शिवयोस्तनुजायास्तु श्रितमन्दारशाखिने ।
शिखिवर्यतुरङ्गाय सुब्रह्मण्याय मङ्गलम् ॥ 1 ॥
भक्ताभीष्टप्रदायास्तु भवरोगविनाशिने ।
राजराजादिवन्द्याय रणधीराय मङ्गलम् ॥ 2 ॥
शूरपद्मादिदैतेयतमिस्रकुलभानवे ।
तारकासुरकालाय बालकायास्तु मङ्गलम् ॥ 3 ॥
वल्लीवदनराजीव मधुपाय महात्मने ।
उल्लसन्मणिकोटीरभासुरायास्तु मङ्गलम् ॥ 4 ॥
कन्दर्पकोटिलावण्यनिधये कामदायिने ।
कुलिशायुधहस्ताय कुमारायास्तु मङ्गलम् ॥ 5 ॥
मुक्ताहारलसत्कण्ठराजये मुक्तिदायिने ।
देवसेनासमेताय दैवतायास्तु मङ्गलम् ॥ 6 ॥
कनकाम्बरसंशोभिकटये कलिहारिणे ।
कमलापतिवन्द्याय कार्तिकेयाय मङ्गलम् ॥ 7 ॥
शरकाननजाताय शूराय शुभदायिने ।
शीतभानुसमास्याय शरण्यायास्तु मङ्गलम् ॥ 8 ॥
मङ्गलाष्टकमेतद्ये महासेनस्य मानवाः ।
पठन्ती प्रत्यहं भक्त्या प्राप्नुयुस्ते परां श्रियम् ॥ 9 ॥
इति श्री सुब्रह्मण्य मङ्गलाष्टकम् ।