View this in:
This stotram is in शुद्ध देवनागरी (Samskritam). View this in
सरल देवनागरी (हिंन्दी), with simplified anuswaras for easy reading.
ईशावास्योपनिषद् (ईSऒपनिषद्)
ॐ पूर्ण॒मदः॒ पूर्ण॒मिदं॒ पूर्णा॒त्पूर्ण॒मुद॒च्यते |
पूर्ण॒स्य पूर्ण॒मादा॒य पूर्ण॒मेवावशि॒ष्यते ‖
ॐ शा॒न्तिः शा॒न्तिः शा॒न्तिः ‖
ॐ ई॒शा वा॒स्य॑मि॒दग्ं सर्वं॒ यत्किञ्च॒ जग॑त्वां॒ जग॑त् |
तेन॑ त्य॒क्तेन॑ भुञ्जीथा॒ मा गृ॑धः॒ कस्य॑स्वि॒द्धनम्᳚ ‖ 1 ‖
कु॒र्वन्ने॒वेह कर्मा᳚णि जिजीवि॒षेच्च॒तग्ं समाः᳚ |
ए॒वं त्वयि॒ नान्यथे॒तो᳚ऽस्ति॒ न कर्म॑ लिप्यते॑ नरे᳚ ‖ 2 ‖
अ॒सु॒र्या॒ नाम॒ ते लो॒का अं॒धेन॒ तम॒साऽऽवृ॑ताः |
ताग्ंस्ते प्रेत्या॒भिग॑च्छन्ति॒ ये के चा᳚त्म॒हनो॒ जनाः᳚ ‖ 3 ‖
अने᳚ज॒देकं॒ मन॑सो॒ जवी᳚यो॒ नैन॑द्दे॒वा आ᳚प्नुव॒न्पूर्व॒मर्ष॑त् |
तद्धाव॑तो॒ऽन्यानत्ये᳚ति॒ तिष्ठ॒त्तस्मिन्᳚न॒पो मा᳚त॒रिश्वा᳚ दधाति ‖ 4 ‖
तदे᳚जति॒ तन्नेज॑ति॒ तद्दू॒रे तद्वं॑ति॒के |
तदं॒तर॑स्य॒ सर्व॑स्य॒ तदु॒ सर्व॑स्यास्य बाह्य॒तः ‖ 5 ‖
यस्तु सर्वा᳚णि भू॒तान्या॒त्मन्ये॒वानु॒पश्य॑ति |
स॒र्व॒भू॒तेषु॑ चा॒त्मानं॒ ततो॒ न विहु॑गुप्सते ‖ 6 ‖
यस्मि॒न्सर्वा᳚णि भू॒तान्या॒त्मैवाभू᳚द्विजान॒तः |
तत्र॒ को मोहः॒ कः शोकः॑ एक॒त्वम॑नु॒पश्य॑तः ‖ 7 ‖
स पर्य॑गाच्चु॒क्रम॑का॒यम॑प्रण॒म॑स्नावि॒रग्ं शु॒द्धमपा᳚पविद्धम् |
क॒विर्म॑नी॒षी प॑रि॒भूः स्व॑यं॒भू-र्या᳚थातथ्य॒तोऽर्था॒न्
व्य॑दधाच्छाश्व॒तीभ्यः॒ समा᳚भ्यः ‖ 8 ‖
अं॒धं तमः॒ प्रवि॑शन्ति॒ येऽवि॑द्यामु॒पास॑ते |
ततो॒ भूय॑ इव॒ ते तमो॒ य उ॑ वि॒द्याया᳚ग्ं र॒ताः ‖ 9 ‖
अ॒न्यदे॒वायुरि॒द्यया॒ऽन्यदा᳚हु॒रवि॑द्यया |
इति॑ शुशुम॒ धीरा᳚णां॒ ये न॒स्तद्वि॑चचक्षि॒रे ‖ 10 ‖
वि॒द्यां चावि॑द्यां च॒ यस्तद्वेदो॒भय॑ग्ं स॒ह |
अवि॑द्यया मृ॒त्युं ती॒र्त्वा वि॒द्ययाऽमृत॑मश्नुते ‖ 11 ‖
अं॒धं तमः॒ प्रवि॑शन्ति॒ येऽसम्᳚भूतिमु॒पास॑ते |
ततो॒ भूय॑ इव॒ ते तमो॒ य उ॒ सम्भू᳚त्याग्ं र॒ताः ‖ 12 ‖
अ॒न्यदे॒वाहुः सम्᳚भ॒वाद॒न्यदा᳚हु॒रसम्᳚भवात् |
इति॑ शुश्रुम॒ धीरा᳚णां॒ ये न॒स्तद्वि॑चचक्षि॒रे ‖ 13 ‖
सम्भू᳚तिं च विणा॒शं च॒ यस्तद्वेदो॒भय॑ग्ं स॒ह |
वि॒ना॒शेन॑ मृ॒त्युं ती॒र्त्वा सम्भू᳚त्या॒ऽमृत॑मश्नुते ‖ 14 ‖
हि॒र॒ण्मये᳚न॒ पात्रे᳚ण स॒त्यस्यापि॑हितं॒ मुखम्᳚ |
तत्वं पू᳚ष॒न्नपावृ॑णु स॒त्यध᳚र्माय दृ॒ष्टये᳚ ‖ 15 ‖
पूष॑न्नेकर्षे यम सूर्य॒ प्राजा᳚पत्य॒ व्यू᳚ह र॒श्मीन्
समू᳚ह॒ तेजो॒ यत्ते᳚ रू॒पं कल्या᳚णतमं॒ तत्ते᳚ पश्यामि |
यो॒ऽसाव॒सौ पुरु॑षः॒ सो॒ऽहम॑स्मि ‖ 16 ‖
वा॒युरनि॑लम॒मृत॒मथेदं भस्मा᳚न्त॒ग्ं॒ शरी॑रम् |
ॐ 3 क्रतो॒ स्मर॑ कृ॒तग्ं स्म॑र॒ क्रतो॒ स्मर॑ कृ॒तग्ं स्म॑र ‖ 17 ‖
अग्ने॒ नय॑ सु॒पथा᳚ रा॒ये अ॒स्मान् विश्वा॑नि देव व॒यना॑नि वि॒द्वान् |
यु॒यो॒ध्य॒स्मज्जु॑हुरा॒णमेनो॒ भूयि॑ष्टां ते॒ नम॑उक्तिं विधेम ‖ 18 ‖
ॐ पूर्ण॒मदः॒ पूर्ण॒मिदं॒ पूर्णा॒त्पूर्ण॒मुद॒च्यते |
पूर्ण॒स्य पूर्ण॒मादा॒य पूर्ण॒मेवावशि॒ष्यते ‖
ॐ शा॒न्तिः शा॒न्तिः शा॒न्तिः ‖
Last Updated: 27 December, 2020