View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

नव नाग स्तोत्रम्

अनन्तं वासुकिं शेषं पद्मनाभं च कम्बलम् ।
शङ्खपालं धृतराष्ट्रं तक्षकं कालियं तथा ॥ 1 ॥

फलशृति ।
एतानि नव नामानि नागानां च महात्मनाम् ।
सायङ्काले पठेन्नित्यं प्रातःकाले विशेषतः ॥ 2 ॥

सन्तानं प्राप्यते नूनं सन्तानस्य च रक्षकाः ।
सर्वबाधा विनिर्मुक्तः सर्वत्र विजयी भवेत् ॥ 3 ॥

सर्पदर्शनकाले वा पूजाकाले च यः पठेत् ।
तस्य विषभयं नास्ति सर्वत्र विजयी भवेत् ॥ 4 ॥ [सर्प]

ॐ नागराजाय नमः प्रार्थयामि नमस्करोमि ॥

इति नवनाग स्तोत्रम् ।




Browse Related Categories: