View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

तैत्तिरीय उपनिषद् - शीक्षावल्ली

तैत्तिरीय उपनिषद् - शीक्षा वल्ली is the first vallI of the Taittiriya Upanishad in the Krishna Yajurveda tradition. It begins with peace invocations and then teaches the discipline needed for Vedic learning: phonetics, pronunciation, teacher-student harmony, contemplation on correspondences, study, teaching, truthfulness, and ethical conduct.

This Vedic chant is not only a technical manual for recitation. Its treatment of शीक्षा shows that sacred knowledge requires the whole person: correct sound, controlled speech, memory, humility, generosity, and reverence toward parents, teachers, guests, and dharma. The famous injunctions सत्यं वद and धर्मं चर make the vallI a foundational source for daily conduct.


(तै. आ. 7-1-1)

Translation (भावार्थ):
This source marker identifies the Taittiriya Aranyaka section from which the recitation is drawn.


ॐ श्री गुरुभ्यो नमः । हरिः ओम् ॥

Translation (भावार्थ):
The recitation begins by bowing to the guru lineage and invoking Hari and Om.


ॐ शं नो॑ मि॒त्रश्शं-वँरु॑णः । शं नो॑ भवत्वर्य॒मा । शं न॒ इंद्रो॒ बृह॒स्पतिः॑ । शं नो॒ विष्णु॑रुरुक्र॒मः । नमो॒ ब्रह्म॑णे । नम॑स्ते वायो । त्वमे॒व प्र॒त्यक्षं॒ ब्रह्मा॑सि । त्वमे॒व प्र॒त्यक्षं॒ ब्रह्म॑ वदिष्यामि । ऋ॒तं-वँ॑दिष्यामि । स॒त्यं-वँ॑दिष्यामि । तन्माम॑वतु । तद्व॒क्तार॑मवतु । अव॑तु॒ माम् । अव॑तु व॒क्तारम्᳚ । ॐ शांतिः॒ शांतिः॒ शांतिः॑ ॥ 1 ॥
इति प्रथमोऽनुवाकः ॥

Translation (भावार्थ):
The opening identifies Vayu as the directly perceptible Brahman and prays for truth, protection of teacher and student, and peace.


शीक्षां-व्याँ᳚ख्यास्या॒मः । वर्ण॒स्स्वरः । मात्रा॒ बलम् । साम॑ संता॒नः । इत्युक्तश्शी᳚क्षाध्या॒यः ॥ 1 ॥
इति द्वितीयोऽनुवाकः ॥

Translation (भावार्थ):
This section defines the discipline of phonetics through sound, accent, duration, force, smoothness, and continuity.


स॒ह नौ॒ यशः । स॒ह नौ ब्र॑ह्मव॒र्चसम् । अथातस्सग्ंहिताया उपनिषदं-व्याँ᳚ख्यास्या॒मः । पंचस्वधिक॑रणे॒षु । अधिलोकमधिज्यौतिषमधिविद्यमधिप्रज॑मध्या॒त्मम् । ता महासग्ंहिता इ॑त्याच॒क्षते । अथा॑धिलो॒कम् । पृथिवी पू᳚र्वरू॒पम् । द्यौरुत्त॑ररू॒पम् । आका॑शस्सं॒धिः ॥ 1 ॥
वायु॑स्संधा॒नम् । इत्य॑धिलो॒कम् । अथा॑धिज्यौ॒तिषम् । अग्निः पू᳚र्वरू॒पम् । आदित्य उत्त॑ररू॒पम् । आ॑पस्सं॒धिः । वैद्युत॑स्संधा॒नम् । इत्य॑धिज्यौ॒तिषम् । अथा॑धिवि॒द्यम् । आचार्यः पू᳚र्वरू॒पम् ॥ 2 ॥
अंतेवास्युत्त॑ररू॒पम् । वि॑द्या सं॒धिः । प्रवचनग्ं॑ संधा॒नम् । इत्य॑धिवि॒द्यम् । अथाधि॒प्रजम् । माता पू᳚र्वरू॒पम् । पितोत्त॑ररू॒पम् । प्र॑जा सं॒धिः । प्रजननग्ं॑ संधा॒नम् । इत्यधि॒प्रजम् ॥ 3 ॥
अथाध्या॒त्मम् । अधरा हनुः पू᳚र्वरू॒पम् । उत्तरा हनुरुत्त॑ररू॒पम् । वाक्सं॒धिः । जिह्वा॑ संधा॒नम् । इत्यध्या॒त्मम् । इतीमा म॑हास॒ग्ं॒हिताः । य एवमेता महासग्ंहिता व्याख्या॑ता वे॒द । संधीयते प्रज॑या प॒शुभिः । ब्रह्मवर्चसेनान्नाद्येन सुवर्ग्येण॑ लोके॒न ॥ 4 ॥
इति तृतीयोऽनुवाकः ॥

Translation (भावार्थ):
The teaching on great conjunctions links earth and heaven, fire and sun, teacher and student, mother and father, and speech and jaw as meditations on unity.


यश्छंद॑सामृष॒भो वि॒श्वरू॑पः । छंदो॒भ्योऽध्य॒मृता᳚थ्सं ब॒भूव॑ । स मेंद्रो॑ मे॒धया᳚ स्पृणोतु । अ॒मृत॑स्य देव॒ धार॑णो भूयासम् । शरी॑रं मे॒ विच॑र्​षणम् । जि॒ह्वा मे॒ मधु॑मत्तमा । कर्णा᳚भ्यां भूरि॒ विश्रु॑वम् । ब्रह्म॑णः को॒शो॑ऽसि मे॒धयाऽपि॑हितः । श्रु॒तं मे॑ गोपाय । आ॒वहं॑ती वितन्वा॒ना ॥ 1 ॥
कु॒र्वा॒णा चीर॑मा॒त्मनः॑ । वासाग्ं॑सि॒ मम॒ गाव॑श्च । अ॒न्न॒पा॒ने च॑ सर्व॒दा । ततो॑ मे॒ श्रिय॒माव॑ह । लो॒म॒शां प॒शुभि॑स्स॒ह स्वाहा᳚ । आमा॑ यंतु ब्रह्मचा॒रिण॒स्स्वाहा᳚ । विमा॑ऽऽयंतु ब्रह्मचा॒रिण॒स्स्वाहा᳚ । प्रमा॑ऽऽयंतु ब्रह्मचा॒रिण॒स्स्वाहा᳚ । दमा॑यंतु ब्रह्मचा॒रिण॒स्स्वाहा᳚ । शमा॑यंतु ब्रह्मचा॒रिण॒स्स्वाहा᳚ ॥ 2 ॥
यशो॒ जने॑ऽसानि॒ स्वाहा᳚ । श्रेया॒न्वस्य॑सोऽसानि॒ स्वाहा᳚ । तं त्वा॑ भग॒ प्रवि॑शानि॒ स्वाहा᳚ । स मा॑ भग॒ प्रवि॑श॒ स्वाहा᳚ । तस्मिन्᳚-थ्स॒हस्र॑शाखे । निभ॑गा॒हं त्वयि॑ मृजे॒ स्वाहा᳚ । यथाऽऽपः॒ प्रव॑ता॒ऽऽयंति॑ । यथा॒ मासा॑ अहर्ज॒रम् । ए॒वं मां ब्र॑ह्मचा॒रिणः॑ । धात॒रायं॑तु स॒र्वत॒स्स्वाहा᳚ । प्र॒ति॒वे॒शो॑ऽसि॒ प्रमा॑भाहि॒ प्रमा॑पद्यस्व ॥ 3 ॥
इति चतुर्थोऽनुवाकः ॥

Translation (भावार्थ):
The Medha prayer asks Indra and the Vedic power of speech to grant intelligence, memory, students, prosperity, and the radiance of sacred learning.


भूर्भुव॒स्सुव॒रिति॒ वा ए॒तास्ति॒स्रो व्याहृ॑तयः । तासा॑मुहस्मै॒ तां च॑तु॒र्थीम् । माहा॑चमस्यः॒ प्रवे॑दयते । मह॒ इति॑ । तद्ब्रह्म॑ । स आ॒त्मा । अंगा᳚न्य॒न्या दे॒वताः᳚ । भूरिति॒ वा अ॒यं-लोँ॒कः । भुव॒ इत्यं॒तरि॑क्षम् । सुव॒रित्य॒सौ लो॒कः ॥ 1 ॥
मह॒ इत्या॑दि॒त्यः । आ॒दि॒त्येन॒ वाव सर्वे॑ लो॒का मही॑यंते । भूरिति॒ वा अ॒ग्निः । भुव॒ इति॑ वा॒युः । सुव॒रित्या॑दि॒त्यः । मह॒ इति॑ चं॒द्रमाः᳚ । चं॒द्रम॑सा॒ वाव सर्वा॑णि॒ ज्योतीग्ं॑षि॒ मही॑यंते । भूरिति॒ वा ऋचः॑ । भुव॒ इति॒ सामा॑नि । सुव॒रिति॒ यजूग्ं॑षि ॥ 2 ॥
मह॒ इति॒ ब्रह्म॑ । ब्रह्म॑णा॒ वाव सर्वे॑ वे॒दा मही॑यंते । भूरिति॒ वै प्रा॒णः । भुव॒ इत्य॑पा॒नः । सुव॒रिति॑ व्या॒नः । मह॒ इत्यन्नम्᳚ । अन्ने॑न॒ वाव सर्वे᳚ प्रा॒णा मही॑यंते । ता वा ए॒ताश्चत॑स्रश्चतु॒र्धा । चत॑स्रश्चतस्रो॒ व्याहृ॑तयः । ता यो वेद॑ । स वे॑द॒ ब्रह्म॑ । सर्वे᳚ऽस्मै दे॒वा ब॒लिमाव॑हंति ॥ 3 ॥
इति पंचमोऽनुवाकः ॥

Translation (भावार्थ):
The four great utterances are explained cosmically as worlds, deities, Vedas, and vital functions, with the great fourth expanding the vision.


स य ए॒षो᳚ऽंतरहृ॑दय आका॒शः । तस्मि॑न्न॒यं पुरु॑षो मनो॒मयः॑ । अमृ॑तो हिर॒ण्मयः॑ । अंत॑रेण॒ तालु॑के । य ए॒षस्तन॑ इवाव॒लंब॑ते । सें᳚द्रयो॒निः । यत्रा॒सौ के॑शां॒तो वि॒वर्त॑ते । व्य॒पोह्य॑ शीर्​षकपा॒ले । भूरित्य॒ग्नौ प्रति॑तिष्ठति । भुव॒ इति॑ वा॒यौ ॥ 1 ॥
सुव॒रित्या॑दि॒त्ये । मह॒ इति॒ ब्रह्म॑णि । आ॒प्नोति॒ स्वारा᳚ज्यम् । आ॒प्नोति॒ मन॑स॒स्पतिम्᳚ । वाक्प॑ति॒श्चक्षु॑ष्पतिः । श्रोत्र॑पतिर्वि॒ज्ञान॑पतिः । ए॒तत्ततो॑ भवति । आ॒का॒शश॑रीरं॒ ब्रह्म॑ । स॒त्यात्म॑ प्रा॒णारा॑मं॒ मन॑ आनंदम् । शांति॑समृद्धम॒मृतम्᳚ । इति॑ प्राचीन यो॒ग्योपा᳚स्स्व ॥ 2 ॥
इति षष्ठोऽनुवाकः ॥

Translation (भावार्थ):
The heart-space meditation presents the inner golden person and the ascent through the subtle channel toward sovereignty and Brahman.


पृ॒थि॒व्यं॑तरि॑क्षं॒ द्यौर्दिशो॑ऽवांतरदि॒शाः । अ॒ग्निर्वा॒युरा॑दि॒त्यश्चं॒द्रमा॒ नक्ष॑त्राणि । आप॒ ओष॑धयो॒ वन॒स्पत॑य आका॒श आ॒त्मा । इत्य॑धिभू॒तम् । अथाध्या॒त्मम् । प्रा॒णो व्या॒नो॑ऽपा॒न उ॑दा॒नस्स॑मा॒नः । चक्षु॒श्श्रोत्रं॒ मनो॒ वाक्त्वक् । चर्म॑मा॒ग्ं॒सग्ग् स्नावास्थि॑ म॒ज्जा । ए॒तद॑धिवि॒धाय॒ ऋषि॒रवो॑चत् । पांक्तं॒-वाँ इ॒दग्ं सर्वम्᳚ । पांक्ते॑नै॒व पांक्तग्ग्॑ स्पृणो॒तीति॑ ॥ 1 ॥
इति सप्तमोऽनुवाकः ॥

Translation (भावार्थ):
The teaching arranges the cosmos and the person into fivefold groups, showing that the macrocosm and microcosm mirror one another.


ओमिति॒ ब्रह्म॑ । ओमिती॒दग्ं सर्वम्᳚ । ओमित्ये॒तद॑नुकृति ह स्म॒ वा अ॒प्यो श्रा॑व॒येत्याश्रा॑वयंति । ओमिति॒ सामा॑नि गायंति । ओग्ं शोमिति॑ श॒स्त्राणि॑ शग्ंसंति । ओमित्य॑ध्व॒र्युः प्र॑तिग॒रं प्रति॑गृणाति । ओमिति॒ ब्रह्मा॒ प्रसौ॑ति । ओमित्य॑ग्निहो॒त्रमनु॑जानाति । ओमिति॑ ब्राह्म॒णः प्र॑व॒क्ष्यन्ना॑ह॒ ब्रह्मोपा᳚प्नवा॒नीति॑ । ब्रह्मै॒वोपा᳚प्नोति ॥ 1 ॥
इत्यष्टमोऽनुवाकः ॥

Translation (भावार्थ):
The syllable Om is declared to be Brahman and the whole; it sanctifies Vedic recitation, ritual response, teaching, and attainment.


ऋतं च स्वाध्यायप्रव॑चने॒ च । सत्यं च स्वाध्यायप्रव॑चने॒ च । तपश्च स्वाध्यायप्रव॑चने॒ च । दमश्च स्वाध्यायप्रव॑चने॒ च । शमश्च स्वाध्यायप्रव॑चने॒ च । अग्नयश्च स्वाध्यायप्रव॑चने॒ च । अग्निहोत्रं च स्वाध्यायप्रव॑चने॒ च । अतिथयश्च स्वाध्यायप्रव॑चने॒ च । मानुषं च स्वाध्यायप्रव॑चने॒ च । प्रजा च स्वाध्यायप्रव॑चने॒ च । प्रजनश्च स्वाध्यायप्रव॑चने॒ च । प्रजातिश्च स्वाध्यायप्रव॑चने॒ च । सत्यमिति सत्यवचा॑ राथी॒तरः । तप इति तपोनित्यः पौ॑रुशि॒ष्टिः । स्वाध्यायप्रवचने एवेति नाको॑ मौद्ग॒ल्यः ।
तद्धि तप॑स्तद्धि॒ तपः ॥ 1 ॥
इति नवमोऽनुवाकः ॥

Translation (भावार्थ):
Truth, austerity, self-control, rituals, hospitality, family duty, and especially self-study and teaching are praised as inseparable disciplines.


अ॒हं-वृँ॒क्षस्य॒ रेरि॑वा । की॒र्तिः पृ॒ष्ठं गि॒रेरि॑व । ऊ॒र्ध्वप॑वित्रो वा॒जिनी॑व स्व॒मृत॑मस्मि । द्रवि॑ण॒ग्ं॒ सव॑र्चसम् । सुमेधा अ॑मृतो॒क्षितः । इति त्रिशंकोर्वेदा॑नुव॒चनम् ॥ 1 ॥
इति दशमोऽनुवाकः ॥

Translation (भावार्थ):
Trishanku's declaration celebrates the Self as the mover of the tree, glory like a mountain peak, purity, wealth of radiance, intelligence, and immortality.


वेदमनूच्याचार्योऽंतेवासिनम॑नुशा॒स्ति । सत्यं॒-वँद । धर्मं॒ चर । स्वाध्याया᳚न्मा प्र॒मदः । आचार्याय प्रियं धनमाहृत्य प्रजातंतुं मा व्य॑वच्छे॒त्सीः । सत्यान्न प्रम॑दित॒व्यम् । धर्मान्न प्रम॑दित॒व्यम् । कुशलान्न प्रम॑दित॒व्यम् । भूत्यै न प्रम॑दित॒व्यम् । स्वाध्यायप्रवचनाभ्यां न प्रम॑दित॒व्यम् ॥ 1 ॥
देवपितृकार्याभ्यां न प्रम॑दित॒व्यम् । मातृ॑देवो॒ भव । पितृ॑देवो॒ भव । आचार्य॑देवो॒ भव । अतिथि॑देवो॒ भव । यान्यनवद्यानि॑ कर्मा॒णि । तानि सेवि॑तव्या॒नि । नो इ॑तरा॒णि । यान्यस्माकग्ं सुच॑रिता॒नि । तानि त्वयो॑पास्या॒नि ॥ 2 ॥
नो इ॑तरा॒णि । ये के चारुमच्छ्रेयाग्ं॑सो ब्रा॒ह्मणाः । तेषां त्वयाऽऽसने न प्रश्व॑सित॒व्यम् । श्रद्ध॑या दे॒यम् । अश्रद्ध॑याऽदे॒यम् । श्रि॑या दे॒यम् । ह्रि॑या दे॒यम् । भि॑या दे॒यम् । सं​विँ॑दा दे॒यम् । अथ यदि ते कर्मविचिकिथ्सा वा वृत्तविचिकि॑थ्सा वा॒ स्यात् ॥ 3 ॥
ये तत्र ब्राह्मणा᳚स्संम॒र्​शिनः । युक्ता॑ आयु॒क्ताः । अलूक्षा॑ धर्म॑कामा॒स्स्युः । यथा ते॑ तत्र॑ वर्ते॒रन्न् । तथा तत्र॑ वर्ते॒थाः । अथाभ्या᳚ख्या॒तेषु । ये तत्र ब्राह्मणा᳚स्संम॒र्​शिनः । युक्ता॑ आयु॒क्ताः । अलूक्षा॑ धर्मकामा॒स्स्युः । यथा ते॑ तेषु॑ वर्ते॒रन्न् । तथा तेषु॑ वर्ते॒थाः । एष॑ आदे॒शः । एष उ॑पदे॒शः । एषा वे॑दोप॒निषत् । एतद॑नुशा॒सनम् । एवमुपा॑सित॒व्यम् । एवमु चैत॑दुपा॒स्यम् ॥ 4 ॥
इत्येकादशऽनुवाकः ॥

Translation (भावार्थ):
The convocation address commands the student to speak truth, practice dharma, honor study, teacher, family continuity, welfare, and generous giving.


शं नो॑ मि॒त्रश्शं-वँरु॑णः । शं नो॑ भवत्वर्य॒मा । शं न॒ इंद्रो॒ बृह॒स्पतिः॑ । शं नो॒ विष्णु॑रुरुक्र॒मः । नमो॒ ब्रह्म॑णे । नम॑स्ते वायो । त्वमे॒व प्र॒त्यक्षं॒ ब्रह्मा॑सि । त्वामे॒व प्र॒त्यक्षं॒ ब्रह्मावा॑दिषम् । ऋ॒तम॑वादिषम् । स॒त्यम॑वादिषम् । तन्मामा॑वीत् । तद्व॒क्तार॑मावीत् । आवी॒न्माम् । आवी᳚द्व॒क्तारम्᳚ । ॐ शांतिः॒ शांतिः॒ शांतिः॑ ॥ 1 ॥
इति द्वादशोऽनुवाकः ॥

Translation (भावार्थ):
The closing repeats the peace invocation, now as a fulfilled declaration that truth has been spoken and teacher and student have been protected.


॥ हरिः॑ ओम् ॥
॥ श्री कृष्णार्पणमस्तु ॥

Translation (भावार्थ):
The traditional closing offers the recitation to Hari and Sri Krishna.




Browse Related Categories: