View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

निर्गुण मानस पूजा

शिष्य उवाच
अखंडे सच्चिदानंदे निर्विकल्पैकरूपिणि ।
स्थितेऽद्वितीयभावेऽपि कथं पूजा विधीयते ॥ 1 ॥

पूर्णस्यावाहनं कुत्र सर्वाधारस्य चासनम् ।
स्वच्छस्य पाद्यमर्घ्यं च शुद्धस्याचमनं कुतः ॥ 2 ॥

निर्मलस्य कुतः स्नानं वासो विश्वोदरस्य च ।
अगोत्रस्य त्ववर्णस्य कुतस्तस्योपवीतकम् ॥ 3 ॥

निर्लेपस्य कुतो गंधः पुष्पं निर्वासनस्य च ।
निर्विशेषस्य का भूषा कोऽलंकारो निराकृतेः ॥ 4 ॥

निरंजनस्य किं धूपैर्दीपैर्वा सर्वसाक्षिणः ।
निजानंदैकतृप्तस्य नैवेद्यं किं भवेदिह ॥ 5 ॥

विश्वानंदयितुस्तस्य किं तांबूलं प्रकल्पते ।
स्वयंप्रकाशचिद्रूपो योऽसावर्कादिभासकः ॥ 6 ॥

गीयते श्रुतिभिस्तस्य नीराजनविधिः कुतः ।
प्रदक्षिणमनंतस्य प्रणामोऽद्वयवस्तुनः ॥ 7 ॥

वेदवाचामवेद्यस्य किं वा स्तोत्रं विधीयते ।
अंतर्बहिः संस्थितस्य उद्वासनविधिः कुतः ॥ 8 ॥

श्री गुरुरुवाच
आराधयामि मणिसंनिभमात्मलिंगम्
मायापुरीहृदयपंकजसंनिविष्टम् ।
श्रद्धानदीविमलचित्तजलाभिषेकै-
र्नित्यं समाधिकुसुमैर्नपुनर्भवाय ॥ 9 ॥

अयमेकोऽवशिष्टोऽस्मीत्येवमावाहयेच्छिवम् ।
आसनं कल्पयेत्पश्चात्स्वप्रतिष्ठात्मचिंतनम् ॥ 10 ॥

पुण्यपापरजःसंगो मम नास्तीति वेदनम् ।
पाद्यं समर्पयेद्विद्वन्सर्वकल्मषनाशनम् ॥ 11 ॥

अनादिकल्पविधृतमूलाज्ञानजलांजलिम् ।
विसृजेदात्मलिंगस्य तदेवार्घ्यसमर्पणम् ॥ 12 ॥

ब्रह्मानंदाब्धिकल्लोलकणकोट्यंशलेशकम् ।
पिबंतींद्रादय इति ध्यानमाचमनं मतम् ॥ 13 ॥

ब्रह्मानंदजलेनैव लोकाः सर्वे परिप्लुताः ।
अच्छेद्योऽयमिति ध्यानमभिषेचनमात्मनः ॥ 14 ॥

निरावरणचैतन्यं प्रकाशोऽस्मीति चिंतनम् ।
आत्मलिंगस्य सद्वस्त्रमित्येवं चिंतयेन्मुनिः ॥ 15 ॥

त्रिगुणात्माशेषलोकमालिकासूत्रमस्म्यहम् ।
इति निश्चयमेवात्र ह्युपवीतं परं मतम् ॥ 16 ॥

अनेकवासनामिश्रप्रपंचोऽयं धृतो मया ।
नान्येनेत्यनुसंधानमात्मनश्चंदनं भवेत् ॥ 17 ॥

रजःसत्त्वतमोवृत्तित्यागरूपैस्तिलाक्षतैः ।
आत्मलिंगं यजेन्नित्यं जीवन्मुक्तिप्रसिद्धये ॥ 18 ॥

ईश्वरो गुरुरात्मेति भेदत्रयविवर्जितैः ।
बिल्वपत्रैरद्वितीयैरात्मलिंगं यजेच्छिवम् ॥ 19 ॥

समस्तवासनात्यागं धूपं तस्य विचिंतयेत् ।
ज्योतिर्मयात्मविज्ञानं दीपं संदर्शयेद्बुधः ॥ 20 ॥

नैवेद्यमात्मलिंगस्य ब्रह्मांडाख्यं महोदनम् ।
पिबानंदरसं स्वादु मृत्युरस्योपसेचनम् ॥ 21 ॥

अज्ञानोच्छिष्टकरस्य क्षालनं ज्ञानवारिणा ।
विशुद्धस्यात्मलिंगस्य हस्तप्रक्षालनं स्मरेत् ॥ 22 ॥

रागादिगुणशून्यस्य शिवस्य परमात्मनः ।
सरागविषयाभ्यासत्यागस्तांबूलचर्वणम् ॥ 23 ॥

अज्ञानध्वांतविध्वंसप्रचंडमतिभास्करम् ।
आत्मनो ब्रह्मताज्ञानं नीराजनमिहात्मनः ॥ 24 ॥

विविधब्रह्मसंदृष्टिर्मालिकाभिरलंकृतम् ।
पूर्णानंदात्मतादृष्टिं पुष्पांजलिमनुस्मरेत् ॥ 25 ॥

परिभ्रमंति ब्रह्मांडसहस्राणि मयीश्वरे ।
कूटस्थाचलरूपोऽहमिति ध्यानं प्रदक्षिणम् ॥ 26 ॥

विश्ववंद्योऽहमेवास्मि नास्ति वंद्यो मदन्यतः ।
इत्यालोचनमेवात्र स्वात्मलिंगस्य वंदनम् ॥ 27 ॥

आत्मनः सत्क्रिया प्रोक्ता कर्तव्याभावभावना ।
नामरूपव्यतीतात्मचिंतनं नामकीर्तनम् ॥ 28 ॥

श्रवणं तस्य देवस्य श्रोतव्याभावचिंतनम् ।
मननं त्वात्मलिंगस्य मंतव्याभावचिंतनम् ॥ 29 ॥

ध्यातव्याभावविज्ञानं निदिध्यासनमात्मनः ।
समस्तभ्रांतिविक्षेपराहित्येनात्मनिष्ठता ॥ 30 ॥

समाधिरात्मनो नाम नान्यच्चित्तस्य विभ्रमः ।
तत्रैव बह्मणि सदा चित्तविश्रांतिरिष्यते ॥ 31 ॥

एवं वेदांतकल्पोक्तस्वात्मलिंगप्रपूजनम् ।
कुर्वन्ना मरणं वापि क्षणं वा सुसमाहितः ॥ 32 ॥

सर्वदुर्वासनाजालं पदपांसुमिव त्यजेत् ।
विधूयाज्ञानदुःखौघं मोक्षानंदं समश्नुते ॥ 33 ॥




Browse Related Categories: