ईश्वर उवाच
शृणु देवि प्रवक्ष्यामि साम्प्रतं तत्पुरातनम् ।
सहस्रनाम परमं प्रत्यङ्गिरार्थ सिद्धये ॥ 1 ॥
सहस्रनामपाठेन सर्वत्र विजयी भवेत् ।
पराभवो न चास्यास्ति सभायां वा वने रणे ॥ 2 ॥
तथा तुष्टा भवेद्देवी प्रत्यङ्गिराऽस्य पाठतः ।
यथा भवति देवेशि साधकः शिव एव हि ॥ 3 ॥
अश्वमेधसहस्राणि वाजपेयस्य कोटयः ।
सकृत्पाठेन जायन्ते प्रसन्ना प्रत्यङ्गिरा भवेत् ॥ 4 ॥
भैरवोऽस्य ऋषिश्छन्दोऽनुष्टुप् देवी समीरिता ।
प्रत्यङ्गिरा विनियोगः सर्वसम्पत्ति हेतवे ॥ 5 ॥
सर्वकार्येषु संसिद्धिः सर्वसम्पत्तिदा भवेत् ।
एवं ध्यात्वा पठेदेतद्यदीच्छेदात्मनो हितम् ॥ 6 ॥
अस्य श्रीप्रत्यङ्गिरा सहस्रनाममहामन्त्रस्य भैरव ऋषिः अनुष्टुप् छन्दः श्रीमहाप्रत्यङ्गिरा देवता ह्रीं बीजं श्रीं शक्तिः स्वाहा कीलकं परकृत्याविनाशार्थे जपे पाठे विनियोगः ॥
करन्यासः
ॐ ह्रां अङ्गुष्ठाभ्यां नमः ।
ॐ ह्रीं तर्जनीभ्यां नमः ।
ॐ ह्रूं मध्यमाभ्यां नमः ।
ॐ ह्रैं अनामिकाभ्यां नमः ।
ॐ ह्रौं कनिष्ठिकाभ्यां नमः ।
ॐ ह्रः करतल करपृष्ठाभ्यां नमः ।
हृदयादि न्यासः
ॐ ह्रां हृदयाय नमः ।
ॐ ह्रीं शिरसे स्वाहा ।
ॐ ह्रूं शिखायै वषट् ।
ॐ ह्रैं कवचाय हुम् ।
ॐ ह्रौं नेत्रत्रयाय वौषट् ।
ॐ ह्रः अस्त्राय फट् ।
ध्यानम्
आशाम्बरा मुक्तकचा घनच्छवि-
-र्ध्येया सचर्मासिकरा हि भूषणा ।
दंष्ट्रोग्रवक्त्रा ग्रसिता हिता त्वया
प्रत्यङ्गिरा शङ्करतेजसेरिता ॥
स्तोत्रम्
देवी प्रत्यङ्गिरा दिव्या सरसा शशिशेखरा ।
सुमना सामिधेती च समस्तसुरशेमुषी ॥ 1 ॥
सर्वसम्पत्तिजननी सर्वदा सिन्धुसेविनी ।
शम्भुसीमन्तिनी सीमा सुराराध्या सुधारसा ॥ 2 ॥
रसा रसवती वेला वन्या च वनमालिनी ।
वनजाक्षी वनचरी वनी वनविनोदिनी ॥ 3 ॥
वेगिनी वेगदा वेगबलास्या च बलाधिका ।
कला कलप्रिया कोली कोमला कालकामिनी ॥ 4 ॥
कमला कमलास्या च कमलस्था कलावती ।
कुलीना कुटिला कान्ता कोकिला कलभाषिणी ॥ 5 ॥
कीरकीली कला काली कपालिन्यपि कालिका ।
केशिनी च कुशावर्ता कौशाम्बी केशवप्रिया ॥ 6 ॥
काशी कला महाकाशी सङ्काशा केशदायिनी ।
कुण्डली कुण्डलास्या च कुण्डलाङ्गदमण्डिता ॥ 7 ॥
कुणपाली कुमुदिनी कुमुदा प्रीतिवर्धिनी ।
कुन्दप्रिया कुन्दरुचिः कुरङ्गमदनोदिनी ॥ 8 ॥
कुरङ्गनयना कुन्दा कुरुवृन्दाऽभिनन्दिनी ।
कुसुम्भकुसुमा काञ्ची क्वणत्किङ्किणिका कटा ॥ 9 ॥
कठोरा करुणा काष्ठा कौमुदी कम्बुकण्ठिनी ।
कपर्दिनी कपटिनी कण्ठिनी कालकण्ठिका ॥ 10 ॥
कीरहस्ता कुमारी च कुरुदा कुसुमप्रिया ।
कुञ्जरस्था कुञ्जरता कुम्भि कुम्भस्तनद्वया ॥ 11 ॥
कुम्भिगा करिभोगा च कदली दलशालिनी ।
कुपिता कोटरस्था च कङ्काली कन्दरोदरा ॥ 12 ॥
एकान्तवासिनी काञ्ची कम्पमानशिरोरुहा ।
कादम्बरी कदम्बस्था कुङ्कुमप्रेमधारिणी ॥ 13 ॥
कुटुम्बिनीप्रियाऽऽकूती क्रतुः क्रतुकरी प्रिया ।
कात्यायनी कृत्तिका च कार्तिकेयप्रवर्तिनी ॥ 14 ॥
कामपत्नी कामदात्री कामेशी कामवन्दिता ।
कामरूपा क्रमावर्ती कामाक्षी काममोहिता ॥ 15 ॥
खड्गिनी खेचरी खड्गा खञ्जरीटेक्षणा खला ।
खरगा खरनाथा च खरास्या खेलनप्रिया ॥ 16 ॥
खरांशुः खेटिनी खट्वा खगा खट्वाङ्गधारिणी ।
खरखण्डिनी ख्याता खण्डिता खण्डनीस्थिता ॥ 17 ॥
खण्डप्रिया खण्डखाद्या सेन्दुखण्डा च खण्डिनी ।
गङ्गा गोदावरी गौरी गोमत्यपि च गौतमी ॥ 18 ॥
गया गेया गगनगा गारुडी गरुडध्वजा ।
गीता गीतप्रिया गोपा गण्डप्रीता गुणी गिरा ॥ 19 ॥
गुं गौरी मन्दमदना गोकुला गोप्रतारिणी ।
गोदा गोविन्दिनी गूढा निर्गूढा गूढविग्रहा ॥ 20 ॥
गुञ्जिनी गजगा गोपी गोत्रक्षयकरी गदा ।
गिरिभूपालदुहिता गोगा गोच्छलवर्धिनी ॥ 21 ॥
घनस्तनी घनरुचिर्घनेहा घननिःस्वना ।
घूत्कारिणी घूघकरी घुघूकपरिवारिता ॥ 22 ॥
घण्टानादप्रिया घण्टा घनाघोटकवाहिनी ।
घोररूपा च घोरा च घूती प्रतिघना घनी ॥ 23 ॥
घृताची घनपुष्टिश्च घटा घनघटाऽमृता ।
घटस्या घटना घोघघातपातनिवारिणी ॥ 24 ॥
चञ्चरीका चकोरी च चामुण्डा चीरधारिणी ।
चातुरी चपला चक्रचला चेला चलाऽचला ॥ 25 ॥
चतुश्चिरन्तना चाका चिक्या चामीकरच्छविः ।
चापिनी चपला चम्पू चिन्ता चिन्तामणिश्चिता ॥ 26 ॥
चातुर्वर्ण्यमयी चञ्चच्चौराचार्या चमत्कृतिः ।
चक्रवर्तिवधूश्चक्रा चक्राङ्गा चक्रमोदिनी ॥ 27 ॥
चेतश्चरी चित्तवृत्तिरचेता चेतनप्रदा ।
चाम्पेयी चम्पकप्रीतिश्चण्डी चण्डालवासिनी ॥ 28 ॥
चिरञ्जीवितटा चिञ्चा तरुमूलनिवासिनी ।
छुरिका छत्रमध्यस्था छिद्रा छेदकरी छिदा ॥ 29 ॥
छुछुन्दरीपलप्रीती छुछुन्दरीनिभस्वना ।
छलिनी छलदा छत्रा छिटिका छेककृत्तथा ॥ 30 ॥
छगिनी छान्दसी छाया छायाकृच्छादिरित्यपि ।
जया च जयदा जाती जयस्था जयवर्धिनी ॥ 31 ॥
जपापुष्पप्रिया जप्या जृम्भिणी यामला युता ।
जम्बूप्रिया जयस्था च जङ्गमा जङ्गमप्रिया ॥ 32 ॥
जन्तुर्जन्तुप्रधाना च जरत्कर्णा जरद्भवा ।
जातिप्रिया जीवनस्था जीमूतसदृशच्छविः ॥ 33 ॥
जन्या जनहिता जाया जम्भभिज्जम्भमालिनी ।
जवदा जववद्वाहा जवानी ज्वरहा ज्वरा ॥ 34 ॥
झञ्झानिलमयी झञ्झा झणत्कारकरा तथा ।
झिण्टीशा झम्पकृत् झम्पा झम्पत्रासनिवारिणी ॥ 35 ॥
टकारस्था टङ्कधरा टङ्कारा करशाटिनी ।
ठक्कुरा ठीत्कृती ठिण्ठी ठिण्ठीरवसमावृता ॥ 36 ॥
ठण्ठानिलमयी ठण्ठा ठणत्कारकरा ठसा ।
डाकिनी डामरी चैव डिण्डिमध्वनिनन्दिनी ॥ 37 ॥
ढक्कास्वनप्रिया ढक्का तपिनी तापिनी तथा ।
तरुणी तुन्दिला तुन्दा तामसी च तपःप्रिया ॥ 38 ॥
ताम्रा ताम्राम्बरा ताली तालीदलविभूषणा ।
तुरङ्गा त्वरिता त्रेता तोतुला तोदिनी तुला ॥ 39 ॥
तापत्रयहरा तप्ता तालकेशी तमालिनी ।
तमालदलवच्छामा तालम्लानवती तमी ॥ 40 ॥
तामसी च तमिस्रा च तीव्रा तीव्रपराक्रमा ।
तटस्था तिलतैलाक्ता तरणी तपनद्युतिः ॥ 41 ॥
तिलोत्तमा तिलककृत्तारकाधीशशेखरा ।
तिलपुष्पप्रिया तारा तारकेशी कुटुम्बिनी ॥ 42 ॥
स्थाणुपत्नी स्थितिकरी स्थलस्था स्थलवर्धिनी ।
स्थितिः स्थैर्या स्थविष्ठा च स्थापतिः स्थलविग्रहा ॥ 43 ॥
दन्तिनी दण्डिनी दीना दरिद्रा दीनवत्सला ।
देवी देववधूर्दैत्यदमनी दन्तभूषणा ॥ 44 ॥
दयावती दमवती दमदा दाडिमस्तनी ।
दन्दशूकनिभा दैत्यदारिणी देवतानना ॥ 45 ॥
दोलाक्रीडा दलायुश्च दम्पती देवतामयी ।
दशा दीपस्थिता दोषा दोषहा दोषकारिणी ॥ 46 ॥
दुर्गा दुर्गार्तिशमनी दुर्गमा दुर्गवासिनी ।
दुर्गन्धनाशिनी दुःस्था दुःस्वप्नशमकारिणी ॥ 47 ॥
दुर्वारा दुन्दुभी भ्रान्ता दूरस्था दूरवासिनी ।
दरहा दरदा दात्री दायादा दुहिता दया ॥ 48 ॥
धुरन्धरा धुरीणा च धौरी धी धनदायिनी ।
धीराऽधीरा धरित्री च धर्मदा धीरमानसा ॥ 49 ॥
धनुर्धरा च दमनी धूर्ता धूर्तपरिग्रहा ।
धूमवर्णा धूमपाना धूमला धूममोहिनी ॥ 50 ॥
नलिनी नन्दिनी नन्दा नादिनी नन्दबालिका ।
नवीना नर्मदा नर्मिनेमिर्नियमनिश्चया ॥ 51 ॥
निर्मला निगमाचारा निम्नगा नग्नकामिनी ।
नीतिर्निरन्तरा नग्नी निर्लेपा निर्गुणा नतिः ॥ 52 ॥
नीलग्रीवा निरीहा च निरञ्जनजनी नवी ।
नवनीतप्रिया नारी नरकार्णवतारिणी ॥ 53 ॥
नारायणी निराकारा निपुणा निपुणप्रिया ।
निशा निद्रा नरेन्द्रस्था नमिताऽनमितापि च ॥ 54 ॥
निर्गुण्डिका च निर्गुण्डा निर्मांसाऽनामिका निभा ।
पताकिनी पताका च पलप्रीतिर्यशस्विनी ॥ 55 ॥
पीना पीनस्तना पत्नी पवनाशनशायिनी ।
पराऽपरा कलापाऽऽप्पा पाककृत्यरति प्रिया ॥ 56 ॥
पवनस्था सुपवना तापसीप्रीतिवर्धिनी ।
पशुवृद्धिकरी पुष्टिः पोषणी पुष्पवर्धिनी ॥ 57 ॥
पुष्पिणी पुस्तककरा पुन्नागतलवासिनी ।
पुरन्दरप्रिया प्रीतिः पुरमार्गनिवासिनी ॥ 58 ॥
पाशी पाशकरा पाशा बन्धुहा पांसुला पशुः ।
पटुः पटासा परशुधारिणी पाशिनी तथा ॥ 59 ॥
पापघ्नी पतिपत्नी च पतिताऽपतितापि च ।
पिशाची च पिशाचघ्नी पिशिताशनतोषिता ॥ 60 ॥
पानदा पानपात्रा च पानदानकरोद्यता ।
पेया प्रसिद्धा पीयूषा पूर्णा पूर्णमनोरथा ॥ 61 ॥
पतद्गर्भा पतद्गात्रा पातपुण्यप्रिया पुरी ।
पङ्किला पङ्कमग्ना च पानीया पञ्जरस्थिता ॥ 62 ॥
पञ्चमी पञ्चयज्ञा च पञ्चता पञ्चमप्रिया ।
पञ्चमुद्रा पुण्डरीका पिकी पिङ्गललोचना ॥ 63 ॥
प्रियङ्गुमञ्जरी पिण्डी पिण्डिता पाण्डुरप्रभा ।
प्रेतासना प्रियालुस्था पाण्डुघ्नी पीतसापहा ॥ 64 ॥
फलिनी फलधात्री च फलश्रीः फणिभूषणा ।
फूत्कारकारिणी स्फारा फुल्ला फुल्लाम्बुजासना ॥ 65 ॥
फिरङ्गहा स्फीतमतिः स्फीतिः स्फीतकरी तथा ।
बलमाया बलारातिर्बलिनी बलवर्धिनी ॥ 66 ॥
वेणुवाद्या वनचरी विरावजनयित्री च ।
विद्या विद्याप्रदा विद्याबोधिनी बोधदायिनी ॥ 67 ॥
बुद्धमाता च बुद्धा च वनमालावती वरा ।
वरदा वारुणी वीणा वीणावादनतत्परा ॥ 68 ॥
विनोदिनी विनोदस्था वैष्णवी विष्णुवल्लभा ।
वैद्या वैद्यचिकित्सा च विवशा विश्वविश्रुता ॥ 69 ॥
विद्वत्कविकला वेत्ता वितन्द्रा विगतज्वरा ।
विरावा विविधारावा बिम्बोष्ठी बिम्बवत्सला ॥ 70 ॥
विन्ध्यस्था वीरवन्द्या च वरीयसापराधवित् ।
वेदान्तवेद्या वेद्या च वैद्या च विजयप्रदा ॥ 71 ॥
विरोधवर्धिनी वन्ध्या वन्ध्याबन्धनिवारिणी ।
भगिनी भगमाला च भवानी भवभाविनी ॥ 72 ॥
भीमा भीमानना भैमी भङ्गुरा भीमदर्शना ।
भिल्ली भल्लधरा भीरुर्भेरुण्डा चैभभयापहा ॥ 73 ॥
भगसर्पिण्यपि भगा भगरूपा भगालया ।
भगासना भगामोदा भेरी भाङ्काररञ्जिनी ॥ 74 ॥
भीषणाऽभीषणा सर्वा भगवत्यपि भूषणा ।
भारद्वाजी भोगदात्री भवघ्नी भूतिभूषणा ॥ 75 ॥
भूतिदा भूमिदात्री च भूपतित्वप्रदायिनी ।
भ्रमरी भ्रामरी नीला भूपालमुकुटस्थिता ॥ 76 ॥
मत्ता मनोहरा मना मानिनी मोहनी महा ।
महालक्ष्मीर्मदाक्षीबा मदिरा मदिरालया ॥ 77 ॥
मदोद्धता मतङ्गस्था माधवी मधुमन्थिनी ।
मेधा मेधाकरी मेध्या मध्या मध्यवयस्थिता ॥ 78 ॥
मद्यपा मांसला मत्स्या मोदिनी मैथुनोद्धता ।
मुद्रा मुद्रावती माता माया महिममन्दिरा ॥ 79 ॥
महामाया महाविद्या महामारी महेश्वरी ।
महादेववधूर्मान्या मथुरा मेरुमण्डला ॥ 80 ॥
मेदस्वनी मेदसुश्रीर्महिषासुरमर्दिनी ।
मण्डपस्था मठस्थाऽमा माला मालाविलासिनी ॥ 81 ॥
मोक्षदा मुण्डमाला च मन्दिरागर्भगर्भिता ।
मातङ्गिनी च मातङ्गी मतङ्गतनया मधुः ॥ 82 ॥
मधुस्रवा मधुरसा मधूककुसुमप्रिया ।
यामिनी यामिनीनाथभूषा यावकरञ्जिता ॥ 83 ॥
यवाङ्कुरप्रिया यामा यवनी यवनाधिपा ।
यमघ्नी यमवाणी च यजमानस्वरूपिणी ॥ 84 ॥
यज्ञा यज्या यजुर्यज्वा यशोनिकरकारिणी ।
यज्ञसूत्रप्रदा ज्येष्ठा यज्ञकर्मकरी यशा ॥ 85 ॥
यशस्विनी यज्ञसंस्था यूपस्तम्भनिवासिनी ।
रञ्जिता राजपत्नी च रमा रेखा रवी रणी ॥ 86 ॥
रजोवती रजश्चित्रा रजनी रजनीपतिः ।
रागिणी राजिनी राज्या राज्यदा राज्यवर्धिनी ॥ 87 ॥
राजन्वती राजनीतिस्तुर्या राजनिवासिनी ।
रमणी रमणीया च रामा रामवती रतिः ॥ 88 ॥
रेतोवती रतोत्साहा रोगहा रोगकारिणी ।
रङ्गा रङ्गवती रागा रागज्ञा रागिनी रणा ॥ 89 ॥
रञ्जिका रञ्जकी रञ्जा रञ्जिनी रक्तलोचना ।
रक्तचर्मधरा रन्त्री रक्तस्था रक्तवाहिनी ॥ 90 ॥
रम्भा रम्भाफलप्रीती रम्भोरू राघवप्रिया ।
रङ्गभृद्रङ्गमधुरा रोदसी रोदसीगृहा ॥ 91 ॥
रोगकर्त्री रोगहर्त्री च रोगभृद्रोगशायिनी ।
वन्दी वन्दिस्तुता बन्धुर्बन्धूककुसुमाधरा ॥ 92 ॥
वन्दिता वन्दिमाता बन्धुरा बैन्दवी विभा ।
विङ्की विङ्कपला विङ्का विङ्कस्था विङ्कवत्सला ॥ 93 ॥
वेदैर्विलग्ना विग्ना च विधिर्विधिकरी विधा ।
शङ्खिनी शङ्खनिलया शङ्खमालावती शमी ॥ 94 ॥
शङ्खपात्राशिनी शङ्खाऽशङ्खा शङ्खगला शशी ।
शिम्बी शरावती श्यामा श्यामाङ्गी श्यामलोचना ॥ 95 ॥
श्मशानस्था श्मशाना च श्मशानस्थलभूषणा ।
शर्मदा शमहर्त्री च शाकिनी शङ्कुशेखरा ॥ 96 ॥
शान्तिः शान्तिप्रदा शेषा शेषस्था शेषशायिनी ।
शेमुषी शोषिणी शौरी शारिः शौर्या शरा शरी ॥ 97 ॥
शापदा शापहारी श्रीः शम्पा शपथचापिनी ।
शृङ्गिणी शृङ्गिपलभुक् शङ्करी शाङ्करी तथा ॥ 98 ॥
शङ्का शङ्कापहा शंस्था शाश्वती शीतला शिवा ।
शवस्था शवभुक् शैवी शाववर्णा शवोदरी ॥ 99 ॥
शायिनी शावशयना शिंशिपा शिंशिपायता ।
शवाकुण्डलिनी शैवा शङ्करा शिशिरा शिरा ॥ 100 ॥
शवकाञ्ची शवश्रीका शवमाला शवाकृतिः ।
शम्पिनी शङ्कुशक्तिः शं शन्तनुः शीलदायिनी ॥ 101 ॥
सिन्धुः सरस्वती सिन्धुसुन्दरी सुन्दरानना ।
साधुसिद्धिः सिद्धिदात्री सिद्धा सिद्धसरस्वती ॥ 102 ॥
सन्ततिः सम्पदा सम्पत्संवित्सम्पत्तिदायिनी ।
सपत्नी सरसा सारा सरस्वतिकरी सुधा ॥ 103 ॥
सरः समा समाना च समाराध्या समस्तदा ।
समिद्धा समदा सम्मा सम्मोहा समदर्शना ॥ 104 ॥
समितिः समिधा सीमा सावित्री संविदा सती ।
सवना सवनाधारा सावना समरा समी ॥ 105 ॥
समीरा सुमना साध्वी सध्रीचीन्यसहायिनी ।
हंसी हंसगतिर्हंसा हंसोज्ज्वलनिचोलयुक् ॥ 106 ॥
हलिनी हलदा हाला हरश्रीर्हरवल्लभा ।
हेला हेलावती ह्रेषा ह्रेषस्था ह्रेषवर्धिनी ॥ 107 ॥
हन्ता हानिर्हयाह्वा हृद्धन्तहा हन्तहारिणी ।
हुङ्कारी हन्तकृद्धङ्का हीहा हाहा हताहिता ॥ 108 ॥
हेमा प्रभा हरवती हारीता हरिसम्मता ।
होरी होत्री होलिका च होम्या होमा हविर्हरिः ॥ 109 ॥
हारिणी हरिणीनेत्रा हिमाचलनिवासिनी ।
लम्बोदरी लम्बकर्णा लम्बिका लम्बविग्रहा ॥ 110 ॥
लीला लीलावती लोला ललना लालितालता ।
ललामलोचना लोच्या लोलाक्षी लक्षणा लटा ॥ 111 ॥
लम्पती लुम्पती लम्पा लोपामुद्रा ललन्ति च ।
लतिका लङ्घिका लङ्घा लघिमा लघुमध्यमा ॥ 112 ॥
लघ्वीयसी लघूदर्का लूता लूतनिवारिणी ।
लोमभृल्लोमलोम्नी च लुलुती लुलुलुम्पिनी ॥ 113 ॥
लुलायस्था च लहरी लङ्कापुरपुरन्दरी ।
लक्ष्मीर्लक्ष्मीप्रदा लक्ष्या लक्ष्यबलगतिप्रदा ॥ 114 ॥
क्षणक्षपा क्षणक्षीणा क्षमा क्षान्तिः क्षमावती ।
क्षामा क्षामोदरी क्षोणी क्षोणिभृत् क्षत्रियाङ्गना ॥ 115 ॥
क्षपा क्षपाकरी क्षीरा क्षीरदा क्षीरसागरा ।
क्षीणङ्करी क्षयकरी क्षयभृत् क्षयदा क्षतिः ।
क्षरन्ती क्षुद्रिका क्षुद्रा क्षुत्क्षामा क्षरपातका ॥ 116 ॥
फलश्रुतिः –
मातुः सहस्रनामेदं प्रत्यङ्गिरासिद्धिदायकम् ॥ 1 ॥
यः पठेत्प्रयतो नित्यं दरिद्रो धनदो भवेत् ।
अनाचान्तः पठेन्नित्यं स चापि स्यान्महेश्वरः ।
मूकः स्याद्वाक्पतिर्देवी रोगी नीरोगतां भवेत् ॥ 2 ॥
अपुत्रः पुत्रमाप्नोति त्रिषुलोकेषु विश्रुतम् ।
वन्ध्यापि सूते तनयान् गावश्च बहुदुग्धदाः ॥ 3 ॥
राजानः पादनम्राः स्युस्तस्य दासा इव स्फुटाः ।
अरयः सङ्क्षयं यान्ति मनसा संस्मृता अपि ॥ 4 ॥
दर्शनादेव जायन्ते नरा नार्योऽपि तद्वशाः ।
कर्ता हर्ता स्वयंवीरो जायते नात्रसंशयः ॥ 5 ॥
यं यं कामयते कामं तं तं प्राप्नोति निश्चितम् ।
दुरितं न च तस्यास्ति नास्ति शोकः कदाचन ॥ 6 ॥
चतुष्पथेऽर्धरात्रे च यः पठेत्साधकोत्तमः ।
एकाकी निर्भयो धीरो दशावर्तं नरोत्तमः ॥ 7 ॥
मनसा चिन्तितं कार्यं तस्य सिद्धिर्न संशयम् ।
विना सहस्रनाम्नां यो जपेन्मन्त्रं कदाचन ॥ 8 ॥
न सिद्धो जायते तस्य मन्त्रः कल्पशतैरपि ।
कुजवारे श्मशाने च मध्याह्ने यो जपेत्तथा ॥ 9 ॥
शतावर्त्या स जयेत कर्ता हर्ता नृणामिह ।
रोगार्तो यो निशीथान्ते पठेदम्भसि संस्थितः ॥ 10 ॥
सद्यो नीरोगतामेति यदि स्यान्निर्भयस्तदा ।
अर्धरात्रे श्मशाने वा शनिवारे जपेन्मनुम् ॥ 11 ॥
अष्टोत्तरसहस्रं तु दशवारं जपेत्ततः ।
सहस्रनाममेत्तद्धि तदा याति स्वयं शिवा ॥ 12 ॥
महापवनरूपेण घोरगोमायुनादिनी ।
तदा यदि न भीतिः स्यात्ततो देहीति वाग्भवेत् ॥ 13 ॥
तदा पशुबलिं दद्यात् स्वयं गृह्णाति चण्डिका ।
यथेष्टं च वरं दत्त्वा याति प्रत्यङ्गिरा शिवा ॥ 14 ॥
रोचनागुरुकस्तूरी कर्पूरमदचन्दनैः ।
कुङ्कुमप्रथमाभ्यां तु लिखितं भूर्जपत्रके ॥ 15 ॥
शुभनक्षत्रयोगे तु समभ्यर्च्य घटान्तरे ।
कृतसम्पातनात्सिद्धं धार्यन्तद्दक्षिणेकरे ॥ 16 ॥
सहस्रनामस्वर्णस्थं कण्ठे वापि जितेन्द्रियः ।
तदायं प्रणमेन्मन्त्री क्रुद्धः सम्रियते नरः ॥ 17 ॥
यस्मै ददाति च स्वस्ति स भवेद्धनदोपमः ।
दुष्टश्वापदजन्तूनां न भीः कुत्रापि जायते ॥ 18 ॥
बालकानामियं रक्षा गर्भिणीनामपि ध्रुवम् ।
मोहन स्तम्भनाकर्षमारणोच्चाटनानि च ॥ 19 ॥
यन्त्रधारणतो नूनं सिध्यन्ते साधकस्य च ।
नीलवस्त्रे विलिखितं ध्वजायां यदि तिष्ठति ॥ 20 ॥
तदा नष्टा भवत्येव प्रचण्डा परवाहिनी ।
एतज्जप्तं महाभस्म ललाटे यदि धारयेत् ॥ 21 ॥
तद्दर्शनत एव स्युः प्राणिनस्तस्य किङ्कराः ।
राजपत्न्योऽपि वश्याः स्युः किमन्याः परयोषितः ॥ 22 ॥
एतज्जपन्निशितोये मासैकेन महाकविः ।
पण्डितश्च महावादी जायते नात्रसंशयः ॥ 23 ॥
शक्तिं सम्पूज्य देवेशि पठेत् स्तोत्रं वरं शुभम् ।
इहलोके सुखं भुक्त्वा परत्र त्रिदिवं व्रजेत् ॥ 24 ॥
इति नामसहस्रं तु प्रत्यङ्गिर मनोहरम् ।
गोप्यं गुह्यतमं लोके गोपनीयं स्वयोनिवत् ॥ 25 ॥
इति श्रीरुद्रयामले तन्त्रे दशविद्यारहस्ये श्री प्रत्यङ्गिरा सहस्रनाम स्तोत्रम् ।