विरिंच्यादिभिः पंचभिर्लोकपालैः
समूढे महानंदपीठे निषण्णम् ।
धनुर्बाणपाशांकुशप्रोतहस्तं
महस्त्रैपुरं शंकराद्वैतमव्यात् ॥ 1 ॥
यदन्नादिभिः पंचभिः कोशजालैः
शिरःपक्षपुच्छात्मकैरंतरंतः ।
निगूढे महायोगपीठे निषण्णं
पुरारेरथांतःपुरं नौमि नित्यम् ॥ 2 ॥
विरिंचादिरूपैः प्रपंचे विहृत्य
स्वतंत्रा यदा स्वात्मविश्रांतिरेषा ।
तदा मानमातृप्रमेयातिरिक्तं
परानंदमीडे भवानि त्वदीयम् ॥ 3 ॥
विनोदाय चैतन्यमेकं विभज्य
द्विधा देवि जीवः शिवश्चेति नाम्ना ।
शिवस्यापि जीवत्वमापादयंती
पुनर्जीवमेनं शिवं वा करोषि ॥ 4 ॥
समाकुंच्य मूलं हृदि न्यस्य वायुं
मनो भ्रूबिलं प्रापयित्वा निवृत्ताः ।
ततः सच्चिदानंदरूपे पदे ते
भवंत्यंब जीवाः शिवत्वेन केचित् ॥ 5 ॥
शरीरेऽतिकष्टे रिपौ पुत्रवर्गे
सदाभीतिमूले कलत्रे धने वा ।
न कश्चिद्विरज्यत्यहो देवि चित्रं
कथं त्वत्कटाक्षं विना तत्त्वबोधः ॥ 6 ॥
शरीरे धनेऽपत्यवर्गे कलत्रे
विरक्तस्य सद्देशिकादिष्टबुद्धेः ।
यदाकस्मिकं ज्योतिरानंदरूपं
समाधौ भवेत्तत्त्वमस्यंब सत्यम् ॥ 7 ॥
मृषान्यो मृषान्यः परो मिश्रमेनं
परः प्राकृतं चापरो बुद्धिमात्रम् ।
प्रपंचं मिमीते मुनीनां गणोऽयं
तदेतत्त्वमेवेति न त्वां जहीमः ॥ 8 ॥
निवृत्तिः प्रतिष्ठा च विद्या च शांति-
स्तथा शांत्यतीतेति पंचीकृताभिः ।
कलाभिः परे पंचविंशात्मिकाभि-
स्त्वमेकैव सेव्या शिवाभिन्नरूपा ॥ 9 ॥
अगाधेऽत्र संसारपंके निमग्नं
कलत्रादिभारेण खिन्नं नितांतम् ।
महामोहपाशौघबद्धं चिरान्मां
समुद्धर्तुमंब त्वमेकैव शक्ता ॥ 10 ॥
समारभ्य मूलं गतो ब्रह्मचक्रं
भवद्दिव्यचक्रेश्वरीधामभाजः ।
महासिद्धिसंघातकल्पद्रुमाभा-
नवाप्यांब नादानुपास्ते च योगी ॥ 11 ॥
गणेशैर्ग्रहैरंब नक्षत्रपंक्त्या
तथा योगिनीराशिपीठैरभिन्नम् ।
महाकालमात्मानमामृश्य लोकं
विधत्से कृतिं वा स्थितिं वा महेशि ॥ 12 ॥
लसत्तारहारामतिस्वच्छचेलां
वहंतीं करे पुस्तकं चाक्षमालाम् ।
शरच्चंद्रकोटिप्रभाभासुरां त्वां
सकृद्भावयन्भारतीवल्लभः स्यात् ॥ 13 ॥
समुद्यत्सहस्रार्कबिंबाभवक्त्रां
स्वभासैव सिंदूरिताजांडकोटिम् ।
धनुर्बाणपाशांकुशांधारयंतीं
स्मरंतः स्मरं वापि संमोहयेयुः ॥ 14 ॥
मणिस्यूतताटंकशोणास्यबिंबां
हरित्पट्टवस्त्रां त्वगुल्लासिभूषाम् ।
हृदा भावयंस्तप्तहेमप्रभां त्वां
श्रियो नाशयत्यंब चांचल्यभावम् ॥ 15 ॥
महामंत्रराजांतबीजं पराख्यं
स्वतो न्यस्तबिंदु स्वयं न्यस्तहार्दम् ।
भवद्वक्त्रवक्षोजगुह्याभिधानं
स्वरूपं सकृद्भावयेत्स त्वमेव ॥ 16 ॥
तथान्ये विकल्पेषु निर्विण्णचित्ता-
स्तदेकं समाधाय बिंदुत्रयं ते ।
परानंदसंधानसिंधौ निमग्नाः
पुनर्गर्भरंध्रं न पश्यंति धीराः ॥ 17 ॥
त्वदुन्मेषलीलानुबंधाधिकारा-
न्विरिंच्यादिकांस्त्वद्गुणांभोधिबिंदून् ।
भजंतस्तितीर्षंति संसारसिंधुं
शिवे तावकीना सुसंभावनेयम् ॥ 18 ॥
कदा वा भवत्पादपोतेन तूर्णं
भवांभोधिमुत्तीर्य पूर्णांतरंगः ।
निमज्जंतमेनं दुराशाविषाब्धौ
समालोक्य लोकं कथं पर्युदास्से ॥ 19 ॥
कदावा हृषीकाणि साम्यं भजेयुः
कदा वा न शत्रुर्न मित्रं भवानि ।
कदा वा दुराशाविषूचीविलोपः
कदा वा मनो मे समूलं विनश्येत् ॥ 20 ॥
नमोवाकमाशास्महे देवि युष्म-
त्पदांभोजयुग्माय तिग्माय गौरि ।
विरिंच्यादिभास्वत्किरीटप्रतोली-
प्रदीपायमानप्रभाभास्वराय ॥ 21 ॥
कचे चंद्ररेखं कुचे तारहारं
करे स्वादुचापं शरे षट्पदौघम् ।
स्मरामि स्मरारेरभिप्रायमेकं
मदाघूर्णनेत्रं मदीयं निधानम् ॥ 22 ॥
शरेष्वेव नासा धनुष्वेव जिह्वा
जपापाटले लोचने ते स्वरूपे ।
त्वगेषा भवच्चंद्रखंडे श्रवो मे
गुणे ते मनोवृत्तिरंब त्वयि स्यात् ॥ 23 ॥
जगत्कर्मधीरान्वचोधूतकीरान्
कुचन्यस्तहारांकृपासिंधुपूरान् ।
भवांभोधिपारान्महापापदूरान्
भजे वेदसारांशिवप्रेमदारान् ॥ 24 ॥
सुधासिंधुसारे चिदानंदनीरे
समुत्फुल्लनीपे सुरत्रांतरीपे ।
मणिव्यूहसाले स्थिते हैमशाले
मनोजारिवामे निषण्णं मनो मे ॥ 25 ॥
दृगंते विलोला सुगंधीषुमाला
प्रपंचेंद्रजाला विपत्सिंधुकूला ।
मुनिस्वांतशाला नमल्लोकपाला
हृदि प्रेमलोलामृतस्वादुलीला ॥ 26 ॥
जगज्जालमेतत्त्वयैवांब सृष्टं
त्वमेवाद्य यासींद्रियैरर्थजालम् ।
त्वमेकैव कर्त्री त्वमेकैव भोक्त्री
न मे पुण्यपापे न मे बंधमोक्षौ ॥ 27 ॥
इति प्रेमभारेण किंचिन्मयोक्तं
न बुध्वैव तत्त्वं मदीयं त्वदीयम् ।
विनोदाय बालस्य मौर्ख्यं हि मातस्-
तदेतत्प्रलापस्तुतिं मे गृहाण ॥ 28 ॥
॥ इति श्रीमच्छंकराचार्यविरचिता देवीभुजंगं संपूर्णम् ॥