तैत्तिरीय उपनिषद् - शीक्षा वल्ली is the first vallI of the Taittiriya Upanishad in the Krishna Yajurveda tradition. It begins with peace invocations and then teaches the discipline needed for Vedic learning: phonetics, pronunciation, teacher-student harmony, contemplation on correspondences, study, teaching, truthfulness, and ethical conduct.
This Vedic chant is not only a technical manual for recitation. Its treatment of शीक्षा shows that sacred knowledge requires the whole person: correct sound, controlled speech, memory, humility, generosity, and reverence toward parents, teachers, guests, and dharma. The famous injunctions सत्यं वद and धर्मं चर make the vallI a foundational source for daily conduct.
(तै. आ. 7-1-1)
Translation (भावार्थ):
This source marker identifies the Taittiriya Aranyaka section from which the recitation is drawn.
ॐ श्री गुरुभ्यो नमः । हरिः ओम् ॥
Translation (भावार्थ):
The recitation begins by bowing to the guru lineage and invoking Hari and Om.
ॐ शं नो॑ मि॒त्रश्शं-वँरु॑णः । शं नो॑ भवत्वर्य॒मा । शं न॒ इंद्रो॒ बृह॒स्पतिः॑ । शं नो॒ विष्णु॑रुरुक्र॒मः । नमो॒ ब्रह्म॑णे । नम॑स्ते वायो । त्वमे॒व प्र॒त्यक्षं॒ ब्रह्मा॑सि । त्वमे॒व प्र॒त्यक्षं॒ ब्रह्म॑ वदिष्यामि । ऋ॒तं-वँ॑दिष्यामि । स॒त्यं-वँ॑दिष्यामि । तन्माम॑वतु । तद्व॒क्तार॑मवतु । अव॑तु॒ माम् । अव॑तु व॒क्तारम्᳚ । ॐ शांतिः॒ शांतिः॒ शांतिः॑ ॥ 1 ॥
इति प्रथमोऽनुवाकः ॥
Translation (भावार्थ):
The opening identifies Vayu as the directly perceptible Brahman and prays for truth, protection of teacher and student, and peace.
शीक्षां-व्याँ᳚ख्यास्या॒मः । वर्ण॒स्स्वरः । मात्रा॒ बलम् । साम॑ संता॒नः । इत्युक्तश्शी᳚क्षाध्या॒यः ॥ 1 ॥
इति द्वितीयोऽनुवाकः ॥
Translation (भावार्थ):
This section defines the discipline of phonetics through sound, accent, duration, force, smoothness, and continuity.
स॒ह नौ॒ यशः । स॒ह नौ ब्र॑ह्मव॒र्चसम् । अथातस्सग्ंहिताया उपनिषदं-व्याँ᳚ख्यास्या॒मः । पंचस्वधिक॑रणे॒षु । अधिलोकमधिज्यौतिषमधिविद्यमधिप्रज॑मध्या॒त्मम् । ता महासग्ंहिता इ॑त्याच॒क्षते । अथा॑धिलो॒कम् । पृथिवी पू᳚र्वरू॒पम् । द्यौरुत्त॑ररू॒पम् । आका॑शस्सं॒धिः ॥ 1 ॥
वायु॑स्संधा॒नम् । इत्य॑धिलो॒कम् । अथा॑धिज्यौ॒तिषम् । अग्निः पू᳚र्वरू॒पम् । आदित्य उत्त॑ररू॒पम् । आ॑पस्सं॒धिः । वैद्युत॑स्संधा॒नम् । इत्य॑धिज्यौ॒तिषम् । अथा॑धिवि॒द्यम् । आचार्यः पू᳚र्वरू॒पम् ॥ 2 ॥
अंतेवास्युत्त॑ररू॒पम् । वि॑द्या सं॒धिः । प्रवचनग्ं॑ संधा॒नम् । इत्य॑धिवि॒द्यम् । अथाधि॒प्रजम् । माता पू᳚र्वरू॒पम् । पितोत्त॑ररू॒पम् । प्र॑जा सं॒धिः । प्रजननग्ं॑ संधा॒नम् । इत्यधि॒प्रजम् ॥ 3 ॥
अथाध्या॒त्मम् । अधरा हनुः पू᳚र्वरू॒पम् । उत्तरा हनुरुत्त॑ररू॒पम् । वाक्सं॒धिः । जिह्वा॑ संधा॒नम् । इत्यध्या॒त्मम् । इतीमा म॑हास॒ग्ं॒हिताः । य एवमेता महासग्ंहिता व्याख्या॑ता वे॒द । संधीयते प्रज॑या प॒शुभिः । ब्रह्मवर्चसेनान्नाद्येन सुवर्ग्येण॑ लोके॒न ॥ 4 ॥
इति तृतीयोऽनुवाकः ॥
Translation (भावार्थ):
The teaching on great conjunctions links earth and heaven, fire and sun, teacher and student, mother and father, and speech and jaw as meditations on unity.
यश्छंद॑सामृष॒भो वि॒श्वरू॑पः । छंदो॒भ्योऽध्य॒मृता᳚थ्सं ब॒भूव॑ । स मेंद्रो॑ मे॒धया᳚ स्पृणोतु । अ॒मृत॑स्य देव॒ धार॑णो भूयासम् । शरी॑रं मे॒ विच॑र्षणम् । जि॒ह्वा मे॒ मधु॑मत्तमा । कर्णा᳚भ्यां भूरि॒ विश्रु॑वम् । ब्रह्म॑णः को॒शो॑ऽसि मे॒धयाऽपि॑हितः । श्रु॒तं मे॑ गोपाय । आ॒वहं॑ती वितन्वा॒ना ॥ 1 ॥
कु॒र्वा॒णा चीर॑मा॒त्मनः॑ । वासाग्ं॑सि॒ मम॒ गाव॑श्च । अ॒न्न॒पा॒ने च॑ सर्व॒दा । ततो॑ मे॒ श्रिय॒माव॑ह । लो॒म॒शां प॒शुभि॑स्स॒ह स्वाहा᳚ । आमा॑ यंतु ब्रह्मचा॒रिण॒स्स्वाहा᳚ । विमा॑ऽऽयंतु ब्रह्मचा॒रिण॒स्स्वाहा᳚ । प्रमा॑ऽऽयंतु ब्रह्मचा॒रिण॒स्स्वाहा᳚ । दमा॑यंतु ब्रह्मचा॒रिण॒स्स्वाहा᳚ । शमा॑यंतु ब्रह्मचा॒रिण॒स्स्वाहा᳚ ॥ 2 ॥
यशो॒ जने॑ऽसानि॒ स्वाहा᳚ । श्रेया॒न्वस्य॑सोऽसानि॒ स्वाहा᳚ । तं त्वा॑ भग॒ प्रवि॑शानि॒ स्वाहा᳚ । स मा॑ भग॒ प्रवि॑श॒ स्वाहा᳚ । तस्मिन्᳚-थ्स॒हस्र॑शाखे । निभ॑गा॒हं त्वयि॑ मृजे॒ स्वाहा᳚ । यथाऽऽपः॒ प्रव॑ता॒ऽऽयंति॑ । यथा॒ मासा॑ अहर्ज॒रम् । ए॒वं मां ब्र॑ह्मचा॒रिणः॑ । धात॒रायं॑तु स॒र्वत॒स्स्वाहा᳚ । प्र॒ति॒वे॒शो॑ऽसि॒ प्रमा॑भाहि॒ प्रमा॑पद्यस्व ॥ 3 ॥
इति चतुर्थोऽनुवाकः ॥
Translation (भावार्थ):
The Medha prayer asks Indra and the Vedic power of speech to grant intelligence, memory, students, prosperity, and the radiance of sacred learning.
भूर्भुव॒स्सुव॒रिति॒ वा ए॒तास्ति॒स्रो व्याहृ॑तयः । तासा॑मुहस्मै॒ तां च॑तु॒र्थीम् । माहा॑चमस्यः॒ प्रवे॑दयते । मह॒ इति॑ । तद्ब्रह्म॑ । स आ॒त्मा । अंगा᳚न्य॒न्या दे॒वताः᳚ । भूरिति॒ वा अ॒यं-लोँ॒कः । भुव॒ इत्यं॒तरि॑क्षम् । सुव॒रित्य॒सौ लो॒कः ॥ 1 ॥
मह॒ इत्या॑दि॒त्यः । आ॒दि॒त्येन॒ वाव सर्वे॑ लो॒का मही॑यंते । भूरिति॒ वा अ॒ग्निः । भुव॒ इति॑ वा॒युः । सुव॒रित्या॑दि॒त्यः । मह॒ इति॑ चं॒द्रमाः᳚ । चं॒द्रम॑सा॒ वाव सर्वा॑णि॒ ज्योतीग्ं॑षि॒ मही॑यंते । भूरिति॒ वा ऋचः॑ । भुव॒ इति॒ सामा॑नि । सुव॒रिति॒ यजूग्ं॑षि ॥ 2 ॥
मह॒ इति॒ ब्रह्म॑ । ब्रह्म॑णा॒ वाव सर्वे॑ वे॒दा मही॑यंते । भूरिति॒ वै प्रा॒णः । भुव॒ इत्य॑पा॒नः । सुव॒रिति॑ व्या॒नः । मह॒ इत्यन्नम्᳚ । अन्ने॑न॒ वाव सर्वे᳚ प्रा॒णा मही॑यंते । ता वा ए॒ताश्चत॑स्रश्चतु॒र्धा । चत॑स्रश्चतस्रो॒ व्याहृ॑तयः । ता यो वेद॑ । स वे॑द॒ ब्रह्म॑ । सर्वे᳚ऽस्मै दे॒वा ब॒लिमाव॑हंति ॥ 3 ॥
इति पंचमोऽनुवाकः ॥
Translation (भावार्थ):
The four great utterances are explained cosmically as worlds, deities, Vedas, and vital functions, with the great fourth expanding the vision.
स य ए॒षो᳚ऽंतरहृ॑दय आका॒शः । तस्मि॑न्न॒यं पुरु॑षो मनो॒मयः॑ । अमृ॑तो हिर॒ण्मयः॑ । अंत॑रेण॒ तालु॑के । य ए॒षस्तन॑ इवाव॒लंब॑ते । सें᳚द्रयो॒निः । यत्रा॒सौ के॑शां॒तो वि॒वर्त॑ते । व्य॒पोह्य॑ शीर्षकपा॒ले । भूरित्य॒ग्नौ प्रति॑तिष्ठति । भुव॒ इति॑ वा॒यौ ॥ 1 ॥
सुव॒रित्या॑दि॒त्ये । मह॒ इति॒ ब्रह्म॑णि । आ॒प्नोति॒ स्वारा᳚ज्यम् । आ॒प्नोति॒ मन॑स॒स्पतिम्᳚ । वाक्प॑ति॒श्चक्षु॑ष्पतिः । श्रोत्र॑पतिर्वि॒ज्ञान॑पतिः । ए॒तत्ततो॑ भवति । आ॒का॒शश॑रीरं॒ ब्रह्म॑ । स॒त्यात्म॑ प्रा॒णारा॑मं॒ मन॑ आनंदम् । शांति॑समृद्धम॒मृतम्᳚ । इति॑ प्राचीन यो॒ग्योपा᳚स्स्व ॥ 2 ॥
इति षष्ठोऽनुवाकः ॥
Translation (भावार्थ):
The heart-space meditation presents the inner golden person and the ascent through the subtle channel toward sovereignty and Brahman.
पृ॒थि॒व्यं॑तरि॑क्षं॒ द्यौर्दिशो॑ऽवांतरदि॒शाः । अ॒ग्निर्वा॒युरा॑दि॒त्यश्चं॒द्रमा॒ नक्ष॑त्राणि । आप॒ ओष॑धयो॒ वन॒स्पत॑य आका॒श आ॒त्मा । इत्य॑धिभू॒तम् । अथाध्या॒त्मम् । प्रा॒णो व्या॒नो॑ऽपा॒न उ॑दा॒नस्स॑मा॒नः । चक्षु॒श्श्रोत्रं॒ मनो॒ वाक्त्वक् । चर्म॑मा॒ग्ं॒सग्ग् स्नावास्थि॑ म॒ज्जा । ए॒तद॑धिवि॒धाय॒ ऋषि॒रवो॑चत् । पांक्तं॒-वाँ इ॒दग्ं सर्वम्᳚ । पांक्ते॑नै॒व पांक्तग्ग्॑ स्पृणो॒तीति॑ ॥ 1 ॥
इति सप्तमोऽनुवाकः ॥
Translation (भावार्थ):
The teaching arranges the cosmos and the person into fivefold groups, showing that the macrocosm and microcosm mirror one another.
ओमिति॒ ब्रह्म॑ । ओमिती॒दग्ं सर्वम्᳚ । ओमित्ये॒तद॑नुकृति ह स्म॒ वा अ॒प्यो श्रा॑व॒येत्याश्रा॑वयंति । ओमिति॒ सामा॑नि गायंति । ओग्ं शोमिति॑ श॒स्त्राणि॑ शग्ंसंति । ओमित्य॑ध्व॒र्युः प्र॑तिग॒रं प्रति॑गृणाति । ओमिति॒ ब्रह्मा॒ प्रसौ॑ति । ओमित्य॑ग्निहो॒त्रमनु॑जानाति । ओमिति॑ ब्राह्म॒णः प्र॑व॒क्ष्यन्ना॑ह॒ ब्रह्मोपा᳚प्नवा॒नीति॑ । ब्रह्मै॒वोपा᳚प्नोति ॥ 1 ॥
इत्यष्टमोऽनुवाकः ॥
Translation (भावार्थ):
The syllable Om is declared to be Brahman and the whole; it sanctifies Vedic recitation, ritual response, teaching, and attainment.
ऋतं च स्वाध्यायप्रव॑चने॒ च । सत्यं च स्वाध्यायप्रव॑चने॒ च । तपश्च स्वाध्यायप्रव॑चने॒ च । दमश्च स्वाध्यायप्रव॑चने॒ च । शमश्च स्वाध्यायप्रव॑चने॒ च । अग्नयश्च स्वाध्यायप्रव॑चने॒ च । अग्निहोत्रं च स्वाध्यायप्रव॑चने॒ च । अतिथयश्च स्वाध्यायप्रव॑चने॒ च । मानुषं च स्वाध्यायप्रव॑चने॒ च । प्रजा च स्वाध्यायप्रव॑चने॒ च । प्रजनश्च स्वाध्यायप्रव॑चने॒ च । प्रजातिश्च स्वाध्यायप्रव॑चने॒ च । सत्यमिति सत्यवचा॑ राथी॒तरः । तप इति तपोनित्यः पौ॑रुशि॒ष्टिः । स्वाध्यायप्रवचने एवेति नाको॑ मौद्ग॒ल्यः ।
तद्धि तप॑स्तद्धि॒ तपः ॥ 1 ॥
इति नवमोऽनुवाकः ॥
Translation (भावार्थ):
Truth, austerity, self-control, rituals, hospitality, family duty, and especially self-study and teaching are praised as inseparable disciplines.
अ॒हं-वृँ॒क्षस्य॒ रेरि॑वा । की॒र्तिः पृ॒ष्ठं गि॒रेरि॑व । ऊ॒र्ध्वप॑वित्रो वा॒जिनी॑व स्व॒मृत॑मस्मि । द्रवि॑ण॒ग्ं॒ सव॑र्चसम् । सुमेधा अ॑मृतो॒क्षितः । इति त्रिशंकोर्वेदा॑नुव॒चनम् ॥ 1 ॥
इति दशमोऽनुवाकः ॥
Translation (भावार्थ):
Trishanku's declaration celebrates the Self as the mover of the tree, glory like a mountain peak, purity, wealth of radiance, intelligence, and immortality.
वेदमनूच्याचार्योऽंतेवासिनम॑नुशा॒स्ति । सत्यं॒-वँद । धर्मं॒ चर । स्वाध्याया᳚न्मा प्र॒मदः । आचार्याय प्रियं धनमाहृत्य प्रजातंतुं मा व्य॑वच्छे॒त्सीः । सत्यान्न प्रम॑दित॒व्यम् । धर्मान्न प्रम॑दित॒व्यम् । कुशलान्न प्रम॑दित॒व्यम् । भूत्यै न प्रम॑दित॒व्यम् । स्वाध्यायप्रवचनाभ्यां न प्रम॑दित॒व्यम् ॥ 1 ॥
देवपितृकार्याभ्यां न प्रम॑दित॒व्यम् । मातृ॑देवो॒ भव । पितृ॑देवो॒ भव । आचार्य॑देवो॒ भव । अतिथि॑देवो॒ भव । यान्यनवद्यानि॑ कर्मा॒णि । तानि सेवि॑तव्या॒नि । नो इ॑तरा॒णि । यान्यस्माकग्ं सुच॑रिता॒नि । तानि त्वयो॑पास्या॒नि ॥ 2 ॥
नो इ॑तरा॒णि । ये के चारुमच्छ्रेयाग्ं॑सो ब्रा॒ह्मणाः । तेषां त्वयाऽऽसने न प्रश्व॑सित॒व्यम् । श्रद्ध॑या दे॒यम् । अश्रद्ध॑याऽदे॒यम् । श्रि॑या दे॒यम् । ह्रि॑या दे॒यम् । भि॑या दे॒यम् । संविँ॑दा दे॒यम् । अथ यदि ते कर्मविचिकिथ्सा वा वृत्तविचिकि॑थ्सा वा॒ स्यात् ॥ 3 ॥
ये तत्र ब्राह्मणा᳚स्संम॒र्शिनः । युक्ता॑ आयु॒क्ताः । अलूक्षा॑ धर्म॑कामा॒स्स्युः । यथा ते॑ तत्र॑ वर्ते॒रन्न् । तथा तत्र॑ वर्ते॒थाः । अथाभ्या᳚ख्या॒तेषु । ये तत्र ब्राह्मणा᳚स्संम॒र्शिनः । युक्ता॑ आयु॒क्ताः । अलूक्षा॑ धर्मकामा॒स्स्युः । यथा ते॑ तेषु॑ वर्ते॒रन्न् । तथा तेषु॑ वर्ते॒थाः । एष॑ आदे॒शः । एष उ॑पदे॒शः । एषा वे॑दोप॒निषत् । एतद॑नुशा॒सनम् । एवमुपा॑सित॒व्यम् । एवमु चैत॑दुपा॒स्यम् ॥ 4 ॥
इत्येकादशऽनुवाकः ॥
Translation (भावार्थ):
The convocation address commands the student to speak truth, practice dharma, honor study, teacher, family continuity, welfare, and generous giving.
शं नो॑ मि॒त्रश्शं-वँरु॑णः । शं नो॑ भवत्वर्य॒मा । शं न॒ इंद्रो॒ बृह॒स्पतिः॑ । शं नो॒ विष्णु॑रुरुक्र॒मः । नमो॒ ब्रह्म॑णे । नम॑स्ते वायो । त्वमे॒व प्र॒त्यक्षं॒ ब्रह्मा॑सि । त्वामे॒व प्र॒त्यक्षं॒ ब्रह्मावा॑दिषम् । ऋ॒तम॑वादिषम् । स॒त्यम॑वादिषम् । तन्मामा॑वीत् । तद्व॒क्तार॑मावीत् । आवी॒न्माम् । आवी᳚द्व॒क्तारम्᳚ । ॐ शांतिः॒ शांतिः॒ शांतिः॑ ॥ 1 ॥
इति द्वादशोऽनुवाकः ॥
Translation (भावार्थ):
The closing repeats the peace invocation, now as a fulfilled declaration that truth has been spoken and teacher and student have been protected.
॥ हरिः॑ ओम् ॥
॥ श्री कृष्णार्पणमस्तु ॥
Translation (भावार्थ):
The traditional closing offers the recitation to Hari and Sri Krishna.
Browse Related Categories:
वेद मंत्राः (111)
- गणपति प्रार्थन घनपाठः
- गायत्री मंत्रं घनपाठः
- श्री रुद्रं लघुन्यासम्
- श्री रुद्रं नमकम्
- श्री रुद्रं - चमकप्रश्नः
- पुरुष सूक्तम्
- श्री सूक्तम्
- दुर्गा सूक्तम्
- नारायण सूक्तम्
- मंत्र पुष्पम्
- शांति मंत्रम् (दश शांतयः)
- नित्य संध्या वंदनम् (कृष्ण यजुर्वेदीय)
- श्री गणपति अथर्व षीर्षम् (गणपत्यथर्वषीर्षोपनिषत्)
- ईशावास्योपनिषद् (ईशोपनिषद्)
- नक्षत्र सूक्तम् (नक्षत्रेष्टि)
- मन्यु सूक्तम्
- मेधा सूक्तम्
- विष्णु सूक्तम्
- शिव पंचामृत स्नानाभिषेकम्
- यज्ञोपवीत धारण
- सर्व देवता गायत्री मंत्राः
- तैत्तिरीय उपनिषद् - शीक्षावल्ली
- तैत्तिरीय उपनिषद् - आनंदवल्ली
- तैत्तिरीय उपनिषद् - भृगुवल्ली
- भू सूक्तम्
- नवग्रह सूक्तम्
- महानारायण उपनिषद्
- अरुणप्रश्नः
- श्री महान्यासम् (पूर्णं)
- सरस्वती सूक्तम् (ऋग्वेद)
- भाग्य सूक्तम्
- पवमान सूक्तम्
- नासदीय सूक्तम्
- नवग्रह सूक्तम् (नवग्रह नमस्कारम्)
- पितृ सूक्तम्
- रात्रि सूक्तम्
- सर्प सूक्तम्
- हिरण्य गर्भ सूक्तम्
- सानुस्वार प्रश्न (सुन्नाल पन्नम्)
- गो सूक्तम्
- त्रिसुपर्णम्
- चित्ति पन्नम्
- अघमर्षण सूक्तम्
- केन उपनिषद् - प्रथमः खंडः
- केन उपनिषद् - द्वितीयः खंडः
- केन उपनिषद् - तृतीयः खंडः
- केन उपनिषद् - चतुर्थः खंडः
- मुंडक उपनिषद् - प्रथम मुंडक, प्रथम कांडः
- मुंडक उपनिषद् - प्रथम मुंडक, द्वितीय कांडः
- मुंडक उपनिषद् - द्वितीय मुंडक, प्रथम कांडः
- मुंडक उपनिषद् - द्वितीय मुंडक, द्वितीय कांडः
- मुंडक उपनिषद् - तृतीय मुंडक, प्रथम कांडः
- मुंडक उपनिषद् - तृतीय मुंडक, द्वितीय कांडः
- नारायण उपनिषद्
- विश्वकर्म सूक्तम्
- श्री देव्यथर्वशीर्षम्
- दुर्वा सूक्तम् (महानारायण उपनिषद्)
- मृत्तिका सूक्तम् (महानारायण उपनिषद्)
- श्री दुर्गा अथर्वशीर्षम्
- अग्नि सूक्तम् (ऋग्वेद)
- क्रिमि संहारक सूक्तम् (यजुर्वेद)
- नीला सूक्तम्
- वेद आशीर्वचनम्
- वेद स्वस्ति वाचनम्
- ऐकमत्य सूक्तम् (ऋग्वेद)
- आयुष्य सूक्तम्
- श्रद्धा सूक्तम्
- श्री गणेश (गणपति) सूक्तम् (ऋग्वेद)
- शिवोपासन मंत्राः
- शांति पंचकम्
- शुक्ल यजुर्वेद संध्यावंदनम्
- मांडूक्य उपनिषद्
- ऋग्वेद संध्यावंदनम्
- एकात्मता स्तोत्रम्
- भावनोपनिषद्
- कठोपनिषद् - अध्याय 1, वल्ली 1
- कठोपनिषद् - अध्याय 1, वल्ली 2
- कठोपनिषद् - अध्याय 1, वल्ली 3
- कठोपनिषद् - अध्याय 2, वल्ली 1
- कठोपनिषद् - अध्याय 2, वल्ली 2
- कठोपनिषद् - अध्याय 2, वल्ली 3
- प्रश्नोपनिषद् - प्रथमः प्रश्नः
- प्रश्नोपनिषद् - द्वितीयः प्रश्नः
- प्रश्नोपनिषद् - त्रितीयः प्रश्नः
- प्रश्नोपनिषद् - चतुर्थः प्रश्नः
- प्रश्नोपनिषद् - पंच प्रश्नः
- प्रश्नोपनिषद् - षष्ठः प्रश्नः
- अन्न सूक्तम्
- ऋग्वेदीय पंच रुद्रं
- श्री महान्यासम् - 0. कलश प्रतिष्ठापन मंत्राः
- श्री महान्यासम् - 1. पंचांग रुद्रन्यासः
- श्री महान्यासम् - 2. पंचमुख ध्यानम्
- श्री महान्यासम् - 3. अंगन्यासः
- श्री महान्यासम् - 4. दशांग न्यासः
- श्री महान्यासम् - 5. पंचांग न्यासः
- श्री महान्यासम् - 5.1. हंस गायत्री
- श्री महान्यासम् - 5.2. दिक् संपुटन्यासः (संपुटीकरणम्)
- श्री महान्यासम् - 5.3. दशांग रौद्रीकरणम्
- श्री महान्यासम् - 5.4. षोडशांग रौद्रीकरणं
- श्री महान्यासम् - 6.1. मनो ज्योतिः
- श्री महान्यासम् - 6.2. आत्मरक्षा
- श्री महान्यासम् - 7.1. शिवसंकल्पाः
- श्री महान्यासम् - 7.2. पुरुष सूक्तं
- श्री महान्यासम् - 7.3. उत्तर नारायणं
- श्री महान्यासम् - 7.4. अप्रतिरथं
- श्री महान्यासम् - 7.5. प्रति पूरुषं
- श्री महान्यासम् - 7.6. शत रुद्रीयं (त्वमग्ने रुद्रोऽनुवाकः)
- श्री महान्यासम् - 7.7. पंचांग जपः
- श्री महान्यासम् - 7.8. अष्टांग प्रणामः
- सरस्वती सूक्तम् (यजुर्वेदीय)
- उदक शांति (पुण्याह वाचनं)
उपनिषदः (34)
- ईशावास्योपनिषद् (ईशोपनिषद्)
- शिवसंकल्पोपनिषत् (शिव संकल्पमस्तु)
- तैत्तिरीय उपनिषद् - शीक्षावल्ली
- तैत्तिरीय उपनिषद् - आनंदवल्ली
- तैत्तिरीय उपनिषद् - भृगुवल्ली
- महानारायण उपनिषद्
- केन उपनिषद् - प्रथमः खंडः
- केन उपनिषद् - द्वितीयः खंडः
- केन उपनिषद् - तृतीयः खंडः
- केन उपनिषद् - चतुर्थः खंडः
- मुंडक उपनिषद् - प्रथम मुंडक, प्रथम कांडः
- मुंडक उपनिषद् - प्रथम मुंडक, द्वितीय कांडः
- मुंडक उपनिषद् - द्वितीय मुंडक, प्रथम कांडः
- मुंडक उपनिषद् - द्वितीय मुंडक, द्वितीय कांडः
- मुंडक उपनिषद् - तृतीय मुंडक, प्रथम कांडः
- मुंडक उपनिषद् - तृतीय मुंडक, द्वितीय कांडः
- नारायण उपनिषद्
- चाक्षुषोपनिषद् (चक्षुष्मती विद्या)
- अपराध क्षमापण स्तोत्रम्
- श्री सूर्योपनिषद्
- मांडूक्य उपनिषद्
- भावनोपनिषद्
- कठोपनिषद् - अध्याय 1, वल्ली 1
- कठोपनिषद् - अध्याय 1, वल्ली 2
- कठोपनिषद् - अध्याय 1, वल्ली 3
- कठोपनिषद् - अध्याय 2, वल्ली 1
- कठोपनिषद् - अध्याय 2, वल्ली 2
- कठोपनिषद् - अध्याय 2, वल्ली 3
- प्रश्नोपनिषद् - प्रथमः प्रश्नः
- प्रश्नोपनिषद् - द्वितीयः प्रश्नः
- प्रश्नोपनिषद् - त्रितीयः प्रश्नः
- प्रश्नोपनिषद् - चतुर्थः प्रश्नः
- प्रश्नोपनिषद् - पंच प्रश्नः
- प्रश्नोपनिषद् - षष्ठः प्रश्नः
तैत्तिरीय उपनिषद् (3)