तैत्तिरीय उपनिषद् - आनन्द वल्ली, also called ब्रह्मानन्द वल्ली, is the philosophical heart of the Taittiriya Upanishad. It opens with ब्रह्मविदाप्नोति परम् and defines Brahman as सत्यं ज्ञानमनन्तं ब्रह्म: truth, knowledge, and infinity. From there it unfolds the celebrated teaching of the five sheaths.
The vallI moves by inward refinement. Creation is traced to Brahman, life is shown to depend on food and प्राण, and the seeker is led through the sheaths until speech and mind reach their limit. The famous lines रसो वै सः and यतो वाचो निवर्तन्ते teach that Brahman is not an object among objects but the fullness because of which experience, joy, and fearlessness are possible.
(तै. आ. 8-1-1)
Translation (भावार्थ):
This source marker identifies the Taittiriya Aranyaka section for the Ananda Valli recitation.
ॐ स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्य॑-ङ्करवावहै । ते॒ज॒स्विना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚ । ॐ शान्ति॒-श्शान्ति॒-श्शान्तिः॑ ॥
Translation (भावार्थ):
The opening peace prayer seeks mutual protection, nourishment, strength in study, brilliance, and absence of hostility.
ब्र॒ह्म॒विदा᳚प्नोति॒ परम्᳚ । तदे॒षा-ऽभ्यु॑क्ता । स॒त्य-ञ्ज्ञा॒नम॑न॒न्त-म्ब्रह्म॑ । यो वेद॒ निहि॑त॒-ङ्गुहा॑या-म्पर॒मे व्यो॑मन्न् । सो᳚-ऽश्नु॒ते सर्वा॒न्कामा᳚न्थ्स॒ह । ब्रह्म॑णा विप॒श्चितेति॑ ॥ तस्मा॒द्वा ए॒तस्मा॑दा॒त्मन॑ आका॒शस्सम्भू॑तः । आ॒का॒शाद्वा॒युः । वा॒योर॒ग्निः । अ॒ग्नेरापः॑ । अ॒द्भ्यः पृ॑थि॒वी । पृ॒थि॒व्या ओष॑धयः । ओष॑धी॒भ्यो-ऽन्नम्᳚ । अन्ना॒त्पुरु॑षः । स वा एष पुरुषो-ऽन्न॑रस॒मयः । तस्येद॑मेव॒ शिरः । अय-न्दक्षि॑णः प॒क्षः । अयमुत्त॑रः प॒क्षः । अयमात्मा᳚ । इद-म्पुच्छ॑-म्प्रति॒ष्ठा । तदप्येष श्लो॑को भ॒वति ॥ 1 ॥
इति प्रथमो-ऽनुवाकः ॥
Translation (भावार्थ):
The first anuvaka states that the knower of Brahman attains the supreme and defines Brahman as truth, knowledge, and infinity; from the Self arise space, air, fire, water, earth, plants, food, and the food-formed person.
अन्ना॒द्वै प्र॒जाः प्र॒जाय॑न्ते । याः काश्च॑ पृथि॒वीग् श्रि॒ताः । अथो॒ अन्ने॑नै॒व जी॑वन्ति । अथै॑न॒दपि॑ यन्त्यन्त॒तः । अन्न॒ग्ं॒ हि भू॒ताना॒-ञ्ज्येष्ठम्᳚ । तस्मा᳚थ्सर्वौष॒धमु॑च्यते । सर्वं॒-वैँ ते-ऽन्न॑माप्नुवन्ति । ये-ऽन्न॒-म्ब्रह्मो॒पास॑ते । अन्न॒ग्ं॒ हि भू॒ताना॒-ञ्ज्येष्ठम्᳚ । तस्मा᳚थ्सर्वौष॒धमु॑च्यते । अन्ना᳚द्भू॒तानि॒ जाय॑न्ते । जाता॒न्यन्ने॑न वर्धन्ते । अद्यते-ऽत्ति च॑ भूता॒नि । तस्मादन्न-न्तदुच्य॑त इ॒ति । तस्माद्वा एतस्मादन्न॑रस॒मयात् । अन्यो-ऽन्तर आत्मा᳚ प्राण॒मयः । तेनै॑ष पू॒र्णः । स वा एष पुरुषवि॑ध ए॒व । तस्य पुरु॑षवि॒धताम् । अन्वय॑-म्पुरुष॒विधः । तस्य प्राण॑ एव॒ शिरः । व्यानो दक्षि॑णः प॒क्षः । अपान उत्त॑रः प॒क्षः । आका॑श आ॒त्मा । पृथिवी पुच्छ॑-म्प्रति॒ष्ठा । तदप्येष श्लो॑को भ॒वति ॥ 1 ॥
इति द्वितीयो-ऽनुवाकः ॥
Translation (भावार्थ):
The second anuvaka teaches the food sheath and then the prana sheath, showing that beings arise from food, live by food, and return to food.
प्रा॒ण-न्दे॒वा अनु॒प्राण॑न्ति । म॒नु॒ष्याः᳚ प॒शव॑श्च॒ ये । प्रा॒णो हि भू॒ताना॒मायुः॑ । तस्मा᳚थ्सर्वायु॒षमु॑च्यते । सर्व॑मे॒व त॒ आयु॑र्यन्ति । ये प्रा॒ण-म्ब्रह्मो॒पास॑ते । प्राणो हि भूता॑नामा॒युः । तस्माथ्सर्वायुषमुच्य॑त इ॒ति । तस्यैष एव शारी॑र आ॒त्मा । यः॑ पूर्व॒स्य । तस्माद्वा एतस्मा᳚त्प्राण॒मयात् । अन्यो-ऽन्तर आत्मा॑ मनो॒मयः । तेनै॑ष पू॒र्णः । स वा एष पुरुषवि॑ध ए॒व । तस्य पुरु॑षवि॒धताम् । अन्वय॑-म्पुरुष॒विधः । तस्य यजु॑रेव॒ शिरः । ऋग्दक्षि॑णः प॒क्षः । सामोत्त॑रः प॒क्षः । आदे॑श आ॒त्मा । अथर्वाङ्गिरसः पुच्छ॑-म्प्रति॒ष्ठा । तदप्येष श्लो॑को भ॒वति ॥ 1 ॥
इति तृतीयो-ऽनुवाकः ॥
Translation (भावार्थ):
The third anuvaka praises prana as life and introduces the mind sheath shaped by Veda, instruction, and inward organization.
यतो॒ वाचो॒ निव॑र्तन्ते । अप्रा᳚प्य॒ मन॑सा स॒ह । आनन्द-म्ब्रह्म॑णो वि॒द्वान् । न बिभेति कदा॑चने॒ति । तस्यैष एव शारी॑र आ॒त्मा । यः॑ पूर्व॒स्य । तस्माद्वा एतस्मा᳚न्मनो॒मयात् । अन्यो-ऽन्तर आत्मा वि॑ज्ञान॒मयः । तेनै॑ष पू॒र्णः । स वा एष पुरुषवि॑ध ए॒व । तस्य पुरु॑षवि॒धताम् । अन्वय॑-म्पुरुष॒विधः । तस्य श्र॑द्धैव॒ शिरः । ऋत-न्दक्षि॑णः प॒क्षः । सत्यमुत्त॑रः प॒क्षः । यो॑ग आ॒त्मा । महः पुच्छ॑-म्प्रति॒ष्ठा । तदप्येष श्लो॑को भ॒वति ॥ 1 ॥
इति चतुर्थो-ऽनुवाकः ॥
Translation (भावार्थ):
The fourth anuvaka says speech and mind return without reaching Brahman and introduces the knowledge sheath, with faith, truth, order, yoga, and greatness as its limbs.
वि॒ज्ञानं॑-यँ॒ज्ञ-न्त॑नुते । कर्मा॑णि तनु॒ते-ऽपि॑ च । वि॒ज्ञान॑-न्दे॒वास्सर्वे᳚ । ब्रह्म॒ ज्येष्ठ॒मुपा॑सते । वि॒ज्ञान॒-म्ब्रह्म॒ चेद्वेद॑ । तस्मा॒च्चेन्न प्र॒माद्य॑ति । श॒रीरे॑ पाप्म॑नो हि॒त्वा । सर्वान्कामान्थ्समश्नु॑त इ॒ति । तस्यैष एव शारी॑र आ॒त्मा । यः॑ पूर्व॒स्य । तस्माद्वा एतस्माद्वि॑ज्ञान॒मयात् । अन्यो-ऽन्तर आत्मा॑-ऽऽनन्द॒मयः । तेनै॑ष पू॒र्णः । स वा एष पुरुषवि॑ध ए॒व । तस्य पुरु॑षवि॒धताम् । अन्वय॑-म्पुरुष॒विधः । तस्य प्रिय॑मेव॒ शिरः । मोदो दक्षि॑णः प॒क्षः । प्रमोद उत्त॑रः प॒क्षः । आन॑न्द आ॒त्मा । ब्रह्म पुच्छ॑-म्प्रति॒ष्ठा । तदप्येष श्लो॑को भ॒वति ॥ 1 ॥
इति पञ्चमो-ऽनुवाकः ॥
Translation (भावार्थ):
The fifth anuvaka praises knowledge as the power behind sacrifice and action and introduces the bliss sheath with dear, delight, great delight, bliss, and Brahman as support.
अस॑न्ने॒व स॑ भवति । अस॒द्ब्रह्मेति॒ वेद॒ चेत् । अस्ति ब्रह्मेति॑ चेद्वे॒द । सन्तमेन-न्ततो वि॑दुरि॒ति । तस्यैष एव शारी॑र आ॒त्मा । यः॑ पूर्व॒स्य । अथातो॑-ऽनुप्र॒श्नाः । उ॒तावि॒द्वान॒मुं-लोँ॒क-म्प्रेत्य॑ । कश्च॒न ग॑च्छ॒ती(3) । आहो॑ वि॒द्वान॒मुं-लोँ॒क-म्प्रेत्य॑ । कश्चि॒थ्सम॑श्नु॒ता(3) उ॒ । सो॑-ऽकामयत । ब॒हुस्या॒-म्प्रजा॑ये॒येति॑ । स तपो॑-ऽतप्यत । स तप॑स्त॒प्त्वा । इ॒दग्ं सर्व॑मसृजत । यदि॒द-ङ्किञ्च॑ । तथ्सृ॒ष्ट्वा । तदे॒वानु॒प्रावि॑शत् । तद॑नु प्र॒विश्य॑ । सच्च॒ त्यच्चा॑भवत् । नि॒रुक्त॒-ञ्चानि॑रुक्त-ञ्च । नि॒लय॑न॒-ञ्चानि॑लयन-ञ्च । वि॒ज्ञान॒-ञ्चावि॑ज्ञान-ञ्च । सत्य-ञ्चानृत-ञ्च स॑त्यम॒भवत् । यदि॑द-ङ्कि॒ञ्च । तत्सत्यमि॑त्याच॒क्षते । तदप्येष श्लो॑को भ॒वति ॥ 1 ॥
इति षष्ठो-ऽनुवाकः ॥
Translation (भावार्थ):
The sixth anuvaka asks whether the ignorant and the wise reach the other world and teaches creation from Brahman's will to become many.
अस॒द्वा इ॒दमग्र॑ आसीत् । ततो॒ वै सद॑जायत । तदात्मानग्ग् स्वय॑मकु॒रुत । तस्मात्तथ्सुकृतमुच्य॑त इ॒ति । यद्वै॑ तथ्सु॒कृतम् । र॑सो वै॒ सः । रसग्ग् ह्येवायं-लँब्ध्वा-ऽऽन॑न्दी भ॒वति । को ह्येवान्या᳚त्कः प्रा॒ण्यात् । यदेष आकाश आन॑न्दो न॒ स्यात् । एष ह्येवा-ऽऽन॑न्दया॒ति । य॒दा ह्ये॑वैष॒ एतस्मिन्नदृश्ये-ऽनात्म्ये-ऽनिरुक्ते-ऽनिलयने-ऽभयं
प्रति॑ष्ठां-विँ॒न्दते । अथ सो-ऽभय-ङ्ग॑तो भ॒वति । य॒दा ह्ये॑वैष॒ एतस्मिन्नुदरमन्त॑र-ङ्कु॒रुते । अथ तस्य भ॑य-म्भ॒वति । तत्त्वेव भयं-विँदुषो-ऽम॑न्वान॒स्य । तदप्येष श्लो॑को भ॒वति ॥ 1 ॥
इति सप्तमो-ऽनुवाकः ॥
Translation (भावार्थ):
The seventh anuvaka teaches that Brahman is the true essence and bliss, and that fear ends only when one is established in the invisible support.
भी॒षा-ऽस्मा॒द्वातः॑ पवते । भी॒षोदे॑ति॒ सूर्यः॑ । भीषा-ऽस्मादग्नि॑श्चेन्द्र॒श्च । मृत्युर्धावति पञ्च॑म इ॒ति । सैषा-ऽऽनन्दस्य मीमाग्ं॑सा भ॒वति । युवा स्याथ्साधुयु॑वा-ऽध्या॒यकः । आशिष्ठो दृढिष्ठो॑ बलि॒ष्ठः । तस्येय-म्पृथिवी सर्वा वित्तस्य॑ पूर्णा॒ स्यात् । स एको मानुष॑ आन॒न्दः । ते ये शत-म्मानुषा॑ आन॒न्दाः ॥ 1 ॥
स एको मनुष्यगन्धर्वाणा॑मान॒न्दः । श्रोत्रियस्य चाकाम॑हत॒स्य । ते ये शत-म्मनुष्यगन्धर्वाणा॑मान॒न्दाः । स एको देवगन्धर्वाणा॑मान॒न्दः । श्रोत्रियस्य चाकाम॑हत॒स्य । ते ये शत-न्देवगन्धर्वाणा॑मान॒न्दाः । स एकः पितृणा-ञ्चिरलोकलोकाना॑मान॒न्दः । श्रोत्रियस्य चाकाम॑हत॒स्य । ते ये शत-म्पितृणा-ञ्चिरलोकलोकाना॑मान॒न्दाः । स एक आजानजाना-न्देवाना॑मान॒न्दः ॥ 2 ॥
श्रोत्रियस्य चाकाम॑हत॒स्य । ते ये शतमाजानजाना-न्देवाना॑मान॒न्दाः । स एकः कर्मदेवाना-न्देवाना॑मान॒न्दः । ये कर्मणा देवान॑पिय॒न्ति । श्रोत्रियस्य चाकाम॑हत॒स्य । ते ये शत-ङ्कर्मदेवाना-न्देवाना॑मान॒न्दाः । स एको देवाना॑मान॒न्दः । श्रोत्रियस्य चाकाम॑हत॒स्य । ते ये शत-न्देवाना॑मान॒न्दाः । स एक इन्द्र॑स्या-ऽऽन॒न्दः ॥ 3 ॥
श्रोत्रियस्य चाकाम॑हत॒स्य । ते ये शतमिन्द्र॑स्या-ऽऽन॒न्दाः । स एको बृहस्पते॑रान॒न्दः । श्रोत्रियस्य चाकाम॑हत॒स्य । ते ये शत-म्बृहस्पते॑रान॒न्दाः । स एकः प्रजापते॑रान॒न्दः । श्रोत्रियस्य चाकाम॑हत॒स्य । ते ये शत-म्प्रजापते॑रान॒न्दाः । स एको ब्रह्मण॑ आन॒न्दः । श्रोत्रियस्य चाकाम॑हत॒स्य ॥ 4 ॥
स यश्चा॑य-म्पु॒रुषे । यश्चासा॑वादि॒त्ये । स एकः॑ । स य॑ एवं॒विँत् । अस्माल्लो॑कात्प्रे॒त्य । एतमन्नमयमात्मानमुप॑सङ्क्रा॒मति । एत-म्प्राणमयमात्मानमुप॑सङ्क्रा॒मति । एत-म्मनोमयमात्मानमुप॑सङ्क्रा॒मति । एतं-विँज्ञानमयमात्मानमुप॑सङ्क्रा॒मति । एतमानन्दमयमात्मानमुप॑सङ्क्रा॒मति । तदप्येष श्लो॑को भ॒वति ॥ 5 ॥
इत्यष्टमो-ऽनुवाकः ॥
Translation (भावार्थ):
The eighth anuvaka describes fear of Brahman as cosmic order and gives the scale of bliss, repeatedly showing that the desireless Vedic knower surpasses each level.
यतो॒ वाचो॒ निव॑र्तन्ते । अप्रा᳚प्य॒ मन॑सा स॒ह । आनन्द-म्ब्रह्म॑णो वि॒द्वान् । न बिभेति कुत॑श्चने॒ति । एतग्ं ह वाव॑ न त॒पति । किमहग्ं साधु॑ नाक॒रवम् । किमह-म्पापमकर॑वमि॒ति । स य एवं-विँद्वानेते आत्मा॑नग्ग् स्पृ॒णुते । उ॒भे ह्ये॑वैष॒ एते आत्मा॑नग्ग् स्पृ॒णुते । य ए॒वं-वेँद॑ । इत्यु॑प॒निष॑त् ॥ 1 ॥
इति नवमो-ऽनुवाकः ॥
Translation (भावार्थ):
The ninth anuvaka repeats that speech and mind return from Brahman's bliss and teaches that the knower is no longer tormented by regret over good and evil.
ॐ स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्य॑-ङ्करवावहै । ते॒ज॒स्विना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚ । ॐ शान्ति॒-श्शान्ति॒-श्शान्तिः॑ ॥
Translation (भावार्थ):
The closing peace prayer repeats the request for protection, nourishment, joint strength, brilliance, and freedom from hostility.
॥ हरिः॑ ओम् ॥
॥ श्री कृष्णार्पणमस्तु ॥
Translation (भावार्थ):
The traditional closing offers the recitation to Hari and Sri Krishna.
Browse Related Categories:
वेद मन्त्राः (111)
- गणपति प्रार्थन घनपाठः
- गायत्री मन्त्रं घनपाठः
- श्री रुद्रं लघुन्यासम्
- श्री रुद्रं नमकम्
- श्री रुद्रं - चमकप्रश्नः
- पुरुष सूक्तम्
- श्री सूक्तम्
- दुर्गा सूक्तम्
- नारायण सूक्तम्
- मन्त्र पुष्पम्
- शान्ति मन्त्रम् (दश शान्तयः)
- नित्य सन्ध्या वन्दनम् (कृष्ण यजुर्वेदीय)
- श्री गणपति अथर्व षीर्षम् (गणपत्यथर्वषीर्षोपनिषत्)
- ईशावास्योपनिषद् (ईशोपनिषद्)
- नक्षत्र सूक्तम् (नक्षत्रेष्टि)
- मन्यु सूक्तम्
- मेधा सूक्तम्
- विष्णु सूक्तम्
- शिव पञ्चामृत स्नानाभिषेकम्
- यज्ञोपवीत धारण
- सर्व देवता गायत्री मन्त्राः
- तैत्तिरीय उपनिषद् - शीक्षावल्ली
- तैत्तिरीय उपनिषद् - आनन्दवल्ली
- तैत्तिरीय उपनिषद् - भृगुवल्ली
- भू सूक्तम्
- नवग्रह सूक्तम्
- महानारायण उपनिषद्
- अरुणप्रश्नः
- श्री महान्यासम् (पूर्णं)
- सरस्वती सूक्तम् (ऋग्वेद)
- भाग्य सूक्तम्
- पवमान सूक्तम्
- नासदीय सूक्तम्
- नवग्रह सूक्तम् (नवग्रह नमस्कारम्)
- पितृ सूक्तम्
- रात्रि सूक्तम्
- सर्प सूक्तम्
- हिरण्य गर्भ सूक्तम्
- सानुस्वार प्रश्न (सुन्नाल पन्नम्)
- गो सूक्तम्
- त्रिसुपर्णम्
- चित्ति पन्नम्
- अघमर्षण सूक्तम्
- केन उपनिषद् - प्रथमः खण्डः
- केन उपनिषद् - द्वितीयः खण्डः
- केन उपनिषद् - तृतीयः खण्डः
- केन उपनिषद् - चतुर्थः खण्डः
- मुण्डक उपनिषद् - प्रथम मुण्डक, प्रथम काण्डः
- मुण्डक उपनिषद् - प्रथम मुण्डक, द्वितीय काण्डः
- मुण्डक उपनिषद् - द्वितीय मुण्डक, प्रथम काण्डः
- मुण्डक उपनिषद् - द्वितीय मुण्डक, द्वितीय काण्डः
- मुण्डक उपनिषद् - तृतीय मुण्डक, प्रथम काण्डः
- मुण्डक उपनिषद् - तृतीय मुण्डक, द्वितीय काण्डः
- नारायण उपनिषद्
- विश्वकर्म सूक्तम्
- श्री देव्यथर्वशीर्षम्
- दुर्वा सूक्तम् (महानारायण उपनिषद्)
- मृत्तिका सूक्तम् (महानारायण उपनिषद्)
- श्री दुर्गा अथर्वशीर्षम्
- अग्नि सूक्तम् (ऋग्वेद)
- क्रिमि संहारक सूक्तम् (यजुर्वेद)
- नीला सूक्तम्
- वेद आशीर्वचनम्
- वेद स्वस्ति वाचनम्
- ऐकमत्य सूक्तम् (ऋग्वेद)
- आयुष्य सूक्तम्
- श्रद्धा सूक्तम्
- श्री गणेश (गणपति) सूक्तम् (ऋग्वेद)
- शिवोपासन मन्त्राः
- शान्ति पञ्चकम्
- शुक्ल यजुर्वेद सन्ध्यावन्दनम्
- माण्डूक्य उपनिषद्
- ऋग्वेद सन्ध्यावन्दनम्
- एकात्मता स्तोत्रम्
- भावनोपनिषद्
- कठोपनिषद् - अध्याय 1, वल्ली 1
- कठोपनिषद् - अध्याय 1, वल्ली 2
- कठोपनिषद् - अध्याय 1, वल्ली 3
- कठोपनिषद् - अध्याय 2, वल्ली 1
- कठोपनिषद् - अध्याय 2, वल्ली 2
- कठोपनिषद् - अध्याय 2, वल्ली 3
- प्रश्नोपनिषद् - प्रथमः प्रश्नः
- प्रश्नोपनिषद् - द्वितीयः प्रश्नः
- प्रश्नोपनिषद् - त्रितीयः प्रश्नः
- प्रश्नोपनिषद् - चतुर्थः प्रश्नः
- प्रश्नोपनिषद् - पञ्च प्रश्नः
- प्रश्नोपनिषद् - षष्ठः प्रश्नः
- अन्न सूक्तम्
- ऋग्वेदीय पञ्च रुद्रं
- श्री महान्यासम् - 0. कलश प्रतिष्ठापन मन्त्राः
- श्री महान्यासम् - 1. पञ्चाङ्ग रुद्रन्यासः
- श्री महान्यासम् - 2. पञ्चमुख ध्यानम्
- श्री महान्यासम् - 3. अङ्गन्यासः
- श्री महान्यासम् - 4. दशाङ्ग न्यासः
- श्री महान्यासम् - 5. पञ्चाङ्ग न्यासः
- श्री महान्यासम् - 5.1. हंस गायत्री
- श्री महान्यासम् - 5.2. दिक् सम्पुटन्यासः (सम्पुटीकरणम्)
- श्री महान्यासम् - 5.3. दशाङ्ग रौद्रीकरणम्
- श्री महान्यासम् - 5.4. षोडशाङ्ग रौद्रीकरणं
- श्री महान्यासम् - 6.1. मनो ज्योतिः
- श्री महान्यासम् - 6.2. आत्मरक्षा
- श्री महान्यासम् - 7.1. शिवसङ्कल्पाः
- श्री महान्यासम् - 7.2. पुरुष सूक्तं
- श्री महान्यासम् - 7.3. उत्तर नारायणं
- श्री महान्यासम् - 7.4. अप्रतिरथं
- श्री महान्यासम् - 7.5. प्रति पूरुषं
- श्री महान्यासम् - 7.6. शत रुद्रीयं (त्वमग्ने रुद्रोऽनुवाकः)
- श्री महान्यासम् - 7.7. पञ्चाङ्ग जपः
- श्री महान्यासम् - 7.8. अष्टाङ्ग प्रणामः
- सरस्वती सूक्तम् (यजुर्वेदीय)
- उदक शान्ति (पुण्याह वाचनं)
उपनिषदः (34)
- ईशावास्योपनिषद् (ईशोपनिषद्)
- शिवसङ्कल्पोपनिषत् (शिव सङ्कल्पमस्तु)
- तैत्तिरीय उपनिषद् - शीक्षावल्ली
- तैत्तिरीय उपनिषद् - आनन्दवल्ली
- तैत्तिरीय उपनिषद् - भृगुवल्ली
- महानारायण उपनिषद्
- केन उपनिषद् - प्रथमः खण्डः
- केन उपनिषद् - द्वितीयः खण्डः
- केन उपनिषद् - तृतीयः खण्डः
- केन उपनिषद् - चतुर्थः खण्डः
- मुण्डक उपनिषद् - प्रथम मुण्डक, प्रथम काण्डः
- मुण्डक उपनिषद् - प्रथम मुण्डक, द्वितीय काण्डः
- मुण्डक उपनिषद् - द्वितीय मुण्डक, प्रथम काण्डः
- मुण्डक उपनिषद् - द्वितीय मुण्डक, द्वितीय काण्डः
- मुण्डक उपनिषद् - तृतीय मुण्डक, प्रथम काण्डः
- मुण्डक उपनिषद् - तृतीय मुण्डक, द्वितीय काण्डः
- नारायण उपनिषद्
- चाक्षुषोपनिषद् (चक्षुष्मती विद्या)
- अपराध क्षमापण स्तोत्रम्
- श्री सूर्योपनिषद्
- माण्डूक्य उपनिषद्
- भावनोपनिषद्
- कठोपनिषद् - अध्याय 1, वल्ली 1
- कठोपनिषद् - अध्याय 1, वल्ली 2
- कठोपनिषद् - अध्याय 1, वल्ली 3
- कठोपनिषद् - अध्याय 2, वल्ली 1
- कठोपनिषद् - अध्याय 2, वल्ली 2
- कठोपनिषद् - अध्याय 2, वल्ली 3
- प्रश्नोपनिषद् - प्रथमः प्रश्नः
- प्रश्नोपनिषद् - द्वितीयः प्रश्नः
- प्रश्नोपनिषद् - त्रितीयः प्रश्नः
- प्रश्नोपनिषद् - चतुर्थः प्रश्नः
- प्रश्नोपनिषद् - पञ्च प्रश्नः
- प्रश्नोपनिषद् - षष्ठः प्रश्नः
तैत्तिरीय उपनिषद् (3)