View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Nepali language.

ध्रुव स्तुतिः

(विष्णुपुराणांतर्गता; मुख्य स्तुति श्लोकाः 51-74)

ध्रुव उवाच ।
भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च ।
भूतादिरादिप्रकृतिर्यस्य रूपं नतोऽस्मि तम् ॥ 51 ॥

शुद्धः सूक्ष्मोऽखिलव्यापी प्रधानात्परतः पुमान् ।
यस्य रूपं नमस्तस्मै पुरुषाय गुणाशिने ॥ 52 ॥

भूरादीनां समस्तानां गंधादीनां च शाश्वतः ।
बुद्ध्यादीनां प्रधानस्य पुरुषस्य च यः परः ॥ 53 ॥

तं ब्रह्मभूतमात्मानमशेषजगतः पतिम् ।
प्रपद्ये शरणं शुद्धं त्वद्रूपं परमेश्वर ॥ 54 ॥

बृहत्त्वाद्बृंहणत्वाच्च यद्रूपं ब्रह्मसंज्ञितम् ।
तस्मै नमस्ते सर्वात्मन्योगिचिंत्याविकारिणे ॥ 55 ॥

सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।
सर्वव्यापी भुवः स्पर्शादत्यतिष्ठद्दशांगुलम् ॥ 56 ॥

यद्भूतं यच्च वै भव्यं पुरुषोत्तम तद्भवान् ।
त्वत्तो विराट् स्वराट् सम्राट् त्वत्तश्चाप्यधिपूरुषः ॥ 57 ॥

अत्यरिच्यत सोऽधश्च तिर्यगूर्ध्वं च वै भुवः ।
त्वत्तो विश्वमिदं जातं त्वत्तो भूतभविष्यती ॥ 58 ॥

त्वद्रूपधारिणश्चांतः सर्वभूतमिदं जगत् ।
त्वत्तो यज्ञः सर्वहुतः पृषदाज्यं पशुर्द्विधा ॥ 59 ॥

त्वत्त ऋचोऽथ सामानि त्वत्तश्छंदांसि जज्ञिरे ।
त्वत्तो यजूंष्यजायंत त्वत्तोऽश्वाश्चैकतो दतः ॥ 60 ॥

गावस्त्वत्तः समुद्भूतास्त्वत्तोऽजा अवयो मृगाः ।
त्वन्मुखाद्ब्राह्मणास्त्वत्तो बाहोः क्षत्रमजायत ॥ 61 ॥

वैश्यास्तवोरुजाः शूद्रास्तव पद्भ्यां समुद्गताः ।
अक्ष्णोः सूर्योऽनिलः प्राणाच्चंद्रमा मनसस्तव ॥ 62 ॥

प्राणोऽंतःसुषिराज्जातो मुखादग्निरजायत ।
नाभितो गगनं द्यौश्च शिरसः समवर्तत ॥ 63 ॥

दिशः श्रोत्रात्क्षितिः पद्भ्यां त्वत्तः सर्वमभूदिदम् ॥ 64 ॥

न्यग्रोधः सुमहानल्पे यथा बीजे व्यवस्थितः ।
संयमे विश्वमखिलं बीजभूते तथा त्वयि ॥ 65 ॥

बीजादंकुरसंभूतो न्यग्रोधः स समुच्छ्रितः ।
विस्तारं च यथा याति त्वत्तः सृष्टौ तथा जगत् ॥ 66 ॥

यथा हि कदली नान्या त्वक्पत्रादपि दृश्यते ।
एवं विश्वस्य नान्यस्त्वं त्वत्स्थायीश्वर दृश्यते ॥ 67 ॥

ह्लादिनी संधिनी संवित्त्वय्येका सर्वसंस्थितौ ।
ह्लादतापकरी मिश्रा त्वयि नो गुणवर्जिते ॥ 68 ॥

पृथग्भूतैकभूताय भूतभूताय ते नमः ।
प्रभूतभूतभूताय तुभ्यं भूतात्मने नमः ॥ 69 ॥

व्यक्तं प्रधानपुरुषौ विराट् सम्राट् स्वराट् तथा ।
विभाव्यतेऽंतःकरणे पुरुषेष्वक्षयो भवान् ॥ 70 ॥

सर्वस्मिन् सर्वभूतस्त्वं सर्वः सर्वस्वरूपधृक् ।
सर्वं त्वत्तस्ततश्च त्वं नमः सर्वात्मनेऽस्तु ते ॥ 71 ॥

सर्वात्मकोऽसि सर्वेश सर्वभूतस्थितो यतः ।
कथयामि ततः किं ते सर्वं वेत्सि हृदि स्थितम् ॥ 72 ॥

सर्वात्मन्सर्वभूतेश सर्वसत्त्वसमुद्भव ।
सर्वभूतो भवान्वेत्ति सर्वसत्त्वमनोरथम् ॥ 73 ॥

यो मे मनोरथो नाथ सफलः स त्वया कृतः ।
तपश्च तप्तं सफलं यद्दृष्टोऽसि जगत्पते ॥ 74 ॥




Browse Related Categories: