ध्यानं
ॐ ध्यायेस्सदा सवितृमण्डलमध्यवर्ती
नारायणस्सरसिजासन सन्निविष्टः ।
केयूरवान् मकरकुण्डलवान् किरीटी
हारी हिरण्मयवपुः धृतशङ्खचक्रः ॥
सूर्यं सुन्दरलोकनाथममृतं वेदान्तसारम्
शिवं ज्ञानब्रह्ममयं सुरेशममलं लोकैकचित्रस्वयम् ।
इन्द्रादित्यनराधिपसुरगुरुं त्रैलोकचूडामणिम्
ब्रह्मविष्णुशिवस्वरूपहृदयं वन्दे सदा भास्करम् ॥
द्वादशादित्य नामानि
ॐ मित्राय नमः ।
ॐ रवये नमः ।
ॐ सूर्याय नमः ।
ॐ भानवे नमः ।
ॐ खगाय नमः ।
ॐ पूष्णे नमः ।
ॐ हिरण्यगर्भाय नमः ।
ॐ मरीचये नमः ।
ॐ आदित्याय नमः ।
ॐ सवित्रे नमः ।
ॐ अर्काय नमः ।
ॐ भास्कराय नमः ।
ॐ श्रीसवितृसूर्यनारायणाय नमः ॥
फलशृतिः
आदित्यस्य नमस्कारान् ये कुर्वन्ति दिने दिने ।
आयुः प्रज्ञां बलं वीर्यं तेजस्तेषां च जायते ॥