शिवयोस्तनुजायास्तु श्रितमंदारशाखिने ।
शिखिवर्यतुरंगाय सुब्रह्मण्याय मंगलम् ॥ 1 ॥
भक्ताभीष्टप्रदायास्तु भवरोगविनाशिने ।
राजराजादिवंद्याय रणधीराय मंगलम् ॥ 2 ॥
शूरपद्मादिदैतेयतमिस्रकुलभानवे ।
तारकासुरकालाय बालकायास्तु मंगलम् ॥ 3 ॥
वल्लीवदनराजीव मधुपाय महात्मने ।
उल्लसन्मणिकोटीरभासुरायास्तु मंगलम् ॥ 4 ॥
कंदर्पकोटिलावण्यनिधये कामदायिने ।
कुलिशायुधहस्ताय कुमारायास्तु मंगलम् ॥ 5 ॥
मुक्ताहारलसत्कंठराजये मुक्तिदायिने ।
देवसेनासमेताय दैवतायास्तु मंगलम् ॥ 6 ॥
कनकांबरसंशोभिकटये कलिहारिणे ।
कमलापतिवंद्याय कार्तिकेयाय मंगलम् ॥ 7 ॥
शरकाननजाताय शूराय शुभदायिने ।
शीतभानुसमास्याय शरण्यायास्तु मंगलम् ॥ 8 ॥
मंगलाष्टकमेतद्ये महासेनस्य मानवाः ।
पठंती प्रत्यहं भक्त्या प्राप्नुयुस्ते परां श्रियम् ॥ 9 ॥
इति श्री सुब्रह्मण्य मंगलाष्टकम् ।