View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Marathi language.

श्री सूर्य नमस्कार मंत्रं

ध्यानं
ॐ ध्यायेस्सदा सवितृमंडलमध्यवर्ती
नारायणस्सरसिजासन सन्निविष्टः ।
केयूरवान् मकरकुंडलवान् किरीटी
हारी हिरण्मयवपुः धृतशंखचक्रः ॥

सूर्यं सुंदरलोकनाथममृतं वेदांतसारम्
शिवं ज्ञानब्रह्ममयं सुरेशममलं लोकैकचित्रस्वयम् ।
इंद्रादित्यनराधिपसुरगुरुं त्रैलोकचूडामणिम्
ब्रह्मविष्णुशिवस्वरूपहृदयं वंदे सदा भास्करम् ॥

द्वादशादित्य नामानि
ॐ मित्राय नमः ।
ॐ रवये नमः ।
ॐ सूर्याय नमः ।
ॐ भानवे नमः ।
ॐ खगाय नमः ।
ॐ पूष्णे नमः ।
ॐ हिरण्यगर्भाय नमः ।
ॐ मरीचये नमः ।
ॐ आदित्याय नमः ।
ॐ सवित्रे नमः ।
ॐ अर्काय नमः ।
ॐ भास्कराय नमः ।
ॐ श्रीसवितृसूर्यनारायणाय नमः ॥

फलशृतिः
आदित्यस्य नमस्कारान् ये कुर्वंति दिने दिने ।
आयुः प्रज्ञां बलं वीर्यं तेजस्तेषां च जायते ॥




Browse Related Categories: