View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

श्री दिवाकर पञ्चकम्

अतुल्यवीर्यमुग्रतेजसं सुरं
सुकान्तिमिन्द्रियप्रदं सुकान्तिदम् ।
कृपारसैकपूर्णमादिरूपिणं
दिवाकरं सदा भजे सुभास्वरम् ॥ 1 ॥

इनं महीपतिं च नित्यसंस्तुतं
कलासुवर्णभूषणं रथस्थितम् ।
अचिन्त्यमात्मरूपिणं ग्रहाश्रयं
दिवाकरं सदा भजे सुभास्वरम् ॥ 2 ॥

उषोदयं वसुप्रदं सुवर्चसं
विदिक्प्रकाशकं कविं कृपाकरम् ।
सुशान्तमूर्तिमूर्ध्वगं जगज्ज्वलं
दिवाकरं सदा भजे सुभास्वरम् ॥ 3 ॥

ऋषिप्रपूजितं वरं वियच्चरं
परं प्रभुं सरोरुहस्य वल्लभम् ।
समस्तभूमिपं च तारकापतिं
दिवाकरं सदा भजे सुभास्वरम् ॥ 4 ॥

ग्रहाधिपं गुणान्वितं च निर्जरं
सुखप्रदं शुभाशयं भयापहम् ।
हिरण्यगर्भमुत्तमं च भास्करं
दिवाकरं सदा भजे सुभास्वरम् ॥ 5 ॥

इति श्री दिवाकर पञ्चकम् ।




Browse Related Categories: