View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This stotram is in सरल देवनागरी(हिंन्दी). View this in शुद्ध देवनागरी (Samskritam), with appropriate anuswaras marked.

ईSऒपनिषद्

ॐ पूर्णमदः पूर्णमिदं पूर्णात्पुर्णमुदच्यते |
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ‖
ॐ शांतिः शांतिः शांतिः ‖

ईशा वास्यमिदं सर्वं यत्किंच जगत्यां जगत्‌ |
तेन त्यक्तेन भुंजीथा मा गृधः कस्यस्विद्धनं‌ ‖1‖

कुर्वन्नेवेह कर्माणि जिजीविषेत् शतं समाः |
एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे ‖2‖

असुर्या नाम ते लोका अंधेन तमसावृताः |
तांस्ते प्रेत्याभिगच्छंति ये के चात्महनो जनाः ‖|3‖

अनेजदेकं मनसो जवीयो नैनद्देवा आप्नुवन् पूर्वमर्षत्‌ |
तद्धावतोऽन्यानत्येति तिष्ठत् तस्मिन्नपो मातरिश्वा दधाति ‖4‖

तदेजति तन्नैजति तद् दूरे तद्वंतिके |
तदंतरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः ‖5‖

यस्तु सर्वाणि भूतानि आत्मन्येवानुपश्यति |
सर्वभूतेषु चात्मानं ततो न विजुगुप्सते ‖6‖

यस्मिन् सर्वाणि भूतानि आत्मैवाभूद् विजानतः |
तत्र को मोहः कः शोक एकत्वमनुपश्यतः ‖7‖

स पर्यगाच्छुक्रमकायमव्रणमस्नाविरं शुद्धमपापविद्धं‌ |
कविर्मनीषी परिभूः स्वयंभूर्याथातथ्यतोऽर्थान्‌ व्यदधात् शाश्वतीभ्यः समाभ्यः ‖8‖

अंधं तमः प्रविशंति येऽविद्यामुपासते |
ततो भूय इव ते तमो य उ विद्यायां रताः ‖9‖

अन्यदेवाहुर्विद्ययाऽन्यदाहुरविद्यया |
इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ‖10‖

विद्यांचाविद्यांच यस्तद्वेदोभयं सह |
अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते ‖11‖

अंधं तमः प्रविशंति येऽसंभूतिमुपासते |
ततो भूय इव ते तमो य उ संभूत्यां रताः ‖12‖

अन्यदेवाहुः संभवादन्यदाहुरसंभवात्‌ |
इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ‖13‖

संभूतिंच विनाशंच यस्तद्वेदोभयं सह |
विनाशेन मृत्युं तीर्त्वा संभूत्याऽमृतमश्नुते ‖14‖

हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखं‌ |
तत् त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये ‖15‖

पूषन्नेकर्षे यम सूर्य प्राजापत्य व्यूह रश्मीन्‌ समूह |
तेजो यत् ते रूपं कल्याणतमं तत्ते पश्यामि
योऽसावसौ पुरुषः सोऽहमस्मि ‖16‖

वायुरनिलममृतमथेदं भस्मांतं शरीरं‌।
ॐ क्रतो स्मर कृतं स्मर क्रतो स्मर कृतं स्मर ‖17‖

अग्ने नय सुपथा राये अस्मान्‌ विश्वानि देव वयुनानि विद्वान्‌।
युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नम‍उक्तिं विधेम ‖18‖












Last Updated: 30 January, 2021