View this in:
This stotram is in शुद्ध देवनागरी (Samskritam). View this in
सरल देवनागरी (हिंन्दी), with simplified anuswaras for easy reading.
ईSऒपनिषद्
ॐ पूर्णमदः पूर्णमिदं पूर्णात्पुर्णमुदच्यते |
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ‖
ॐ शान्तिः शान्तिः शान्तिः ‖
ईशा वास्यमिदं सर्वं यत्किञ्च जगत्यां जगत् |
तेन त्यक्तेन भुञ्जीथा मा गृधः कस्यस्विद्धनं ‖1‖
कुर्वन्नेवेह कर्माणि जिजीविषेत् शतं समाः |
एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे ‖2‖
असुर्या नाम ते लोका अन्धेन तमसावृताः |
तांस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः ‖|3‖
अनेजदेकं मनसो जवीयो नैनद्देवा आप्नुवन् पूर्वमर्षत् |
तद्धावतोऽन्यानत्येति तिष्ठत् तस्मिन्नपो मातरिश्वा दधाति ‖4‖
तदेजति तन्नैजति तद् दूरे तद्वन्तिके |
तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः ‖5‖
यस्तु सर्वाणि भूतानि आत्मन्येवानुपश्यति |
सर्वभूतेषु चात्मानं ततो न विजुगुप्सते ‖6‖
यस्मिन् सर्वाणि भूतानि आत्मैवाभूद् विजानतः |
तत्र को मोहः कः शोक एकत्वमनुपश्यतः ‖7‖
स पर्यगाच्छुक्रमकायमव्रणमस्नाविरं शुद्धमपापविद्धं |
कविर्मनीषी परिभूः स्वयम्भूर्याथातथ्यतोऽर्थान् व्यदधात् शाश्वतीभ्यः समाभ्यः ‖8‖
अन्धं तमः प्रविशन्ति येऽविद्यामुपासते |
ततो भूय इव ते तमो य उ विद्यायां रताः ‖9‖
अन्यदेवाहुर्विद्ययाऽन्यदाहुरविद्यया |
इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ‖10‖
विद्याञ्चाविद्याञ्च यस्तद्वेदोभयं सह |
अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते ‖11‖
अन्धं तमः प्रविशन्ति येऽसम्भूतिमुपासते |
ततो भूय इव ते तमो य उ सम्भूत्यां रताः ‖12‖
अन्यदेवाहुः सम्भवादन्यदाहुरसम्भवात् |
इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ‖13‖
सम्भूतिञ्च विनाशञ्च यस्तद्वेदोभयं सह |
विनाशेन मृत्युं तीर्त्वा सम्भूत्याऽमृतमश्नुते ‖14‖
हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखं |
तत् त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये ‖15‖
पूषन्नेकर्षे यम सूर्य प्राजापत्य व्यूह रश्मीन् समूह |
तेजो यत् ते रूपं कल्याणतमं तत्ते पश्यामि
योऽसावसौ पुरुषः सोऽहमस्मि ‖16‖
वायुरनिलममृतमथेदं भस्मान्तं शरीरं।
ॐ क्रतो स्मर कृतं स्मर क्रतो स्मर कृतं स्मर ‖17‖
अग्ने नय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान्।
युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नमउक्तिं विधेम ‖18‖
Last Updated: 30 January, 2021