीय पञ्च रुद्रं
- श्री महान्यासम् - 0. कलश प्रतिष्ठापन मन्त्राः
- श्री महान्यासम् - 1. पञ्चाङ्ग रुद्रन्यासः
- श्री महान्यासम् - 2. पञ्चमुख ध्यानम्
- श्री महान्यासम् - 3. अङ्गन्यासः
- श्री महान्यासम् - 4. दशाङ्ग न्यासः
- श्री महान्यासम् - 5. पञ्चाङ्ग न्यासः
- श्री महान्यासम् - 5.1. हंस गायत्री
- श्री महान्यासम् - 5.2. दिक् सम्पुटन्यासः (सम्पुटीकरणम्)
- श्री महान्यासम् - 5.3. दशाङ्ग रौद्रीकरणम्
- श्री महान्यासम् - 5.4. षोडशाङ्ग रौद्रीकरणं
- श्री महान्यासम् - 6.1. मनो ज्योतिः
- श्री महान्यासम् - 6.2. आत्मरक्षा
- श्री महान्यासम् - 7.1. शिवसङ्कल्पाः
- श्री महान्यासम् - 7.2. पुरुष सूक्तं
- श्री महान्यासम् - 7.3. उत्तर नारायणं
- श्री महान्यासम् - 7.4. अप्रतिरथं
- श्री महान्यासम् - 7.5. प्रति पूरुषं
- श्री महान्यासम् - 7.6. शत रुद्रीयं (त्वमग्ने रुद्रोऽनुवाकः)
- श्री महान्यासम् - 7.7. पञ्चाङ्ग जपः
- श्री महान्यासम् - 7.8. अष्टाङ्ग प्रणामः
- सरस्वती सूक्तम् (यजुर्वेदीय)
- उदक शान्ति (पुण्याह वाचनं)
उपनिषदः (34)
- ईशावास्योपनिषद् (ईशोपनिषद्)
- शिवसङ्कल्पोपनिषत् (शिव सङ्कल्पमस्तु)
- तैत्तिरीय उपनिषद् - शीक्षावल्ली
- तैत्तिरीय उपनिषद् - आनन्दवल्ली
- तैत्तिरीय उपनिषद् - भृगुवल्ली
- महानारायण उपनिषद्
- केन उपनिषद् - प्रथमः खण्डः
- केन उपनिषद् - द्वितीयः खण्डः
- केन उपनिषद् - तृतीयः खण्डः
- केन उपनिषद् - चतुर्थः खण्डः
- मुण्डक उपनिषद् - प्रथम मुण्डक, प्रथम काण्डः
- मुण्डक उपनिषद् - प्रथम मुण्डक, द्वितीय काण्डः
- मुण्डक उपनिषद् - द्वितीय मुण्डक, प्रथम काण्डः
- मुण्डक उपनिषद् - द्वितीय मुण्डक, द्वितीय काण्डः
- मुण्डक उपनिषद् - तृतीय मुण्डक, प्रथम काण्डः
- मुण्डक उपनिषद् - तृतीय मुण्डक, द्वितीय काण्डः
- नारायण उपनिषद्
- चाक्षुषोपनिषद् (चक्षुष्मती विद्या)
- अपराध क्षमापण स्तोत्रम्
- श्री सूर्योपनिषद्
- माण्डूक्य उपनिषद्
- भावनोपनिषद्
- कठोपनिषद् - अध्याय 1, वल्ली 1
- कठोपनिषद् - अध्याय 1, वल्ली 2
- कठोपनिषद् - अध्याय 1, वल्ली 3
- कठोपनिषद् - अध्याय 2, वल्ली 1
- कठोपनिषद् - अध्याय 2, वल्ली 2
- कठोपनिषद् - अध्याय 2, वल्ली 3
- प्रश्नोपनिषद् - प्रथमः प्रश्नः
- प्रश्नोपनिषद् - द्वितीयः प्रश्नः
- प्रश्नोपनिषद् - त्रितीयः प्रश्नः
- प्रश्नोपनिषद् - चतुर्थः प्रश्नः
- प्रश्नोपनिषद् - पञ्च प्रश्नः
- प्रश्नोपनिषद् - षष्ठः प्रश्नः