View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

शिव पञ्चायतन षोडश उपचार पुज

पूर्वाङ्ग पूजा
शुचिः
अपवित्रः पवित्रो वा सर्वावस्था-ङ्गतो-ऽपि वा ।
य-स्स्मरे-त्पुण्डरीकाक्षं स बाह्याभ्यन्तर-श्शुचिः ॥
पुण्डरीकाक्ष पुण्डरीकाक्ष पुण्डरीकाक्षाय नमः ॥

प्रार्थना
शुक्लाम्बरधरं-विँष्णुं शशिवर्ण-ञ्चतुर्भुजम् ।
प्रसन्नवदन-न्ध्याये-थ्सर्वविघ्नोपशान्तये ॥
अगजानन पद्मार्क-ङ्गजाननमहर्निशम् ।
अनेकद-न्त-म्भक्तानां एकदन्तमुपास्महे ॥

दे॒वीं-वाँच॑मजनयन्त दे॒वास्तां-विँ॒श्वरू॑पाः प॒शवो॑ वदन्ति ।
सा नो॑ म॒न्द्रेष॒मूर्ज॒-न्दुहा॑ना धे॒नुर्वाग॒स्मानुप॒ सुष्टु॒तैतु॑ ॥

य-श्शिवो नाम रूपाभ्यां-याँ देवी सर्वमङ्गला ।
तयो-स्संस्मरणान्नित्यं सर्वदा जय मङ्गलम् ॥

तदेव लग्नं सुदिन-न्तदेव
ताराबल-ञ्चन्द्रबल-न्तदेव ।
विद्याबल-न्दैवबल-न्तदेव
लक्ष्मीपते ते-ऽङ्घ्रियुगं स्मरामि ॥

गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः ।
गुरु-स्साक्षा-त्परब्रह्म तस्मै श्रीगुरवे नमः ॥

लाभस्तेषा-ञ्जयस्तेषा-ङ्कुतस्तेषा-म्पराभवः ।
एषामिन्दीवरश्यामो हृदयस्थो जनार्दनः ॥

सर्वमङ्गल माङ्गल्ये शिवे सर्वार्थसाधिके ।
शरण्ये त्र्यम्बके गौरी नारायणि नमो-ऽस्तु ते ॥

श्रीलक्ष्मीनारायणाभ्या-न्नमः ।
उमामहेश्वराभ्या-न्नमः ।
वाणीहिरण्यगर्भाभ्या-न्नमः ।
शचीपुरन्दराभ्या-न्नमः ।
अरुन्धतीवसिष्ठाभ्या-न्नमः ।
श्रीसीतारामाभ्या-न्नमः ।
मातापितृभ्यो नमः ।
सर्वेभ्यो महाजनेभ्यो नमः ।

कर्पूर गौर-ङ्करुणावतारं
संसारसार-म्भुजगेन्द्र हारम् ।
सदा रमन्तं हृदयारविन्दे
भव-म्भवानी सहित-न्नमामि ॥

वागर्थाविव सम्पृक्तौ वागर्थ प्रतिपत्तये ।
जगतः पितरौ वन्दे पार्वती परमेश्वरौ ॥

वन्दे महेशं सुरसिद्धसेवितं
देवाङ्गना गीत सुनृत्य तुष्टम् ।
पर्यङ्कगं शैलसुतासमेतं
कल्पद्रुमारण्यगत-म्प्रसन्नम् ॥

आपाताल-नभस्स्थलान्त-भुवन-ब्रह्माण्ड-माविस्फुरत्-
ज्योति-स्स्फाटिक-लिङ्ग-मौलि-विलसत्-पूर्णेन्दु-वान्तामृतैः ।
अस्तोकाप्लुत-मेक-मीश-मनिशं रुद्रानु-वाकाञ्जपन्
ध्याये-दीप्सित-सिद्धये ध्रुवपदं-विँप्रो-ऽभिषिञ्चे-च्चिवम् ॥

ब्रह्माण्ड व्याप्तदेहा भसित हिमरुचा भासमाना भुजङ्गैः
कण्ठे कालाः कपर्दाः कलित-शशिकला-श्चण्ड कोदण्ड हस्ताः ।
त्र्यक्षा रुद्राक्षमालाः प्रकटितविभवा-श्शाम्भवा मूर्तिभेदाः
रुद्रा-श्श्रीरुद्रसूक्त-प्रकटितविभवा नः प्रयच्चन्तु सौख्यम् ॥

दीपाराधनम्
दीपस्त्व-म्ब्रह्मरूपो-ऽसि ज्योतिषा-म्प्रभुरव्ययः ।
सौभाग्य-न्देहि पुत्रांश्च सर्वान्कामांश्च देहि मे ॥
भो दीप देवि रूपस्त्व-ङ्कर्मसाक्षी ह्यविघ्नकृत् ।
यावत्पूजा-ङ्करिष्यामि तावत्त्वं सुस्थिरो भव ॥
दीपाराधन मुहूर्त-स्सुमुहूर्तो-ऽस्तु ॥
पूजार्थे हरिद्रा कुङ्कुम विलेपन-ङ्करिष्ये ॥

आचम्य
ओ-ङ्केशवाय स्वाहा ।
ओ-न्नारायणाय स्वाहा ।
ओ-म्माधवाय स्वाहा ।
ओ-ङ्गोविन्दाय नमः ।
ॐ-विँष्णवे नमः ।
ओ-म्मधुसूदनाय नमः ।
ओ-न्त्रिविक्रमाय नमः ।
ॐ-वाँमनाय नमः ।
ॐ श्रीधराय नमः ।
ॐ हृषीकेशाय नमः ।
ओ-म्पद्मनाभाय नमः ।
ओ-न्दामोदराय नमः ।
ॐ सङ्कर्​षणाय नमः ।
ॐ-वाँसुदेवाय नमः ।
ओ-म्प्रद्युम्नाय नमः ।
ॐ अनिरुद्धाय नमः ।
ओ-म्पुरुषोत्तमाय नमः ।
ॐ अधोक्षजाय नमः ।
ओ-न्नारसिंहाय नमः ।
ॐ अच्युताय नमः ।
ओ-ञ्जनार्दनाय नमः ।
ॐ उपेन्द्राय नमः ।
ॐ हरये नमः ।
ॐ श्रीकृष्णाय नमः ।

भूतोच्चाटनम्
उत्तिष्ठन्तु भूतपिशाचाः य एते भूमि भारकाः ।
एतेषामविरोधेन ब्रह्मकर्म समारभे ॥
अपसर्पन्तु ते भूता ये भूता भूमिसंस्थिताः ।
ये भूता विघ्नकर्तारस्ते गच्छन्तु शिवा-ऽज्ञया ॥

प्राणायामम्
ओ-म्भूः ओ-म्भुवः॑ ओग्‍ं सुवः॑ ओ-म्महः॑ ओ-ञ्जनः॑ ओ-न्तपः॑ ओग्‍ं सत्यम् ।
ओ-न्तत्स॑वि॒तुर्वरे᳚ण्य॒-म्भर्गो॑ दे॒वस्य॑ धीमहि ।
धियो॒ यो नः॑ प्रचो॒दया᳚त् ॥
ओमापो॒ ज्योती॒ रसो॒-ऽमृत॒-म्ब्रह्म॒ भूर्भुव॒स्सुव॒रोम् ॥

सङ्कल्पम्
ममोपात्त समस्त दुरितक्षयद्वारा श्री परमेश्वर प्रीत्यर्थम्,
शुभे शोभने मुहूर्ते आद्यब्रह्मणः द्वितीय परार्धे श्वेतवराह कल्पे वैवस्वत मन्वन्तरे अष्टाविंशति तमे कलियुगे प्रथमे पादे जम्बूद्वीपे भारतवर्​षे भरतखण्डे मेरोः दक्षिणे पार्​श्वे शकाब्दे अस्मिन् वर्तमाने व्यवहारिके प्रभवादि षष्ठ्या-स्सं​वँथ्सराणा-म्मद्ध्ये ......... नामसं​वँथ्सरे ......-ऽयने .......... ऋतौ ........ मासे ............पक्षे .......... शुभतिथौ. .............. वासरयुक्तायां ............. नक्षत्रयुक्तायाम्, शुभयोग शुभकरण एव-ङ्गुण सकल विशेषण विशिष्टायां अस्यां ...........शुभतिथौ ममोपात्त समस्त दुरितक्षयद्वारा श्री परमेश्वर प्रीत्यर्थं .......... नक्षत्रे .......राशौ जातस्य ..........शर्मणः मम .......... नक्षत्रे ...............राशौ .............जातयाः मम धर्मपत्न्याश्च आवयो-स्सकुटुम्बयोः ............... सपुत्रकयो-स्सबन्धुवर्गयो-स्साश्रित-जनयोश्च क्षेम-स्थैर्य-वीर्य-विजय, आयुरारोग्य-ऐश्वर्याणां अभिवृद्ध्यर्थम्, धर्मार्थ-काम-मोक्ष-चतुर्विध फलपुरुषार्थ सिद्ध्यर्थम्, सर्वारिष्ट शान्त्यर्थम्, सर्वाभीष्ट सिद्ध्यर्थम्, सपरिवार सोमास्कन्द परमेश्वर चरणारविन्दयोः अचञ्चल-निष्कपट-भक्ति सिद्ध्यर्थम्, यावच्छक्ति परिवार सहित रुद्रविधानेन ध्यान-आवाहनादि-षोडशोपचार-पूजा पुरस्सर-म्महान्यासजप (लघुन्यासजप) रुद्राभिषेक-अर्च्चनादि सहित साम्बशिव पूजा-ङ्करिष्ये ।
तदङ्ग-ङ्कलश-शङ्ख-आत्म-पीठ-पूजा-ञ्च करिष्ये । (द्वि)

(निर्विघ्न पूजा परिसमाप्त्यर्थं आदौ श्रीमहागणपति पूजा-ङ्करिष्ये ।)
श्री महागणपति पूजा ॥

तदङ्ग कलशाराधन-ङ्करिष्ये ।

कलशाराधनम्
कलशे गन्ध पुष्पाक्षतैरभ्यर्च्य ।
कलशे उदक-म्पूरयित्वा ।
कलशस्योपरि हस्त-न्निधाय ।

कलशस्य मुखे विष्णुः कण्ठे रुद्र-स्समाश्रितः ।
मूले त्वस्य स्थितो ब्रह्मा मध्ये मातृगणा-स्स्मृता ॥

कुक्षौ तु सागरा-स्सर्वे सप्तद्वीपा वसुन्धरा ।
ऋग्वेदो-ऽथ यजुर्वेदो सामवेदो ह्यथर्वणः ॥
अङ्गैश्च सहिता-स्सर्वे कलशाम्बु समाश्रिताः ।

ॐ आक॒लशे᳚षु धावति प॒वित्रे॒ परि॑षिच्यते ।
उ॒क्थैर्य॒ज्ञेषु॑ वर्धते ।

आपो॒ वा इ॒दग्‍ं सर्वं॒-विँश्वा॑ भू॒तान्यापः॑
प्रा॒णा वा आपः॑ प॒शव॒ आपो-ऽन्न॒मापो-ऽमृ॑त॒मापः॑
स॒म्राडापो॑ वि॒राडापः॑ स्व॒राडाप॒श्छन्दा॒ग्॒‍स्यापो॒
ज्योती॒ग्॒‍ष्यापो॒ यजू॒ग्॒‍ष्यापः॑ स॒त्यमापः॒
सर्वा॑ दे॒वता॒ आपो॒ भूर्भुव॒-स्सुव॒राप॒ ओम् ॥

गङ्गे च यमुने चैव गोदावरी सरस्वती ।
नर्मदे सिन्धु कावेरी जले-ऽस्मिन् सन्निधि-ङ्कुरु ॥
कावेरी तुङ्गभद्रा च कृष्णवेणी च गौतमी ।
भागीरथीति विख्याताः पञ्चगङ्गाः प्रकीर्तिताः ॥

आयान्तु श्री शिवपूजार्थ-म्मम दुरितक्षयकारकाः ।
ओ-म्भूर्भुवस्सुवो भूर्भुवस्सुवो भूर्भुवस्सुवः ॥
ॐ ॐ ओ-ङ्कलशोदकेन पूजा द्रव्याणि सम्प्रोक्ष्य,
देवं सम्प्रोक्ष्य, आत्मान-ञ्च सम्प्रोक्ष्य ॥

पञ्चकलश स्थापनं
पश्चिमं
स॒द्यो जा॒त-म्प्र॑पद्या॒मि॒ स॒द्यो जा॒ताय॒ वै नमो॒ नमः॑ ।
भ॒वे भ॑वे॒ नाति॑भवे भवस्व॒ माम् । भ॒वोद्भ॑वाय॒ नमः॑ ॥
ओ-म्भूर्भुव॒स्सुव॒रोम् ।
अस्मि-न्पश्चिमकलशे सद्योजात-न्ध्यायामि । आवाहयामि ।

उत्तरं
वा॒म॒दे॒वाय॒ नमो᳚ ज्ये॒ष्ठाय॒ नमः॑ श्रे॒ष्ठाय॒ नमो॑ रु॒द्राय॒ नमः॒ काला॑य॒ नमः॒ कल॑विकरणाय नमो॒ बल॑विकरणाय॒ नमो॒ बला॑य॒ नमो॒ बल॑प्रमथनाय॒ नम॒-स्सर्व॑भूतदमनाय॒ नमो॑ म॒नोन्म॑नाय॒ नमः॑ । ओ-म्भूर्भुव॒स्सुव॒रोम् । अस्मिन् उत्तरकलशे वामदेव-न्ध्यायामि । आवाहयामि ।

दक्षिणं
अ॒घोरे᳚भ्यो ऽथ॒घोरे᳚भ्यो॒ घोर॒घोर॑तरेभ्यः ।
सर्वे᳚भ्य-स्सर्व॒शर्वे᳚भ्यो॒ नम॑स्ते अस्तु रु॒द्ररू॑पेभ्यः ॥
ओ-म्भूर्भुव॒स्सुव॒रोम् ।
अस्मि-न्दक्षिणकलशे अघोर-न्ध्यायामि । आवाहयामि ।

पूर्वं
ओ-न्तत्पुरु॑षाय वि॒द्महे॑ महादे॒वाय॑ धीमहि । तन्नो॑ रुद्रः प्रचो॒दया᳚त् ॥
ओ-म्भूर्भुव॒स्सुव॒रोम् ।
अस्मि-न्पूर्वकलशे तत्पुरुष-न्ध्यायामि । आवाहयामि ।

मद्ध्यमं
ईशान-स्सर्व॑विद्या॒ना॒-मीश्वर-स्सर्व॑भूता॒ना॒-म्ब्रह्माधि॑पति॒ र्ब्रह्म॒णो-ऽधि॑पति॒ र्ब्रह्मा॑ शि॒वो मे॑ अस्तु सदाशिवोम् ॥
ओ-म्भूर्भुव॒स्सुव॒रोम् ।
अस्मि-न्मद्ध्यम कलशे ईशान-न्ध्यायामि । आवाहयामि ।

प्राणप्रतिष्ठा
ॐ असु॑नीते॒ पुन॑र॒स्मासु॒ चक्षुः॒
पुनः॑ प्रा॒णमि॒ह नो᳚ धेहि॒ भोग᳚म् ।
ज्योक्प॑श्येम॒ सूर्य॑मु॒च्चर᳚न्त॒
मनु॑मते मृ॒डया᳚ न-स्स्व॒स्ति ॥
अ॒मृतं॒-वैँ प्रा॒णा अ॒मृत॒मापः॑
प्रा॒णाने॒व य॑थास्था॒नमुप॑ह्वयते ॥

स्वामिन् सर्वजगन्नाथ याव-त्पूजावसानकम् ।
ताव-त्त्व-म्प्रीतिभावेन लिङ्गे-ऽस्मिन् सन्न्निधि-ङ्कुरु ॥

ओ-न्त्र्य॑म्बकं-यँजामहे सुग॒न्धि-म्पु॑ष्टि॒ वर्ध॑नम् ।
उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान्मृ॒त्योर्मु॑क्षीय॒ मा-ऽमृता᳚त् ॥

आवाहितो भव । स्थापितो भव । सन्निहितो भव । सन्निरुद्धो भव । अवकुण्ठितो भव । सुप्रीतो भव । सुप्रसन्नो भव । वरदो भव ।
स्वागतं अस्तु । प्रसीद प्रसीद ।

लघुन्यासं / महान्यासम् ॥

ध्यानं
कैलासे कमनीय रत्न खचिते कल्पद्रुमूले स्थितं
कर्पूर स्फटिकेन्दु सुन्दर तनु-ङ्कात्यायनी सेवितम् ।
गङ्गोत्तुङ्ग तरङ्ग रञ्जित जटा भार-ङ्कृपासागरं
कण्ठालङ्कृत शेषभूषणमह-म्मृत्युञ्जय-म्भावये ॥
ॐ श्री उमामहेश्वर स्वामिने नमः ध्यायामि ।

आवाहनं (ॐ स॒द्योजा॒त-म्प्र॑पद्या॒मि)
ओङ्काराय नमस्तुभ्यं ओङ्कारप्रिय शङ्कर ।
आवाहन-ङ्गृहाणेद-म्पार्वतीप्रिय वल्लभ ॥
ॐ श्री उमामहेश्वर स्वामिने नमः आवाहयामि ।

आसनं (ॐ स॒द्योजा॒ताय॒वै नमो॒ नमः॑)
नमस्ते गिरिजानाथ कैलासगिरि मन्दिर ।
सिंहासन-म्मया दत्तं स्वीकुरुष्व उमापते ॥
श्री उमामहेश्वर स्वामिने नमः नवरत्न खचित हेम सिंहासनं समर्पयामि ।

पाद्यं (ओ-म्भवे भ॑वे॒न)
महादेव जगन्नाथ भक्तानामभयप्रद ।
पाद्य-ङ्गृहाण देवेश मम सौख्यं-विँवर्धय ॥
श्री उमामहेश्वर स्वामिने नमः पादयोः पाद्यं समर्पयामि ।

अर्घ्यं (ॐ अति॑ भवे भवस्व॒मां)
शिवाप्रिय नमस्तेस्तु पावन-ञ्जलपूरितम् ।
अर्घ्य-ङ्गृहाण भगव-न्गाङ्गेय कलशस्थितम् ॥
श्री उमामहेश्वर स्वामिने नमः हस्तयोः अर्घ्यं समर्पयामि ।

आचमनं (ओ-म्भ॒वोद्भ॑वाय॒ नमः)
वामदेव सुराधीश वन्दिताङ्घ्रि सरोरुह ।
गृहाणाचमन-न्देव करुणा वरुणालय ॥
श्री उमामहेश्वर स्वामिने नमः मुखे आचमनीयं समर्पयामि ।

मधुपर्कं
यमान्तकाय उग्राय भीमाय च नमो नमः ।
मधुपर्क-म्प्रदास्यामि गृहाण त्वमुमापते ॥
श्री उमामहेश्वर स्वामिने नमः मधुपर्कं समर्पयामि ।

पञ्चामृत स्नानं
1. आप्यायस्येति क्षीरं (milk) –
ॐ आप्या॑यस्व॒ समे॑तु ते वि॒श्वत॑स्सोम॒ वृष्णि॑यम् ।
भवा॒ वाज॑स्य सङ्ग॒थे ॥
श्री भवानीशङ्करास्वामिने नमः, क्षीरेण स्नपयामि ।

आपो॒ हिष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन ।
म॒हेरणा॑य॒ चक्ष॑से ।
यो वः॑ शि॒वत॑मो रस॒स्तस्य॑ भाजयते॒ ह नः॑ ।
उ॒श॒तीरि॑व मा॒त॑रः ।
तस्मा॒ अर॑ङ्गमामवो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ ।
आपो॑ ज॒नय॑था च नः ।
श्री भवानीशङ्करास्वामिने नमः । क्षीरस्नानानन्तरं शुद्धोदक स्नानं समर्पयामि ।

2. दधिक्राव्णो इति दधि (yogurt) –
ओ-न्द॒धि॒क्राव्णो॑ अकारिष-ञ्जि॒ष्णोरश्व॑स्य वा॒जिनः॑ ।
सु॒रभि नो॒ मुखा॑ कर॒त्प्रण॒ आयूग्ं॑षि तारिषत् ॥
श्री भवानीशङ्करास्वामिने नमः । दध्ना स्नपयामि ।

आपो॒ हिष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन ।
म॒हेरणा॑य॒ चक्ष॑से ।
यो वः॑ शि॒वत॑मो रस॒स्तस्य॑ भाजयते॒ ह नः॑ ।
उ॒श॒तीरि॑व मा॒त॑रः ।
तस्मा॒ अर॑ङ्गमामवो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ ।
आपो॑ ज॒नय॑था च नः ।
श्री भवानीशङ्करास्वामिने नमः । दधिस्नानानन्तरं शुद्धोदक स्नानं समर्पयामि ।

3. शुक्रमसीति आज्यं (ghee) –
ॐ शु॒क्रम॑सि॒ ज्योति॑रसि॒ तेजो॑सि दे॒वोव॑स्सवि॒तोत्पु॑ना॒तु
अच्छि॑द्रेण प॒वित्रे॑ण॒ वसो॒स्सूर्य॑स्य र॒श्मिभिः॑ ।
श्री भवानीशङ्करास्वामिने नमः । आज्येन स्नपयामि ।

आपो॒ हिष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन ।
म॒हेरणा॑य॒ चक्ष॑से ।
यो वः॑ शि॒वत॑मो रस॒स्तस्य॑ भाजयते॒ ह नः॑ ।
उ॒श॒तीरि॑व मा॒त॑रः ।
तस्मा॒ अर॑ङ्गमामवो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ ।
आपो॑ ज॒नय॑था च नः ।
श्री भवानीशङ्करास्वामिने नमः । आज्य स्नानानन्तरं शुद्धोदक स्नानं समर्पयामि ।

4. मधुवाता ऋतायते इति मधु (honey) –
ओ-म्मधु॒वाता॑ ऋताय॒ते मधु॑क्षरन्ति॒ सिन्ध॑वः ।
माध्वी᳚र्न-स्स॒न्त्वौष॑धीः ।
मधु॒नक्त॑मु॒तोष॑सि॒ मधु॑म॒त्पार्थि॑व॒ग्ं॒ रजः॑ ।
मधु॒द्यौर॑स्तु नः पि॒ता ।
मधु॑मान्नो॒ वन॒स्पति॒र्मधु॑माग्‍ं अस्तु॒ सूर्यः॑ ।
माध्वी॒र्गावो॑ भवन्तु नः ।
श्री भवानीशङ्करास्वामिने नमः । मधुना स्नपयामि ।

आपो॒ हिष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन ।
म॒हेरणा॑य॒ चक्ष॑से ।
यो वः॑ शि॒वत॑मो रस॒स्तस्य॑ भाजयते॒ ह नः॑ ।
उ॒श॒तीरि॑व मा॒त॑रः ।
तस्मा॒ अर॑ङ्गमामवो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ ।
आपो॑ ज॒नय॑था च नः ।
श्री भवानीशङ्करास्वामिने नमः । मधुस्नानानन्तरं शुद्धोदक स्नानं समर्पयामि ।

5. स्वादुः पवस्येति शर्करा (sugar) –
ॐ स्वा॒दुः प॑वस्व दि॒व्याय॒ जन्म॑ने ।
स्वा॒दुरिन्द्रा᳚य सु॒हवी᳚तु नाम्ने ।
स्वा॒दुर्मि॒त्राय॒ वरु॑णाय वा॒यवे॒ ।
बृह॒स्पत॑ये॒ मधु॑मां॒ अदा᳚भ्यः ।
श्री भवानीशङ्करास्वामिने नमः । शर्करया स्नपयामि ।

आपो॒ हिष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन ।
म॒हेरणा॑य॒ चक्ष॑से ।
यो वः॑ शि॒वत॑मो रस॒स्तस्य॑ भाजयते॒ ह नः॑ ।
उ॒श॒तीरि॑व मा॒त॑रः ।
तस्मा॒ अर॑ङ्गमामवो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ ।
आपो॑ ज॒नय॑था च नः ।
श्री भवानीशङ्करास्वामिने नमः । शर्कर स्नानानन्तरं शुद्धोदक स्नानं समर्पयामि ।

शङ्खोदकं
आपो॒ हिष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन ।
म॒हेरणा॑य॒ चक्ष॑से ।
यो वः॑ शि॒वत॑मो रस॒स्तस्य॑ भाजयते॒ ह नः॑ ।
उ॒श॒तीरि॑व मा॒त॑रः ।
तस्मा॒ अर॑ङ्गमामवो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ ।
आपो॑ ज॒नय॑था च नः ।
श्री भवानीशङ्करास्वामिने नमः । शङ्खोदकेन स्नपयामि ॥

फलोदकं
याः फ॒लिनी॒र्या अ॑फ॒ला अ॑पु॒ष्पायाश्च॑ पु॒ष्पिणीः᳚ ।
बृह॒स्पति॑ प्रसूता॒स्तानो॑ मुञ्च॒न्त्वग्‍ं ह॑सः ॥
श्री भवानीशङ्करास्वामिने नमः । फलोदकेन स्नपयामि ।

गन्धोदकं
ग॒न्ध॒द्वा॒रा-न्दु॑राध॒र्​षा॒-न्नि॒त्यपु॑ष्टा-ङ्करी॒षिणी᳚म् ।
ई॒श्वरी॑ग्ं सर्व॑भूता॒ना॒-न्तामि॒होप॑ह्वये॒ श्रियम् ॥
श्री भवानीशङ्करास्वामिने नमः । गन्धोदकेन स्नपयामि ।

पुष्पोदकं
यो॑-ऽपा-म्पुष्पं॒-वेँद॑ ।
पुष्प॑वा-न्प्र॒जावा॑-न्पशु॒मा-न्भ॑वति ।
च॒न्द्रमा॒ वा अ॒पा-म्पुष्प॑म् ।
पुष्प॑वा-न्प्र॒जावा॑-न्पशु॒मा-न्भ॑वति ।
श्री भवानीशङ्करास्वामिने नमः । पुष्पोदकेन स्नपयामि ।

अक्षतोदकं
आय॑ने ते प॒राय॑णे॒ दूर्वा॑ रोहन्तु पु॒ष्पिणीः॑ ।
ह्र॒दाश्च॑ पु॒ण्डरी॑काणि समु॒द्रस्य॑ गृ॒हा इ॒मे ।
श्री भवानीशङ्करास्वामिने नमः । अक्षतोदकेन स्नपयामि ।

सुवर्णोदकं
तथ्सु॒वर्ण॒ग्ं॒ हिर॑ण्यमभवत् ।
तथ्सु॒वर्ण॑स्य॒ हिर॑ण्यस्य॒जन्म॑ ।
य ए॒वग्ं सु॒वर्ण॑स्य॒ हिर॑ण्यस्य॒ जन्म॒वे॑द ।
सु॒वर्ण॑ आ॒त्मना॑ भवति ।
श्री भवानीशङ्करास्वामिने नमः । सुवर्णोदकेन स्नपयामि ।

रुद्राक्षोदकं
त्र्य॑म्बकं-यँजामहे सुग॒न्धि-म्पु॑ष्टि॒ वर्ध॑नम् ।
उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान्मृ॒त्योर्मु॑क्षीय॒ मा-ऽमृता᳚त् ॥
श्री भवानीशङ्करास्वामिने नमः । रुद्राक्षोदकेन स्नपयामि ।

भस्मोदकं
मा नो॑ म॒हान्त॑मु॒त मा नो॑ अर्भ॒कं
मा न॒ उक्ष॑न्तमु॒त मा न॑ उक्षि॒तम् ।
मा नो॑-ऽवधीः पि॒तर॒-म्मोत मा॒तरं॑
प्रि॒या मा न॑स्त॒नुवो॑ रुद्र रीरिषः ।
श्री भवानीशङ्करास्वामिने नमः । भस्मोदकेन स्नपयामि ।

बिल्वोदकं
मा न॑स्तो॒के तन॑ये॒ मा न॒ आयु॑षि॒
मा नो॒ गोषु॒ मा नो॒ अश्वे॑षु रीरिषः ।
वी॒रान्मा नो॑ रुद्र भामि॒तो-ऽव॑धीर्​ह॒विष्म॑न्तो॒
नम॑सा विधेम ते ।
श्री भवानीशङ्करास्वामिने नमः । बिल्वोदकेन स्नपयामि ।

दूर्वोदकं
काण्डा॑त्काण्डात्प्र॒रोह॑न्ति परु॑षः परुषः॒ परि॑ ।
ए॒वानो॑ दूर्वे॒ प्रत॑नु स॒हस्रे॑ण श॒तेन॑ च ॥
श्री भवानीशङ्करास्वामिने नमः । दूर्वोदकेन स्नपयामि ।

अथ मलापकर्​षण स्नानम्
हिर॑ण्यवर्णा॒श्शुच॑यः पाव॒का
यासु॑ जा॒तः क॒श्यपो॒ यास्विन्द्रः॑ ।
अ॒ग्निं-याँ गर्भ॑-न्दधि॒रे विरू॑पा॒स्ता
न॒ आप॒श्शग्ग् स्यो॒ना भ॑वन्तु ॥

यासा॒ग्ं॒ राजा॒ वरु॑णो॒ याति॒ मध्ये॑
सत्यानृ॒ते अ॑व॒पश्य॒ञ्जना॑नाम् ।
म॒धु॒श्चुत॒श्शुच॑यो॒ याः पा॑व॒कास्ता
न॒ आप॒श्शग्ग् स्यो॒ना भ॑वन्तु ॥

यासा॑-न्दे॒वा दि॒वि कृ॒ण्वन्ति॑ भ॒क्षं
या अ॒न्तरि॑क्षे बहु॒धा भव॑न्ति ।
याः पृ॑थि॒वी-म्पय॑सो॒न्दन्ति॑ शु॒क्रास्ता
न॒ आप॒श्शग्ग् स्यो॒ना भ॑वन्तु ॥

शि॒वेन॑ मा॒ चक्षु॑षा पश्यतापश्शि॒वया॑
त॒नुवोप॑ स्पृशत॒ त्वच॑-म्मे ।
सर्वाग्ं॑ अ॒ग्नीग्ं र॑फ्सु॒षदो॑ हुवे वो॒ मयि॒
वर्चो॒ बल॒मोजो॒ निध॑त्त ॥

(अ.वे., काण्ड-3, सूक्तं-13)
यद॒द-स्स॑म्प्रय॒तीरहा॒वन॑दता ह॒ते ।
तस्मा॒दा न॒द्यो॑ नाम॑ स्थ॒ ता वो॒ नामा॑नि सिन्धवः ॥ 1
यत्प्रेषि॑ता॒ वरु॑णे॒नताश्शीभ॑ग्ं स॒मव॑ल्गत ।
तदा॑प्नो॒दिन्द्रो॑ वो य॒तीस्तस्मा॒दापो॒ अनु॑स्थन ॥ 2
आ॒प॒का॒मग्ग्ं स्यन्द॑माना॒ अवी॑वरत वो॒ हि क॑म् ।
इन्द्रो॑ व॒श्शक्ति॑भिर्देवी॒स्तस्मा॒द्वार्णाम॑ वो हि॒तम् ॥ 3
एको॑ वो दे॒वो अप्य॑तिष्ठ॒थ्स्यन्द॑माना यथाव॒शम् ।
उदा॑निषुर्म॒हीरिति॒ तस्मा॑दुद॒कमु॑च्यते ॥ 4
आपो॑ भ॒द्रा घृ॒तमिदाप॑ आनुर॒ग्नीषोमौ॑ बिभ्र॒त्याप॒ इत्ताः ।
ती॒व्रो रसो॑ मधु॒पृचां॑ अ॒र॒ङ्ग॒म आ मा॑ प्रा॒णेन॑ स॒ह वर्च॑सागन्न् ॥ 5
आदित्प॑श्याम्यु॒त वा॑ शृणो॒म्या मा॒ घोषो॑ गच्छति॒ वाङ्म॑ आसाम् ।
मन्ये॑ भेजा॒नो अ॒मृत॑स्य॒ तर्‍हि॒ हिर॑ण्यवर्णा॒ अतृ॑पं-यँ॒दा वः॑ ॥ 6

आपो॒ हिष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन ।
म॒हेरणा॑य॒ चक्ष॑से ।
यो वः॑ शि॒वत॑मो रस॒स्तस्य॑ भाजयते॒ ह नः॑ ।
उ॒श॒तीरि॑व मा॒त॑रः ।
तस्मा॒ अर॑ङ्गमामवो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ ।
आपो॑ ज॒नय॑था च नः ।
श्री भवानीशङ्करास्वामिने नमः । शुद्धोदकेन स्नपयामि ।

आपो॒ वा इ॒दग्ं सर्वं॒-विँश्वा॑ भू॒तान्यापः॑ प्रा॒णा वा आपः॑
प॒शव॒ आपो-ऽन्न॒मापो-ऽमृ॑त॒मापः॑ स॒म्राडापो॑ वि॒राडापः॑
स्व॒राडाप॒श्छन्दा॒ग्ं॒स्यापो॒ ज्योती॒ग्ं॒ष्यापो॒
यजू॒ग्ं॒ष्याप॑स्स॒त्यमाप॒स्सर्वा॑ दे॒वता॒ आपो॒
भूर्भुव॒स्सुव॒राप॒ ओम् ॥

अ॒पः प्रण॑यति । श्र॒द्धावा आपः॑ ।
श्र॒द्धामे॒वारभ्य॑ प्र॒णीय॒ प्रच॑रति ।
अ॒पः प्रण॑यति । य॒ज्ञो वाअ आपः॑ ।
य॒ज्ञमे॒वारभ्य॑ प्र॒णीय॒ प्रच॑रति
अ॒पः प्रण॑यति । व॒ज्रो वा आपः॑ ।
वज्र॑मे॒व भ्रातृ॑व्येभ्यः प्रहृत्य॑ प्र॒णीय॒ प्रच॑रति ।
अ॒पः प्रण॑यति । आपो॒ वै र॑क्षो॒घ्नीः ।
रक्ष॑सा॒मप॑हत्यै ।
अ॒पः प्रण॑यति । आपो॒ वै दे॒वाना॑-म्प्रि॒यन्धाम॑ ।
दे॒वाना॑मे॒व प्रि॒यन्धाम॑ प्र॒णीय॒ प्रच॑रति ।
अ॒पः प्रण॑यति । आपो॒ वै सर्वा॑ दे॒वताः॑ ।
दे॒वता॑ ए॒वारभ्य॑ प्र॒णीय॒ प्रच॑रति ।
(आपो॒वैशा॒न्ताः । शा॒न्ताभि॑रे॒वास्य॑ शुचग्ं॑शमयति ॥)
श्री भवानीशङ्करास्वामिने नमः । मलापकर्​षणस्नानं समर्पयामि ।

रुद्रप्रश्नः – नमकम् ॥
रुद्रप्रश्नः – चमकम् ॥
पुरुष सूक्तम् ॥
श्री सूक्तम् ॥

ॐ श्री उमामहेश्वर स्वामिने नम-श्शुद्धोदक स्नानं समर्पयामि ।
स्नानानन्तरं आचमनीयं समर्पयामि ।

वस्त्रं – (ओ-ञ्ज्ये॒ष्ठाय॒ नमः)
नमो नागविभूषाय नारदादि स्तुताय च ।
वस्त्रयुग्म-म्प्रदास्यामि पार्थिवेश्वर स्वीकुरु ॥
ॐ श्री उमामहेश्वर स्वामिने नमः वस्त्रयुग्मं समर्पयामि ।
(वस्त्रार्थं अक्षतान् समर्पयामि)

यज्ञोपवीतं – (ॐ श्रे॒ष्ठाय॒ नमः)
यज्ञेश यज्ञविध्वंस सर्वदेव नमस्कृत ।
यज्ञसूत्र-म्प्रदास्यामि शोभन-ञ्चोत्तरीयकम् ॥
ॐ श्री उमामहेश्वर स्वामिने नमः यज्ञोपवीतं समर्पयामि ।
(उपवीतार्थं अक्षतान् समर्पयामि)

आभरणं – (ॐ रु॒द्राय॒ नमः)
नागाभरण विश्वेश चन्द्रार्धकृतमस्तक ।
पार्थिवेश्वर मद्दत्त-ङ्गृहाणाभरणं-विँभो ॥
ॐ श्री उमामहेश्वर स्वामिने नमः आभरणं समर्पयामि ।

गन्धं – (ओ-ङ्काला॑य॒ नमः॑)
श्री गन्ध-न्ते प्रयच्छामि गृहाण परमेश्वर ।
कस्तूरि कुङ्कुमोपेतं शिवाश्लिष्ट भुजद्वय ॥
ॐ श्री उमामहेश्वर स्वामिने नम-श्श्रीगन्धादि परिमल द्रव्यं समर्पयामि ।

अक्षतान् – (ओ-ङ्कल॑विकरणाय॒ नमः)
अक्षता-न्धवला-न्दिव्यान् शालि तुण्डुल मिश्रितान् ।
अक्षतोसि स्वभावेन स्वीकुरुष्व महेश्वर ॥
ॐ श्री उमामहेश्वर स्वामिने नमः धवलाक्षतान् समर्पयामि ।

पुष्पं – (ओ-म्बल॑ विकरणाय॒ नमः)
सुगन्धीनि सुपुष्पाणि जाजीबिल्वार्क चम्पकैः ।
निर्मित-म्पुष्पमालञ्च नीलकण्ठ गृहाण भो ॥
ॐ श्री उमामहेश्वर स्वामिने नमः पुष्प बिल्वदलानि समर्पयामि ।

अथाङ्ग पूजा
ओ-म्महेश्वराय नमः – पादौ पूजयामि ।
ॐ ईश्वराय नमः – जङ्घौ पूजयामि ।
ओ-ङ्कामरूपाय नमः – जानुनी पूजयामि ।
ॐ हराय नमः – ऊरू पूजयामि ।
ओ-न्त्रिपुरान्तकाय नमः – गुह्य-म्पूजयामि ।
ओ-म्भवाय नमः – कटि-म्पूजयामि ।
ॐ-व्याँघ्रचर्माम्बरधराय नमः – नाभि-म्पूजयामि ।
ओ-ङ्कुक्षिस्थ ब्रहाण्डाय नमः – उदर-म्पूजयामि ।
ओ-ङ्गौरी मनः प्रियाय नमः – हृदय-म्पूजयामि ।
ओ-म्पिनाकिने नमः – हस्तौ पूजयामि ।
ओ-न्नागावृतभुजदण्डाय नमः – भुजौ पूजयामि ।
ॐ श्रीकण्ठाय नमः – कण्ठ-म्पूजयामि ।
ॐ-विँरूपाक्षाय नमः – मुख-म्पूजयामि ।
ओ-न्त्रिनेत्राय नमः – नेत्राणि पूजयामि ।
ॐ रुद्राय नमः – ललाट-म्पूजयामि ।
ॐ शर्वाय नमः – शिरः पूजयामि ।
ओ-ञ्चन्द्रमौलये नमः – मौलि-म्पूजयामि ।
ॐ अर्धनारीश्वराय नमः – तनु-म्पूजयामि ।
ॐ श्री उमामहेश्वराय नमः – सर्वाण्यङ्गानि पूजयामि ।

अष्टोत्तरशतनाम पूजा
ॐ शिवाय नमः
ओ-म्महेश्वराय नमः
ॐ शम्भवे नमः
ओ-म्पिनाकिने नमः
ॐ शशिशेखराय नमः
ॐ-वाँमदेवाय नमः
ॐ-विँरूपाक्षाय नमः
ओ-ङ्कपर्दिने नमः
ओ-न्नीललोहिताय नमः
ॐ शङ्कराय नमः (10)

ॐ शूलपाणये नमः
ओ-ङ्खट्वाङ्गिने नमः
ॐ-विँष्णुवल्लभाय नमः
ॐ शिपिविष्टाय नमः
ॐ अम्बिकानाथाय नमः
ॐ श्रीकण्ठाय नमः
ओ-म्भक्तवत्सलाय नमः
ओ-म्भवाय नमः
ॐ शर्वाय नमः
ओ-न्त्रिलोकेशाय नमः (20)

ॐ शितिकण्ठाय नमः
ॐ शिवाप्रियाय नमः
ॐ उग्राय नमः
ओ-ङ्कपालिने नमः
ओ-ङ्कामारये नमः
ॐ अन्धकासुर सूदनाय नमः
ओ-ङ्गङ्गाधराय नमः
ॐ-लँलाटाक्षाय नमः
ओ-ङ्कालकालाय नमः
ओ-ङ्कृपानिधये नमः (30)

ओ-म्भीमाय नमः
ओ-म्परशुहस्ताय नमः
ओ-म्मृगपाणये नमः
ओ-ञ्जटाधराय नमः
ओ-ङ्कैलासवासिने नमः
ओ-ङ्कवचिने नमः
ओ-ङ्कठोराय नमः
ओ-न्त्रिपुरान्तकाय नमः
ॐ-वृँषाङ्काय नमः
ॐ-वृँषभारूढाय नमः (40)

ओ-म्भस्मोद्धूलित विग्रहाय नमः
ॐ सामप्रियाय नमः
ॐ स्वरमयाय नमः
ओ-न्त्रयीमूर्तये नमः
ॐ अनीश्वराय नमः
ॐ सर्वज्ञाय नमः
ओ-म्परमात्मने नमः
ॐ सोमसूर्याग्नि लोचनाय नमः
ॐ हविषे नमः
ॐ-यँज्ञमयाय नमः (50)

ॐ सोमाय नमः
ओ-म्पञ्चवक्त्राय नमः
ॐ सदाशिवाय नमः
ॐ-विँश्वेश्वराय नमः
ॐ-वीँरभद्राय नमः
ओ-ङ्गणनाथाय नमः
ओ-म्प्रजापतये नमः
ॐ हिरण्यरेतसे नमः
ओ-न्दुर्धर्​षाय नमः
ओ-ङ्गिरीशाय नमः (60)

ओ-ङ्गिरिशाय नमः
ॐ अनघाय नमः
ओ-म्भुजङ्ग भूषणाय नमः
ओ-म्भर्गाय नमः
ओ-ङ्गिरिधन्वने नमः
ओ-ङ्गिरिप्रियाय नमः
ओ-ङ्कृत्तिवाससे नमः
ओ-म्पुरारातये नमः
ओ-म्भगवते नमः
ओ-म्प्रमथाधिपाय नमः (70)

ओ-म्मृत्युञ्जयाय नमः
ॐ सूक्ष्मतनवे नमः
ओ-ञ्जगद्व्यापिने नमः
ओ-ञ्जगद्गुरवे नमः
ॐ-व्योँमकेशाय नमः
ओ-म्महासेन जनकाय नमः
ओ-ञ्चारुविक्रमाय नमः
ॐ रुद्राय नमः
ओ-म्भूतपतये नमः
ॐ स्थाणवे नमः (80)

ॐ अहिर्बुध्न्याय नमः
ओ-न्दिगम्बराय नमः
ॐ अष्टमूर्तये नमः
ॐ अनेकात्मने नमः
ॐ सात्त्विकाय नमः
ॐ शुद्धविग्रहाय नमः
ॐ शाश्वताय नमः
ओ-ङ्खण्डपरशवे नमः
ॐ अजाय नमः
ओ-म्पाशविमोचकाय नमः (90)

ओ-म्मृडाय नमः
ओ-म्पशुपतये नमः
ओ-न्देवाय नमः
ओ-म्महादेवाय नमः
ॐ अव्ययाय नमः
ॐ हरये नमः
ओ-म्पूषदन्तभिदे नमः
ॐ अव्यग्राय नमः
ओ-न्दक्षाध्वरहराय नमः
ॐ हराय नमः (100)

ओ-म्भगनेत्रभिदे नमः
ॐ अव्यक्ताय नमः
ॐ सहस्राक्षाय नमः
ॐ सहस्रपादे नमः
ॐ अपवर्गप्रदाय नमः
ॐ अनन्ताय नमः
ओ-न्तारकाय नमः
ओ-म्परमेश्वराय नमः (108)

ओ-न्निध॑नपतये॒ नमः । ओ-न्निध॑नपतान्तिकाय॒ नमः ।
ॐ ऊर्ध्वाय॒ नमः । ॐ ऊर्ध्वलिङ्गाय॒ नमः ।
ॐ हिरण्याय॒ नमः । ॐ हिरण्यलिङ्गाय॒ नमः ।
ॐ सुवर्णाय॒ नमः । ॐ सुवर्णलिङ्गाय॒ नमः ।
ओ-न्दिव्याय॒ नमः । ओ-न्दिव्यलिङ्गाय॒ नमः ।
ओ-म्भवाय॒ नमः । ओ-म्भवलिङ्गाय॒ नमः ।
ॐ शर्वाय॒ नमः । ॐ शर्वलिङ्गाय॒ नमः ।
ॐ शिवाय॒ नमः । ॐ शिवलिङ्गाय॒ नमः ।
ओ-ञ्ज्वलाय॒ नमः । ओ-ञ्ज्वललिङ्गाय॒ नमः ।
ॐ आत्माय॒ नमः । ॐ आत्मलिङ्गाय॒ नमः ।
ओ-म्परमाय॒ नमः । ओ-म्परमलिङ्गाय॒ नमः ।

ओ-म्भ॒वाय॑ दे॒वाय॒ नमः
– ओ-म्भ॒वस्य॑ दे॒वस्य॒ पत्न्यै॒ नमः॑ ।
ॐ श॒र्वाय॑ दे॒वाय॒ नमः
– ॐ श॒र्वस्य॑ दे॒वस्य॒ पत्न्यै॒ नमः॑ ।
ॐ ईशा॑नाय दे॒वाय॒ नमः
– ॐ ईशा॑नस्य दे॒वस्य॒ पत्न्यै॒ नमः॑ ।
ओ-म्पशु॒पत॑ये दे॒वाय॒ नमः
– ओ-म्पशु॒पते᳚र्दे॒वस्य पत्न्यै॒ नमः॑ ।
ॐ रु॒द्राय॑ दे॒वाय॒ नमः
– ॐ रु॒द्रस्य॑ दे॒वस्य॒ पत्न्यै॒ नमः॑ ।
ॐ उ॒ग्राय॑ दे॒वाय॒ नमः
– ॐ उ॒ग्रस्य॑ दे॒वस्य॒ पत्न्यै॒ नमः॑ ।
ओ-म्भी॒माय॑ दे॒वाय॒ नमः
– ओ-म्भी॒मस्य॑ दे॒वस्य॒ पत्न्यै॒ नमः॑ ।
ओ-म्मह॑ते दे॒वाय॒ नमः
– ओ-म्मह॑तो दे॒वस्य॒ पत्न्यै॒ नमः॑ ।

ॐ श्री उमामहेश्वर स्वामिने नमः नाना विध परिमल पत्र पुष्पाक्षतान् समर्पयामि ।

धूपं – (ओ-म्बला॑य॒ नमः)
धूर॑सि॒ धूर्व॒ धूर्व॑न्त॒-न्धूर्व॒तं-योँ᳚-ऽस्मा-न्धूर्व॑ति॒ त-न्धू᳚र्व॒यं-वँ॒यं
धूर्वा॑म॒स्त्व-न्दे॒वाना॑मसि॒ सस्नि॑तम॒-म्पप्रि॑तम॒-ञ्जुष्ट॑तमं॒-वँह्नि॑तमं
देव॒हूत॑म॒-मह्रु॑तमसि हवि॒र्धान॒-न्दृग्ं ह॑स्व॒ माह्वा᳚ र्मि॒त्रस्य॑ त्वा॒ चक्षु॑षा॒
प्रेक्षे॒ मा भेर्मा सं​विँ॑क्ता॒ मा त्वा॑ हिग्ंसिषम् ।
आवाहिताभ्य-स्सर्वाभ्यो देवताभ्यो नमः । धूपमाघ्रापयामि ।

दीपं – (ओ-म्बल॑ प्रमथनाय॒ नमः)
उद्दी᳚प्यस्व जातवेदो-ऽप॒घ्न-न्नि​ऋ॑ति॒-म्मम॑ । प॒शुग्ग्​श्च॒ मह्य॒माव॑ह॒ जीव॑न-ञ्च॒ दिशो॑ दिश । मानो॑ हिग्ंसी-ज्जातवेदो॒ गामश्व॒-म्पुरु॑ष॒-ञ्जग॑त् । अबि॑भ्र॒दग्न॒ आग॑हि श्रि॒या मा॒ परि॑पातय ।
आवाहिताभ्य-स्सर्वाभ्यो देवताभ्यो नमः । धूपमाघ्रापयामि ।
धूप दीपानन्तरं शुद्धाचमनीयं समर्पयामि ।

नैवेद्यं – (ॐ सर्व॑ भूत दमनाय॒ नमः)
ओ-म्भूर्भुव॒स्सुवः॒ । तत्स॑वि॒तुर्वरे᳚ण्य॒-म्भर्गो॑ दे॒वस्य॑ धीमहि ।
धि॒यो यो नः॑ प्रचो॒दया᳚त् । देव सवितः प्रसुवः ।
सत्य-न्त्वर्तेन परिषिञ्चामि ।
(सायङ्काले – ऋत-न्त्वा सत्येन परिषिञ्चामि)

अमृतं अस्तु । अमृतोपस्तरणमसि ।
ओ-म्प्राणाय स्वाहाः । ॐ अपानाय स्वाहाः ।
ॐ-व्याँनाय स्वाहाः । ॐ उदानाय स्वाहाः ।
ॐ समानाय स्वाहाः । ओ-म्ब्रह्मणे स्वाहाः ।
मधु॒वाता॑ ऋताय॒ते मधु॑क्षरन्ति॒ सिन्ध॑वः ।
माद्ध्वी᳚र्न-स्स॒न्त्वोष॑धीः । मधु॒नक्त॑ मु॒तोषसि॒ मधु॑म॒-त्पार्थि॑व॒ग्ं॒ रजः॑ ।
मधु॒द्यौर॑स्तु नः पि॒ता । मधु॑मान्नो॒ वन॒स्पति॒ र्मधु॑माग्ं अस्तु॒ सूर्यः॑ ।
माध्वी॒र्गावो॑ भवन्तु नः ॥ मधु मधु मधु ॥
आवाहिताभ्य-स्सर्वाभ्यो देवताभ्यो नमः ।
(दिव्यान्नम्, घृतगुलपायसम्, नालिकेरखण्डद्वयम्, कदलीफलं ...)
ॐ श्री उमामहेश्वर स्वामिने नमः । महानैवेद्य-न्निवेदयामि ।

मध्ये मध्ये पानीयं समर्पयामि ।
अ॒मृ॒ता॒पि॒धा॒नम॑सि । उत्तरापोशनं समर्पयामि ।
हस्तौ प्रक्षालयामि । पादौ प्रक्षालयामि ।
शुद्धाचमनीयं समर्पयामि ।

ताम्बूलं – (ओ-म्म॒नोन्म॑नाय॒ नमः)
पूगीफलसमायुक्त-न्नागवल्लीदलैर्युतम् ।
कर्पूरचूर्ण सं​युँक्त-न्ताम्बूल-म्प्रतिगृह्यताम् ।
आवाहिताभ्य-स्सर्वाभ्यो देवताभ्यो नमः । ताम्बूल-न्निवेदयामि ।
ताम्बूल चर्वणानन्तरं शुद्ध आचमनीयं समर्पयामि ।

नीराजनं
सोमो॒ वा ए॒तस्य॑ रा॒ज्यमाद॑त्ते । यो राजा॒स-न्रा॒ज्यो वा॒ सोमे॑न॒
यज॑ते । दे॒व॒ सु॒वामे॒तानि॑ ह॒विग्ंषि॑ भवन्ति ।
ए॒ताव॑न्तो॒ वै दे॒वानाग्ं॑ स॒वाः । त ए॒वास्मै॑ स॒वा-न्प्र॑यच्छन्ति ।
त ए॑न-म्पु॒न-स्सुव॑न्ते रा॒ज्याय॑ । दे॒व॒सू राजा॑ भवति ।

रा॒जा॒धि॒रा॒जाय॑ प्रसह्य सा॒हिने᳚ । नमो॑ व॒यं-वैँ᳚श्रव॒णाय॑ कुर्महे ।
स मे॒ कामा॒न् काम॒कामा॑य॒ मह्य᳚म् । का॒मे॒श्व॒रो वै᳚श्रव॒णो द॑दातु ।
कु॒बे॒राय॑ वैश्रव॒णाय॑ । म॒हा॒रा॒जाय॒ नमः॑ ।

अ॒घोरे᳚भ्यो ऽथ॒घोरे᳚भ्यो॒ घोर॒घोर॑तरेभ्यः ।
सर्वे᳚भ्य-स्सर्व॒शर्वे᳚भ्यो॒ नम॑स्ते अस्तु रु॒द्ररू॑पेभ्यः ॥

तत्पुरु॑षाय वि॒द्महे॑ महादे॒वाय॑ धीमहि ।
तन्नो॑ रुद्रः प्रचो॒दया᳚त् ॥

ईशान-स्सर्व॑विद्या॒ना॒-मीश्वर-स्सर्व॑भूता॒ना॒-म्ब्रह्माधि॑पति॒ र्ब्रह्म॒णो-ऽधि॑पति॒ र्ब्रह्मा॑ शि॒वो मे॑ अस्तु सदाशिवोम् ॥

नीराजनमिद-न्देव कर्पूरामोद सं​युँतम् ।
गृहाण परमानन्द हेरम्ब वरदायक ॥

आवाहिताभ्य-स्सर्वाभ्यो देवताभ्यो नमः । कर्पूर नीराजन-न्दर्​शयामि ।
नीराजनानन्तरं शुद्ध आचमनीयं समर्पयामि ।

मन्त्रपुष्पं

आत्मरक्षा
ब्रह्मा᳚त्म॒न् वद॑सृजत । तद॑कामयत । समा॒त्मना॑ पद्ये॒येति॑ ।
आत्म॒न्ना-त्म॒न्नित्या-म॑न्त्रयत । तस्मै॑ दश॒मग्ं हू॒तः प्रत्य॑शृणोत् ।
स दश॑हूतो-ऽभवत् । दश॑हूतो ह॒वै नामै॒षः । तं-वाँ ए॒त-न्दश॑हूत॒ग्ं॒ सन्त᳚म् ।
दश॑हो॒तेत्या च॑क्षते प॒रोक्षे॑ण । प॒रोक्ष॑प्रिया इव॒ हि दे॒वाः ॥ 1

आत्म॒न्ना-त्म॒न्नित्या-म॑न्त्रयत । तस्मै॑ सप्त॒मग्ं हू॒तः प्रत्य॑शृणोत् ।
स स॒प्तहू॑तो-ऽभवत् । स॒प्तहू॑तो ह॒वै नामै॒षः । तं-वाँ ए॒तग्ं स॒प्तहू॑त॒ग्ं॒ सन्त᳚म् । स॒प्तहो॒तेत्या च॑क्षते प॒रोक्षे॑ण । प॒रोक्ष॑प्रिया इव॒ हि दे॒वाः ॥ 2

आत्म॒न्ना-त्म॒न्नित्या-म॑न्त्रयत । तस्मै॑ ष॒ष्ठग्ं हू॒तः प्रत्य॑शृणोत् ।
स षड्ढू॑तो-ऽभवत् । षड्ढू॑तो ह॒वै नामै॒षः । तं-वाँ ए॒तग्ं षड्ढू॑त॒ग्ं॒ सन्त᳚म् ।
षड्ढो॒तेत्या च॑क्षते प॒रोक्षे॑ण । प॒रोक्ष॑प्रिया इव॒ हि दे॒वाः ॥ 3

आत्म॒न्ना-त्म॒न्नित्या-म॑न्त्रयत । तस्मै॑ पञ्च॒मग्ं हू॒तः प्रत्य॑शृणोत् ।
स पञ्च॑हूतो-ऽभवत् । पञ्च॑हूतो ह॒वै नामै॒षः । तं-वाँ ए॒त-म्पञ्च॑हूत॒ग्ं॒ सन्त᳚म् । पञ्च॑हो॒तेत्या च॑क्षते प॒रोक्षे॑ण । प॒रोक्ष॑प्रिया इव॒ हि दे॒वाः ॥ 4

आत्म॒न्ना-त्म॒न्नित्या-म॑न्त्रयत । तस्मै॑ चतु॒र्थग्ं हू॒तः प्रत्य॑शृणोत् ।
स चतु॑र्​हूतो-ऽभवत् । चतु॑र्​हूतो ह॒वै नामै॒षः । तं-वाँ ए॒त-ञ्चतु॑र्​हूत॒ग्ं॒
सन्त᳚म् । चतु॑र्​हो॒तेत्या च॑क्षते प॒रोक्षे॑ण । प॒रोक्ष॑प्रिया इव॒ हि दे॒वाः ॥ 5

तम॑ब्रवीत् । त्वं-वैँ मे॒ नेदि॑ष्ठग्ं हू॒तः प्रत्य॑श्रौषीः ।
त्वयै॑ नानाख्या॒तार॒ इति॑ । तस्मा॒न्नुहै॑ना॒ग्॒-श्च॑तु र्​होतार॒ इत्याच॑क्षते ।
तस्मा᳚च्छुश्रू॒षुः पु॒त्राणा॒ग्ं॒ हृद्य॑तमः । नेदि॑ष्ठो॒ हृद्य॑तमः ।
नेदि॑ष्ठो॒ ब्रह्म॑णो भवति । य ए॒वं-वेँद॑ ॥ 6 (आत्मने॒ नमः॑)

ओ-न्तत्पुरु॑षाय वि॒द्महे॑ महादे॒वाय॑ धीमहि ।
तन्नो॑ रुद्रः प्रचो॒दया᳚त् ॥
ओ-ङ्का॒त्या॒य॒नाय॑ वि॒द्महे॑ कन्यकु॒मारि॑ धीमहि ।
तन्नो॑ दुर्गिः प्रचो॒दया᳚त् ॥

यो॑-ऽपा-म्पुष्पं॒-वेँद॑ । पुष्प॑वा-न्प्र॒जावा᳚-न्पशु॒मा-न्भ॑वति ।
च॒न्द्रमा॒ वा अ॒पा-म्पुष्प᳚म् । पुष्प॑वा-न्प्र॒जावा᳚-न्पशु॒मा-न्भ॑वति ।

ओ᳚-न्तद्ब्र॒ह्म । ओ᳚-न्तद्वा॒युः । ओ᳚-न्तदा॒त्मा । ओ᳚-न्तथ्स॒त्यम् ।
ओ᳚-न्तथ्सर्व᳚म् । ओ᳚-न्तत्पुरो॒र्नमः ।

अन्तश्चरति॑ भूते॒षु॒ गुहायां-विँ॑श्वमू॒र्तिषु । त्वं-यँज्ञस्त्वं-वँषट्कार स्त्वमिन्द्रस्त्वग्ं रुद्रस्त्वं-विँष्णुस्त्व-म्ब्रह्मत्व॑-म्प्रजा॒पतिः ।
त्व-न्त॑दाप॒ आपो॒ ज्योती॒रसो॒-ऽमृत॒-म्ब्रह्म॒ भूर्भुव॒स्सुव॒रोम् ।

चतुर्वेद पारायणं
ॐ श्री भवानीशङ्कर स्वामिने नमः ॥
ऋग्वेदप्रियः ॥ ऋग्वेदमवधारय ॥
ह॒रिः॒ ओम् ॥ अ॒ग्निमी᳚ले पु॒रोहि॑तं-यँ॒ज्ञस्य॑ दे॒वमृ॒त्विज᳚म् । होता᳚रं रत्न॒ धात॑मम् ।
हरिः॑ ओम् ॥

ॐ श्री भवानीशङ्कर स्वामिने नमः ॥
यजुर्वेदप्रियः ॥ यजुर्वेदमवधारय ॥
ह॒रिः॒ ओम् ॥ इ॒षे त्वो॒र्जे त्वा॑ वा॒यवः॑ स्थोपा॒यवः॑ स्थ दे॒वो वः॑ सवि॒ता प्रार्प॑यतु॒ श्रेष्ठ॑तमाय॒ कर्म॑ण॒ आ प्या॑यद्ध्वमघ्निया देवभा॒ग-मूर्ज॑स्वतीः॒ पय॑स्वतीः प्र॒जाव॑ती-रनमी॒वा अ॑य॒क्ष्मा मा वः॑ स्ते॒न ई॑शत॒ मा-ऽघशग्ं॑सो रु॒द्रस्य॑ हे॒तिः परि॑ वो वृणक्तु ध्रु॒वा अ॒स्मि-न्गोप॑तौ स्यात ब॒ह्वी-र्यज॑मानस्य प॒शू-न्पा॑हि ॥
हरिः॑ ओम् ॥

ॐ श्री भवानीशङ्कर स्वामिने नमः ॥
सामवेदप्रियः ॥ सामवेदमवधारय ॥
ह॒रिः॒ ओम् ॥ अग्न॒ आया᳚हि वी॒तये᳚ गृणा॒नो ह॒व्य दा᳚तये ।
निहोता᳚ सथ्सि ब॒र्​हिषि॑ ।
हरिः॑ ओम् ॥

ॐ श्री भवानीशङ्कर स्वामिने नमः ॥
अथर्ववेदप्रियः ॥ अथर्ववेदमवधारय ॥
ह॒रिः॒ ओम् ॥ शन्नो॑ दे॒वीर॒भिष्ट॑य॒ आपो॑ भवन्तु पी॒तये᳚ । शं​योँर॒भिस्र॑वन्तु नः ॥
हरिः॑ ओम् ॥

ॐ श्री भवानीशङ्कर स्वामिने नमः ॥
उपनिषद्प्रियः ॥ उपनिषदवधारय ॥
ह॒रिः॒ ओम् ॥ अ॒हमन्न-म॒हमन्न-म॒हमन्नम् । अ॒हमन्ना॒दो(3)-ऽ॒हमन्ना॒दो(3)-ऽ॒हमन्ना॒दः । अ॒हग्ग् श्लोक॒कृद॒हग्ग् श्लोक॒कृद॒हग्ग् श्लोक॒कृत् । अ॒हमस्मि प्रथमजा ऋता(3) स्य॒ । पूर्व-न्देवेभ्यो अमृतस्य ना(3) भा॒यि॒ । यो मा ददाति स इदेव मा(3) वाः॒ । अ॒हमन्न॒-मन्न॑-म॒दन्त॒मा(3) द्मि॒ । अहं॒-विँश्व॒-म्भुव॑न॒-मभ्य॑भ॒वाम् । सुव॒र्न ज्योतीः᳚ । य ए॒वं-वेँद॑ । इत्यु॑प॒निष॑त् ॥

आवाहिताभ्य-स्सर्वाभ्यो देवताभ्यो नमः ।
पादारविन्दयोः दिव्य सुवर्ण मन्त्र पुष्पाञ्जलिं समर्पयामि ।

प्रदक्षिणं
ईशान-स्सर्व॑विद्या॒ना॒मीश्वर-स्सर्व॑भूता॒नां॒
ब्रह्माधि॑पति॒र्ब्रह्म॒णो-ऽधि॑पति॒र्ब्रह्मा॑ शि॒वो मे॑ अस्तु सदाशि॒वोम् ॥

पदे पदे सर्वतमो निकृन्तनं
पदे पदे सर्व शुभप्रदायकम् ।
प्रदक्षिण-म्भक्तियुतेन चेतसा
करोमि मृत्युञ्जय रक्ष रक्ष माम् ॥
ॐ श्री उमामहेश्वर स्वामिने नमः आत्मप्रदक्षिण नमस्कारान् समर्पयामि ।

प्रार्थना
नमो हिरण्यबाहवे हिरण्यवर्णाय हिरण्यरूपाय हिरण्यपतये-ऽम्बिकापतय उमापतये पशुपतये॑ नमो॒ नमः ॥

अथ तर्पणं
भव-न्देव-न्तर्पयामि
– भवस्य देवस्य पत्नी-न्तर्पयामि ।
शर्व-न्देव-न्तर्पयामि
– शर्वस्य देवस्य पत्नी-न्तर्पयामि ।
ईशान-न्देव-न्तर्पयामि
– ईशानस्य देवस्य पत्नी-न्तर्पयामि ।
पशुपति-न्देव-न्तर्पयामि
– पशुपतेर्देवस्य पत्नी-न्तर्पयामि ।
रुद्र-न्देव-न्तर्पयामि
– रुद्रस्य देवस्य पत्नी-न्तर्पयामि ।
उग्र-न्देव-न्तर्पयामि
– उग्रस्य देवस्य पत्नी-न्तर्पयामि ।
भीम-न्देव-न्तर्पयामि
– भीमस्य देवस्य पत्नी-न्तर्पयामि ।
महान्त-न्देव-न्तर्पयामि
– महतो देवस्य पत्नी-न्तर्पयामि ।

इति तर्पयित्वा अघोरादिभिस्त्रिभिर्मन्त्रैः घोर तनूरुपतिष्ठते ।

ॐ अ॒घोरे᳚भ्यो-ऽथ॒ घोरे᳚भ्यो॒ घोर॒घोर॑तरेभ्यः ।
सर्वे᳚भ्य-स्सर्व॒शर्वे᳚भ्यो॒ नम॑स्ते अस्तु रु॒द्ररू॑पेभ्यः ॥
ओ-न्तत्पुरु॑षाय वि॒द्महे॑ महादे॒वाय॑ धीमहि ।
तन्नो॑ रुद्रः प्रचो॒दया᳚त् ॥
ईशानस्स॑र्वविद्या॒ना॒मीश्वरस्सर्व॑भूता॒ना॒-म्ब्रह्मा-ऽधि॑पति॒र्ब्रह्म॒णो-ऽधि॑पति॒र्ब्रह्मा॑ शि॒वो मे॑ अस्तु सदाशि॒वोम् ॥

इति ध्यात्वा रुद्रगायत्रीं-यँथा शक्ति जपेत् ।

ओ-न्तत्पुरु॑षाय वि॒द्महे॑ महादे॒वाय॑ धीमहि ।
तन्नो॑ रुद्रः प्रचो॒दया᳚त् ॥

इति जपित्वा अथैनमाशिषमाशास्ते ।

(तै.ब्रा.3-5-10-4)
आशा᳚स्ते॒-ऽयं-यँज॑मानो॒-ऽसौ । आयु॒राशा᳚स्ते ।
सु॒प्र॒जा॒स्त्वमाशा᳚स्ते । स॒जा॒त॒व॒न॒स्यामाशा᳚स्ते ।
उत्त॑रा-न्देवय॒ज्यामाशा᳚स्ते । भूयो॑ हवि॒ष्कर॑ण॒माशा᳚स्ते ।
दि॒व्य-न्धामाशा᳚स्ते । विश्व॑-म्प्रि॒यमाशा᳚स्ते ।
यद॒नेन॑ ह॒विषा-ऽऽशा᳚स्ते । तद॑स्या॒त्त॒दृ॑ध्यात् ।
तद॑स्मै दे॒वा रा॑सन्ताम् । तद॒ग्निर्दे॒वो दे॒वेभ्यो॒ वन॑ते ।
व॒यम॒ग्नेर्मानु॑षाः । इ॒ष्ट-ञ्च॑ वी॒त-ञ्च॑ ।
उ॒भे च॑ नो॒ द्यावा॑पृथि॒वी अग्ंह॑स-स्स्पाताम् ।
इ॒ह गति॑र्वा॒मस्ये॒द-ञ्च॑ । नमो॑ दे॒वेभ्यः॑ ॥

उपचारपूजाः
पुनः पूजा-ङ्करिष्ये । छत्रमाच्छादयामि ।
चामरैर्वीजयामि । नृत्य-न्दर्​शयामि ।
गीतं श्रावयामि । आन्दोलिकानारोहयामि ।
अश्वानारोहयामि । गजानारोहयामि ।
समस्त राजोपचार देवोपचार भक्त्युपचार शक्त्युपचार मन्त्रोपचार पूजास्समर्पयामि ॥

लिङ्गाष्टकम् ॥
बिल्वाष्टकम् ॥

क्षमाप्रार्थन
करचरणकृतं-वाँक्कायज-ङ्कर्मजं-वाँ
श्रवणनयनजं-वाँ मानसं-वाँ-ऽपराधम् ।
विहितमविहितं-वाँ सर्वमेतत्क्ष्मस्व
शिव शिव करुणाब्धे श्रीमहादेव शम्भो ॥ 18॥

यस्य स्मृत्या च नामोक्त्या तपः पूजा क्रियादिषु ।
न्यूनं सम्पूर्णतां-याँति सद्योवन्दे महेश्वरम् ॥
मन्त्रहीन-ङ्क्रियाहीन-म्भक्तिहीन-म्महेश्वर ।
यत्पूजित-म्मया देव परिपूर्ण-न्तदस्तु ते ॥

अनया सद्योजात विधिना ध्यानावाहनादि षोडशोपचार पूजया भगवान् सर्वात्मक-श्श्री उमामहेश्वरस्वामी सुप्रीत-स्सुप्रसन्नो वरदो भवतु ।
एतत्फलं श्री परमेश्वरार्पणमस्तु ॥
उत्तरतश्चण्डीश्वराय नमः निर्माल्यं-विँसृज्य ॥

तीर्थं
अकालमृत्युहरणं सर्वव्याधि निवारणम् ।
समस्तपापक्षयकरं शिवपादोदक-म्पावनं शुभम् ॥
इति त्रिवार-म्पीत्वा शिव निर्माल्य रूप बिल्वदलं-वाँ दक्षिणे कर्णे धारयेत् ।

ॐ शान्ति-श्शान्ति-श्शान्तिः ॥




Browse Related Categories: