अतुल्यवीर्यमुग्रतेजसं सुरं
सुकांतिमिंद्रियप्रदं सुकांतिदम् ।
कृपारसैकपूर्णमादिरूपिणं
दिवाकरं सदा भजे सुभास्वरम् ॥ 1 ॥
इनं महीपतिं च नित्यसंस्तुतं
कलासुवर्णभूषणं रथस्थितम् ।
अचिंत्यमात्मरूपिणं ग्रहाश्रयं
दिवाकरं सदा भजे सुभास्वरम् ॥ 2 ॥
उषोदयं वसुप्रदं सुवर्चसं
विदिक्प्रकाशकं कविं कृपाकरम् ।
सुशांतमूर्तिमूर्ध्वगं जगज्ज्वलं
दिवाकरं सदा भजे सुभास्वरम् ॥ 3 ॥
ऋषिप्रपूजितं वरं वियच्चरं
परं प्रभुं सरोरुहस्य वल्लभम् ।
समस्तभूमिपं च तारकापतिं
दिवाकरं सदा भजे सुभास्वरम् ॥ 4 ॥
ग्रहाधिपं गुणान्वितं च निर्जरं
सुखप्रदं शुभाशयं भयापहम् ।
हिरण्यगर्भमुत्तमं च भास्करं
दिवाकरं सदा भजे सुभास्वरम् ॥ 5 ॥
इति श्री दिवाकर पंचकम् ।