View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This stotram is in शुद्ध देवनागरी (Samskritam). View this in सरल देवनागरी (हिंन्दी), with simplified anuswaras for easy reading.

पतञ्जलि योग सूत्राणि - 1 (समाधि पाद)

अथ समाधिपादः |

अथ योगानुशासनम् ‖ 1 ‖

योगश्चित्तवृत्ति निरोधः ‖ 2 ‖

तदा द्रष्टुः स्वरूपेऽवस्थानम् ‖ 3 ‖

वृत्ति सारूप्यमितरत्र ‖ 4 ‖

वृत्तयः पञ्चतस्यः क्लिष्टाऽक्लिष्टाः ‖ 5 ‖

प्रमाण विपर्यय विकल्प निद्रा स्मृतयः ‖ 6 ‖

प्रत्यक्षानुमानागमाः प्रमाणानि ‖ 7 ‖

विपर्ययो मिथ्याज्ञानमतद्रूप प्रतिष्टम् ‖ 8 ‖

शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः ‖ 9 ‖

अभाव प्रत्ययालम्बना वृत्तिर्निद्रा ‖ 10 ‖

अनभूत विषयासम्प्रमोषः स्मृतिः ‖ 11 ‖

अभ्यास वैराग्याभ्यां तन्निरोधः ‖ 12 ‖

तत्र स्थितौ यत्नोऽभ्यासः ‖ 13 ‖

स तु दीर्घकाल नैरन्तर्य सक्तारासेवितो दृढभूमिः ‖ 14 ‖

दृष्टानुश्रविक विषय वितृष्णस्य वशीकारसञ्ज्ञा वैराग्यम् ‖ 15 ‖

तत्परं पुरुषख्याते-र्गुणवैतृष्णाम् ‖ 16 ‖

वितर्क विचारानन्दास्मितारूपानुगमात् सम्प्रज्ञातः ‖ 17 ‖

विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽनयः ‖ 18 ‖

भवप्रत्ययो विदेहप्रकृतिलयानाम् ‖ 19 ‖

श्रद्धा वीर्य स्मृति समाधिप्रज्ञा पूर्वकः इतरेषाम् ‖ 20 ‖

तीव्रसंवेगानामासन्नः ‖ 21 ‖

मृदुमध्याधिमात्रत्वात्ततोऽपि विशेषः ‖ 22 ‖

ईश्वरप्रणिधानाद्वा ‖ 23 ‖

क्लेश कर्म विपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः ‖ 24 ‖

तत्र निरतिशयं सर्वज्ञवीजम् ‖ 25 ‖

स एषः पूर्वेषामपि गुरुः कालेनानवच्छेदात् ‖ 26 ‖

तस्य वाचकः प्रणवः ‖ 27 ‖

तज्जपस्तदर्थभावनम् ‖ 28 ‖

ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभावश्च ‖ 29 ‖

व्याधि स्त्यान संशय प्रमादालस्याविरति भ्रान्ति
दर्शनालब्धूमिकत्वानवस्थितत्वानि चित्तविक्षेपस्तेऽन्तरायाः ‖ 30 ‖

दुःख दौर्म्मनरस्याङ्गमेजयत्व श्वासप्रश्वासा विक्षेपसहभुवः ‖ 31 ‖

तत्प्रतिषेधार्थमेकतत्त्वाभ्यासः ‖ 32 ‖

मैत्री करुणा मुदितोपेक्षाणां सुख दुःखा पुण्यापुण्य विषयाणाम्-भावनातश्चित्तप्रसादनम् ‖ 33 ‖

प्रच्छर्दृन विधारणाभ्यां वा प्रणस्य ‖ 34 ‖

विषयवती वा प्रवृत्तिरूत्पन्ना मनसः स्थिति निबन्धनी ‖ 35 ‖

विशोका वा ज्योतिष्मती ‖ 36 ‖

वीतराग विषयं वा चित्तम् ‖ 37 ‖

स्वप्न निद्रा ज्ञानालम्बनं वा ‖ 38 ‖

यथाभिमतध्यानाद्वा ‖ 39 ‖

परमाणु परम महत्त्वान्तोऽस्य वशीकारः ‖ 40 ‖

क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृर्गयण ग्राह्येषु तत्स्थ तदञ्जनता समापत्तिः ‖ 41 ‖

तत्र शब्दार्थ ज्ञान विकल्पैः सङ्कीर्णा सवितर्का समापत्तिः ‖ 42 ‖

स्मृति परिशुद्धौ स्वरूप शून्येवार्थ मात्रानिर्भासा निर्वितर्का ‖ 43 ‖

एतयैव सविचारा निर्विचार च सूक्ष्मविषया व्यारख्याता ‖ 44 ‖

सूक्ष्म विषयत्वं चालिङ्गपर्यवसानम् ‖ 45 ‖

ता एव सवीजः समाधिः ‖ 46 ‖

निर्विचार वैशाराध्येऽध्यात्मप्रसादः ‖ 47 ‖

ऋतम्भरा तत्र प्रज्ञा ‖ 48 ‖

श्रुतानुमान प्रज्ञाभ्यामन्यविषया विशेषार्थत्वात् ‖ 49 ‖

तज्जः संस्कारोऽन्यसंस्कार प्रतिबन्धी ‖ 50 ‖

तस्यापि निरोधे सर्वनिरोधान्निर्वाजस्समाधिः ‖ 51 ‖

इति पातञ्जलयोगदर्शने समाधिपादो नाम प्रथमः पादः |