View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This stotram is in सरल देवनागरी(हिंन्दी). View this in शुद्ध देवनागरी (Samskritam), with appropriate anuswaras marked.

भर्तृहरेः शतक त्रिशति - शृंगार शतकम्

शंभुस्वयंभुहरयो हरिणेक्षणानां
येनाक्रियंत सततं गृहकुंभदासाः |
वाचां अगोचरचरित्रविचित्रिताय
तस्मै नमो भगवते मकरध्वजाय ‖ 2।1 ‖

स्मितेन भावेन च लज्जया भिया
पराण्मुखैरर्धकटाक्षवीक्षणैः |
वचोभिरीर्ष्याकलहेन लीलया
समस्तभावैः खलु बंधनं स्त्रियः ‖ 2।2 ‖

भ्रूचातुर्यात्कुष्चिताक्षाः कटाक्षाः
स्निग्धा वाचो लज्जितांताश्च हासाः |
लीलामंदं प्रस्थितं च स्थितं च
स्त्रीणां एतद्भूषणं चायुधं च ‖ 2।3 ‖

क्वचित्सभ्रूभंगैः क्वचिदपि च लज्जापरिगतैः
क्वचिद्भूरित्रस्तैः क्वचिदपि च लीलाविललितैः |
कुमारीणां एतैर्मदनसुभगैर्नेत्रवलितैः
स्फुरन्नीलाब्जानां प्रकरपरिकीर्णा इव दिशः ‖ 2।4 ‖

वक्त्रं चंद्रविकासि पंकजपरीहासक्षमे लोचने
वर्णः स्वर्णं अपाकरिष्णुरलिनीजिष्णुः कचानां चयः |
बक्षोजाविभकुंभविभ्रमहरौ गुर्वी नितंबस्थली
वाचां हारि च मार्दवं युवतीषु स्वाभाविकं मंडनं ‖ 2।5 ‖

स्मितकिंचिन्मुग्धं सरलतरलो दृष्टिविभवः
परिस्पंदो वाचां अभिनवविलासोक्तिसरसः |
गतानां आरंभः किसलयितलीलापरिकरः
स्पृशंत्यास्तारुण्यं किं इव न हि रम्यं मृगदृशः ‖ 2।6 ‖

द्रष्टव्येषु किं उत्तमं मृगदृशः प्रेमप्रसन्नं मुखं
घ्रातवेष्वपि किं तद्^^आस्यपवनः श्रव्येषु किं तद्वचः |
किं स्वाद्येषु तद्^^ओष्ठपल्लवरसः स्पृश्येषु किं तद्वपुर्ध्येयं
किं नवयौवने सहृदयैः सर्वत्र तद्विभ्रमाः ‖ 2।7 ‖

एताश्चलद्वलयसंहतिमेखलोत्थझंकार
नूपुरपराजितराजहंस्यः |
कुर्वंति कस्य न मनो विवशं तरुण्यो
वित्रस्तमुग्धहरिणीसदृशैः कटाक्षैः ‖ 2।8 ‖

कुंकुमपंककलंकितदेहा
गौरपयोधरकंपितहारा |
नूपुरहंसरणत्पद्मा
कं न वशीकुरुते भुवि रामा ‖ 2।9 ‖

नूनं हि ते कविवरा विपरीतवाचो
ये नित्यं आहुरबला इति कामिनीस्ताः |
याभिर्विलोलितरतारकदृष्टिपातैः
शक्रादयोऽपि विजितास्त्वबलाः कथं ताः ‖ 2।10 ‖

नूनं आज्ञाकरस्तस्याः सुभ्रुवो मकरध्वजः |
यतस्तन्नेत्रसंचारसूचितेषु प्रवर्तते ‖ 2।11 ‖

केशाः संयमिनः श्रुतेरपि परं पारं गते लोचने
अंतर्वक्त्रं अपि स्वभावशुचिभीः कीर्णं द्विजानां गणैः |
मुक्तानां सतताधिवासरुचिरौ वक्षोजकुंभाविमावित्थं
तन्वि वपुः प्रशांतं अपि तेरागं करोत्येव नः ‖ 2।12 ‖

मुग्धे धानुष्कता केयं अपूर्वा त्वयि दृश्यते |
यया विध्यसि चेतांसि गुणैरेव न सायकैः ‖ 2।13 ‖

सति प्रदीपे सत्यग्नौ सत्सु तारारवींदुषु |
विना मे मृगशावाक्ष्या तमोभूतं इदं जगथ् ‖ 2।14 ‖

उद्वृत्तः स्तनभार एष तरले नेत्रे चले भ्रूलते
रागाधिष्ठितं ओष्ठपल्लवं इदं कुर्वंतु नाम व्यथां |
सौभाग्याक्षरमालिकेव लिखिता पुष्पायुधेन स्वयं
मध्यस्थापि करोति तापं अधिकं रोउम्^^आवलिः केन सा ‖ 2।15 ‖

मुखेन चंद्रकांतेन महानीलैः शिरोरुहैः |
कराभ्यां पद्मरागाभ्यां रेजे रत्नमयीव सा ‖ 2।16 ‖

गुरुणा स्तनभारेण मुखचंद्रेण भास्वता |
शनैश्चराभ्यां पादाभ्यां रेजे ग्रहमयीव सा ‖ 2।17 ‖

तस्याः स्तनौ यदि घनौ जघनं च हारि
वक्त्रं च चारु तव चित्त किं आकुलत्वं |
पुण्यं कुरुष्व यदि तेषु तवास्ति वांछा
पुण्यैर्विना न हि भवंति समीहितार्थाः ‖ 2।18 ‖

इमे तारुण्यश्रीनवपरिमलाः प्रौढसुरतप्रताप
प्रारंभाः स्मरविजयदानप्रतिभुवः |
चिरं चेतश्चोरा अभिनवविकारैकगुरवो
विलासव्यापाराः किं अपि विजयंते मृगदृशां ‖ 2।19 ‖

प्रणयमधुराः प्रेमोद्गारा रसाश्रयतां गताः
फणितिमधुरा मुग्धप्रायाः प्रकाशितसम्मदाः |
प्रकृतिसुभगा विस्रंभार्द्राः स्मरोदयदायिनी
रहसि किं अपि स्वैरालापा हरंति मृगीदृशां ‖ 2।20 ‖

विश्रम्य विश्रम्य वनद्रुमाणां
छायासु तन्वी विचचार काचित् |
स्तनोत्तरीयेण करोद्धृतेन
निवारयंती शशिनो मयूखान् ‖ 2।21 ‖

अदर्शने दर्शनमात्रकामा
दृष्ट्वा परिष्वंगसुखैकलोला |
आलिंगितायां पुनरायताक्ष्यामाशास्महे
विग्रहयोरभेदं ‖ 2।22 ‖

मालती शिरसि जृंभणं मुखे
चंदनं वपुषि कुंकुमाविलं |
वक्षसि प्रियतमा मदालसा
स्वर्ग एष परिशिष्ट आगमः ‖ 2।23 ‖

प्राङ्मां एति मनागनागतरसं जाताभिलाषां ततः
सव्रीडं तदनु श्लथोद्यमं अथ प्रध्वस्तधैर्यं पुनः |
प्रेमार्द्रं स्पृहणीयनिर्भररहः क्रीडाप्रगल्भं ततो
निःसंगांगविकर्षणाधिकसुखरम्यं कुलस्त्रीरतं ‖ 2।24 ‖

उरसि निपतितानां स्रस्तधम्मिल्लकानां
मुकुलितनयनानां किंचिद्^^उन्मीलितानां |
उपरि सुरतखेदस्विन्नगंडस्थलानामधर
मधु वधूनां भाग्यवंतः पिबंति ‖ 2।25 ‖

आमीलितनयनानां यः
सुरतरसोऽनु संविदं भाति |
मिथुरैर्मिथोऽवधारितमवितथम्
इदं एव कामनिर्बर्हणं ‖ 2।26 ‖

इदं अनुचितं अक्रमश्च पुंसां
यदिह जरास्वपि मन्मथा विकाराः |
तदपि च न कृतं नितंबिनीनां
स्तनपतनावधि जीवितं रतं वा ‖ 2।27 ‖

राजस्तृष्णांबुराशेर्न हि जगति गतः कश्चिदेवावसानं
को वार्थोऽर्थैः प्रभूतैः स्ववपुषि गलिते यौवने सानुरागे |
गच्छामः सद्म यावद्विकसितनयनेंदीवरालोकिनीनामाक्रम्याक्रम्य
रूपं झटिति न जरया लुप्यते प्रेयसीनां ‖ 2।28 ‖

रागस्यागारं एकं नरकशतमहादुःखसंप्राप्तिहेतुर्मोहस्योत्पत्ति
बीजं जलधरपटलं ज्ञानताराधिपस्य |
कंदर्पस्यैकमित्रं प्रकटितविविधस्पष्टदोषप्रबंधं
लोकेऽस्मिन्न ह्यर्थव्रजकुलभवनयौवनादन्यदस्ति ‖ 2।29 ‖

शृंगारद्रुमनीरदे प्रसृमरक्रीडारसस्रोतसि
प्रद्युम्नप्रियबांधवे चतुरवाङ्मुक्ताफलोदन्वति |
तन्वीनेत्रचकोरपावनविधौ सौभाग्यलक्ष्मीनिधौ
धन्यः कोऽपि न विक्रियां कलयति प्राप्ते नवे यौवने ‖ 2।30 ‖

संसारेऽस्मिन्नसारे कुनृपतिभवनद्वारसेवाकलंकव्यासंग
व्यस्तधैर्यं कथं अमलधियो मानसं संविदध्युः |
यद्येताः प्रोद्यद्^^इंदुद्युतिनिचयभृतो न स्युरंभोजनेत्राः
प्रेंखत्कांचीकलापाः स्तनभरविनमन्मध्यभाजस्तरुण्यः ‖ 2।31 ‖

सिद्धाध्यासितकंदरे हरवृषस्कंधावरुग्णद्रुमे
गंगाधौतशिलातले हिमवतः स्थाने स्थिते श्रेयसि |
कः कुर्वीत शिरः प्रणाममलिनं म्लानं मनस्वी जनो
यद्वित्रस्तकुरंगशावनयना न स्युः स्मरास्त्रं स्त्रियः ‖ 2।32 ‖

संसार तव पर्यंतपदवी न दवीयसी |
अंतरा दुस्तरा न स्युर्यदि ते मदिरेक्षणां ‖ 2।33 ‖

दिश वनहरिणीभ्यो वंशकांडच्छवीनां
कवलं उपलकोटिच्छिन्नमूलं कुशानां |
शकयुवतिकपोलापांडुतांबूलवल्लीदलम्
अरुणनखाग्रैः पाटितं वा वधूभ्यः ‖ 2।34 ‖

असाराः सर्वे ते विरतिविरसाः पापविषया
जुगुप्स्यंतां यद्वा ननु सकलदोषास्पदं इति |
तथाप्येतद्भूमौ नहि परहितात्पुण्यं अधिकं
न चास्मिन्संसारे कुवलयदृशो रम्यं अपरं ‖ 2।35 ‖

एतत्कामफलो लोके यद्द्वयोरेकचित्तता |
अन्यचित्तकृते कामे शवयोरिव संगमः ‖ 2।351 ‖

मात्सर्यं उत्सार्य विचार्य कार्यमार्याः
समर्यादं इदं वदंतु |
सेव्या नितंबाः किं उ भूधराणामत
स्मरस्मेरविलासिनीनां ‖ 2।36 ‖

संसारे स्वप्नसारे परिणतितरले द्वे गती पंडितानां
तत्त्वज्ञानामृतांभःप्लवललितधियां यातु कालः कथंचित् |
नो चेन्मुग्धांगनानां स्तनजघनघनाभोगसंभोगिनीनां
स्थूलोपस्थस्थलीषु स्थगितकरतलस्पर्शलीलोद्यमानां ‖ 2।37 ‖

आवासः क्रियतां गंगे पापहारिणि वारिणि |
स्तनद्वये तरुण्या वा मनोहारिणि हारिणि ‖ 2।38 ‖

किं इह बहुभिरुक्तैर्युक्तिशून्यैः प्रलापैर्द्वयम्
इह पुरुषाणां सर्वदा सेवनीयं |
अभिनवमदलीलालालसं सुंदरीणां
स्तनभरपरिखिन्नं यौवनं वा वनं वा ‖ 2।39 ‖

सत्यं जना वच्मि न पक्षपाताल्
लोकेषु सप्तस्वपि तथ्यं एतत् |
नान्यन्मनोहारि नितंबिनीभ्यो
दुःखैकहेतुर्न च कश्चिदन्यः ‖ 2।40 ‖

कांतेत्युत्पललोचनेति विपुलश्रोणीभरेत्युन्नमत्पीनोत्तुंग
पयोधरेति समुखांभोजेति सुभ्रूरिति |
दृष्ट्वा माद्यति मोदतेऽभिरमते प्रस्तौति विद्वानपि
प्रत्यक्षाशुचिभस्त्रिकां स्त्रियं अहो मोहस्य दुश्चेष्टितं ‖ 2।41 ‖

स्मृता भवति तापाय दृष्टा चोन्मादकारिणी |
स्पृष्टा भवति मोहाय सा नाम दयिता कथं ‖ 2।42 ‖

तावदेवामृतमयी यावल्लोचनगोचरा |
चक्षुष्पथादतीता तु विषादप्यतिरिच्यते ‖ 2।43 ‖

नामृतं न विषं किंचिदेतां मुक्त्वा नितंबिनीं |
सैवामृतलता रक्ता विरक्ता विषवल्लरी ‖ 2।44 ‖

आवर्तः संशयानां अविनयभुवनं पट्टणं साहसानां
दोषाणां सन्निधानं कपटशतमयं क्षेत्रं अप्रत्ययानां |
स्वर्गद्वारस्य विघ्नो नरकपुरमुख सर्वमायाकरंडं
स्त्रीयंत्रं केन सृष्टं विषं अमृतमयं प्राणिलोकस्य पाशः ‖ 2।45 ‖

नो सत्येन मृगांक एष वदनीभूतो न चेंदीवरद्वंद्वं
लोचनतां गत न कनकैरप्यंगयष्टिः कृता |
किंत्वेवं कविभिः प्रतारितमनास्तत्त्वं विजानन्नपि
त्वङ्मांसास्थिमयं वपुर्मृगदृशां मंदो जनः सेवते ‖ 2।46 ‖

लीलावतीनां सहजा विलासास्त
एव मूढस्य हृदि स्फुरंति |
रागो नलिन्या हि निसर्गसिद्धस्तत्र
भ्रम्त्येव वृथा षड्^^अंघ्रिः ‖ 2।47 ‖

संमोहयंति मदयंति विडंबयंति
निर्भर्त्स्यंति रमयंति विषादयंति |
एताः प्रविश्य सदयं हृदयं नराणां
किं नाम वामनयना न समाचरंति ‖ 2।471 ‖

यदेतत्पूर्णेंदुद्युतिहरं उदाराकृति परं
मुखाब्जं तन्वंग्याः किल वसति यत्राधरमधु |
इदं तत्किं पाकद्रुमफलं इदानीं अतिरसव्यतीतेऽस्मिन्
काले विषं इव भविष्य्त्यसुखदं ‖ 2।48 ‖

उन्मीलत्त्रिवलीतरंगनिलया प्रोत्तुंगपीनस्तनद्वंद्वेनोद्गत
चक्रवाकयुगला वक्त्रांबुजोद्भासिनी |
कांताकारधरा नदीयं अभितः क्रूरात्र नापेक्षते
संसारार्णवमज्जनं यदि तदा दूरेण संत्यज्यतां ‖ 2।49 ‖

जल्पंति सार्धं अन्येन पश्यंत्यन्यं सविभ्रमाः |
हृद्गतं चिंतयंत्यन्यं प्रियः को नाम योषितां ‖ 2।50 ‖

मधु तिष्ठति वाचि योषितां हृदि हालाहलं एव केवलं |
अत^^एव निपीयतेऽधरो हृदयं मुष्टिभिरेव ताड्यते ‖ 2।51 ‖

अपसर सखे दूरादस्मात्कटाक्षविषानलात्
प्रकृतिविषमाद्योषित्सर्पाद्विलासफणाभृतः |
इतरफणिना दष्टः शक्यश्चिकित्सितुं औषधैश्चतुर्
वनिताभोगिग्रस्तं हि मंत्रिणः ‖ 2।52 ‖

विस्तारितं मकरकेतनधीवरेण
स्त्रीसंज्ञितं बडिशं अत्र भवांबुराशौ |
येनाचिरात्तद्^^अधरामिषलोलमर्त्य
मत्स्यान्विकृष्य विपचत्यनुरागवह्नौ ‖ 2।53 ‖

कामिनीकायकांतारे कुचपर्वतदुर्गमे |
मा संचर मनः पांथ तत्रास्ते स्मरतस्करः ‖ 2।54 ‖

व्यादीर्घेण चलेन वक्त्रगतिना तेजस्विना भोगिना
नीलाब्जद्युतिनाहिना परं अहं दृष्टो न तच्चक्षुषा |
दृष्टे संति चिकित्सका दिशि दिशि प्रायेण दर्मार्थिनो
मुग्धाक्ष्क्षणवीक्षितस्य न हि मे वैद्यो न चाप्यौषधं ‖ 2।55 ‖

इह हि मधुरगीतं नृत्यं एतद्रसोऽयं
स्फुरति परिमलोऽसौ स्पर्श एष स्तनानां |
इति हतपरमार्थैरिंद्रियैर्भ्राम्यमाणः
स्वहितकरणधूर्तैः पंचभिर्वंचितोऽस्मि ‖ 2।56 ‖

न गम्यो मंत्राणां न च भवति भैषज्यविषयो
न चापि प्रध्वंसं व्रजति विविधैः शांतिकशतैः |
भ्रमावेशादंगे कं अपि विदधद्भंगं असकृत्
स्मरापस्मारोऽयं भ्रमयति दृशं घूर्णयति च ‖ 2।57 ‖

जात्य्^^अंधाय च दुर्मुखाय च जराजीर्णा खिलांगाय च
ग्रामीणाय च दुष्कुलाय च गलत्कुष्ठाभिभूताय च |
यच्छंतीषु मनोहरं निजवपुलक्ष्मीलवश्रद्धया
पण्यस्त्रीषु विवेककल्पलतिकाशस्त्रीषु राज्येत कः ‖ 2।58 ‖

वेश्यासौ मदनज्वाला
रूपेऽंधनविवर्धिता |
कामिभिर्यत्र हूयंते
यौवनानि धनानि च ‖ 2।59 ‖

कश्चुंबति कुलपुरुषो वेश्याधरपल्लवं मनोज्ञं अपि |
चारभटचोरचेटकनटविटनिष्ठीवनशरावं ‖ 2।60 ‖

धन्यास्त एव धवलायतलोचनानां
तारुण्यदर्पघनपीनपयोधराणां |
क्षामोदरोपरि लसत्त्रिवलीलतानां
दृष्ट्वाकृतिं विकृतिं एति मनो न येषां ‖ 2।61 ‖

बाले लीलामुकुलितं अमी मंथरा दृष्टिपाताः
किं क्षिप्यंते विरमविरम व्यर्थ एष श्रमस्ते |
संप्रत्यन्ये वयं उपरतं बाल्यं आस्था वनांते
क्षीणो मोहस्तृणं इव जगज्जालं आलोकयामः ‖ 2।62 ‖

इयं बाला मां प्रत्यनवरतं इंदीवरदलप्रभा
चीरं चक्षुः क्षिपति किं अभिप्रेतं अनया |
गतो मोहोऽस्माकं स्मरशबरबाणव्यतिकरज्वर
ज्वाला शांता तदपि न वराकी विरमति ‖ 2।63 ‖

किं कंदर्प करं कदर्थयसि रे कोदंडटंकारितं
रे रे कोकिल कोउम्^^अलं कलरवं किं वा वृथा जल्पसि |
मुग्धे स्निग्धविदग्धचारुमधुरैर्लोलैः कटाक्षैरलं
चेतश्चुंबितचंद्रचूडचरणध्यानामृतं वर्तते ‖ 2।64 ‖

विरहेऽपि संगमः खलु
परस्परं संगतं मनो येषां |
हृदयं अपि विघट्टितं चेत्
संगी विरहं विशेषयति ‖ 2।65 ‖

किं गतेन यदि सा न जीवति
प्राणिति प्रियतमा तथापि किं |
इत्युदीक्ष्य नवमेघमालिकां
न प्रयाति पथिकः स्वमंदिरं ‖ 2।66 ‖

विरमत बुधा योषित्संगात्सुखात्क्षणभंगुरात्
कुरुत करुणामैत्रीप्रज्ञावधूजनसंगमं |
न खलु नरके हाराक्रांतं घनस्तनमंडलं
शरणं अथवा श्रोणीबिंबं रणन्मणिमेखलं ‖ 2।67 ‖

यदा योगाभ्यासव्यसनकृशयोरात्ममनसोरविच्छिन्ना
मैत्री स्फुरति कृतिनस्तस्य किं उ तैः |
प्रियाणां आलापैरधरमधुभिर्वक्त्रविधुभिः
सनिश्वासामोदैः सकुचकलशाश्लेषसुरतैः ‖ 2।68 ‖

यदासीदज्ञानं स्मरतिमिरसंचारजनितं
तदा दृष्टनारीमयं इदं अशेषं जगदिति |
इदानीं अस्माकं पटुतरविवेकांजनजुषां
समीभूता दृष्टिस्त्रिभुवनं अपि ब्रह्म मनुते ‖ 2।69 ‖

तावदेव कृतिनां अपि स्फुरत्येष
निर्मलविवेकदीपकः |
यावदेव न कुरंगचक्षुषां
ताड्यते चटुललोचनांचलैः ‖ 2।70 ‖

वचसि भवति संगत्यागं उद्दिश्य वार्ता
श्रुतिमुखरमुखानां केवलं पंडितानां |
जघनं अरुणरत्नग्रंथिकांचीकलापं
कुवलयनयनानां को विहातुं समर्थः ‖ 2।71 ‖

स्वपरप्रतारकोऽसौ
निंदति योऽलीकपंडितो युवतीः |
यस्मात्तपसोऽपि फलं
स्वर्गः स्वर्गेऽपि चाप्सरसः ‖ 2।72 ‖

मत्तेभकुंभदलने भुवि संति धीराः
केचित्प्रचंडमृगराजवधेऽपि दक्षाः |
किंतु ब्रवीमि बलिनां पुरतः प्रसह्य
कंदर्पदर्पदलने विरला मनुष्याः ‖ 2।73 ‖

सन्मार्गे तावदास्ते प्रभवति च नरस्तावदेवेंद्रियाणां
लज्जां तावद्विधत्ते विनयं अपि समालंबते तावदेव |
भ्रूचापाकृष्टमुक्ताः श्रवणपथगता नीलपक्ष्माण एते
यावल्लीलावतीनां हृदि न धृतिमुषो दृष्टिबाणाः पतंति ‖ 2।74 ‖

उन्मत्तप्रेमसंरंभाद्
आरभंते यद्^^अंगनाः |
तत्र प्रत्यूहं आधातुं
ब्रह्मापि खलु कातरः ‖ 2।75 ‖

तावन्महत्त्वं पांडित्यं
कुलीनत्वं विवेकिता |
यावज्ज्वलति नांगेषु
हतः पंचेषुपावकः ‖ 2।76 ‖

शास्त्रज्ञोऽपि प्रगुणितनयोऽत्यांतबाधापि बाढं
संसारेऽस्मिन्भवति विरलो भाजनं सद्गतीनां |
येनैतस्मिन्निरयनगरद्वारं उद्घाटयंती
वामाक्षीणां भवति कुटिला भ्रूलता कुंचिकेव ‖ 2।77 ‖

कृशः काणः खंजः श्रवणरहितः पुच्छविकलो
व्रणी पूयक्लिन्नः कृमिकुलशतैरावृततनुः |
क्षुधा क्षामो जीर्णः पिठरककपालार्पितगलः
शुनीं अन्वेति श्वा हतं अपि च हंत्येव मदनः ‖ 2।78 ‖

स्त्रीमुद्रां कुसुमायुधस्य जयिनीं सर्वार्थसंपत्करीं
ये मूढाः प्रविहाय यांति कुधियो मिथ्याफलान्वेषिणः |
ते तेनैव निहत्य निर्दयतरं नग्नीकृता मुंडिताः
केचित्पंचशिखीकृताश्च जटिलाः कापालिकाश्चापरे ‖ 2।79 ‖

विश्वामित्रपराशरप्रभृतयो वातांबुपर्णाशनास्तेऽपि
स्त्रीमुखपंकजं सुललितं दृष्ट्वैव मोहं गताः |
शाल्यन्नं सघृतं पयोदधियुतं ये भुंजते मानवास्तेषाम्
इंद्रियनिग्रहो यदि भवेद्विंध्यः प्लवेत्सागरे ‖ 2।80 ‖

परिमलभृतो वाताः शाखा नवांकुरकोटयो
मधुरविधुरोत्कंठाभाजः प्रिया पिकपक्षिणां |
विरलविरसस्वेदोद्गारा वधूवदनेंदवः
प्रसरति मधौ धात्र्यां जातो न कस्य गुणोदयः ‖ 2।81 ‖

मधुरयं मधुरैरपि कोकिला
कलरवैर्मलयस्य च वायुभिः |
विरहिणः प्रहिणस्ति शरीरिणो
विपदि हंत सुधापि विषायते ‖ 2।82 ‖

आवासः किलकिंचितस्य दयितापार्श्वे विलासालसाः
कर्णे कोकिलकामिनीकलरवः स्मेरो लतामंडपः |
गोष्ठी सत्कविभिः समं कतिपयैर्मुग्धाः सुधांशोः कराः
केषांचित्सुखयंति चात्र हृदयं चैत्रे विचित्राः क्षपाः ‖ 2।83 ‖

पांथ स्त्रीविरहानलाहुतिकलां आतन्वती मंजरीमाकंदेषु
पिकांगनाभिरधुना सोत्कंठं आलोक्यते |
अप्येते नवपाटलापरिमलप्राग्भारपाटच्चरा
वांतिक्लांतिवितानतानवकृतः श्रीखंडशैलानिलाः ‖ 2।84 ‖

प्रथितः प्रणयवतीनां
तावत्पदं आतनोतु हृदि मानः |
भवति न यावच्चंदनतरु
सुरभिर्मलयपवमानः ‖ 2।85 ‖

सहकारकुसुमकेसरनिकर
भरामोदमूर्च्छितदिग्^^अंते |
मधुरमधुरविधुरमधुपे
मधौ भवेत्कस्य नोत्कंठा ‖ 2।86 ‖

अच्छाच्छचंदनरसार्द्रतरा मृगाक्ष्यो
धारागृहाणि कुसुमानि च कोउम्^^उदी च |
मंदो मरुत्सुमनसः शुचि हर्म्यपृष्ठं
ग्रीष्मे मदं च मदनं च विवर्धयंति ‖ 2।87 ‖

स्रजो हृद्यामोदा व्यजनपवनश्चंद्रकिरणाः
परागः कासारो मलयजरजः शीधु विशदं |
शुचिः सौधोत्संगः प्रतनु वसनं पंकजदृशो
निदाघर्तावेतद्विलसति लभंते सुकृतिनः ‖ 2।88 ‖

सुधाशुभ्रं धाम स्फुरद्^^अमलरश्मिः शशधरः
प्रियावक्त्रांभोजं मलयजरजश्चातिसुरभिः |
स्रजो हृद्यामोदास्तदिदं अखिलं रागिणि जने
करोत्यंतः क्षोभं न तु विषयसंसर्गविमुखे ‖ 2।89 ‖

तरुणीवेषोद्दीपितकामा
विकसज्जातीपुष्पसुगंधिः |
उन्नतपीनपयोधरभारा
प्रावृट्तनुते कस्य न हर्षं ‖ 2।90 ‖

वियद्^^उपचितमेघं भूमयः कंदलिन्यो
नवकुटजकदंबामोदिनो गंधवाहाः |
शिखिकुलकलकेकारावरम्या वनांताः
सुखिनं असुखिनं वा सर्वं उत्कंठयंति ‖ 2।91 ‖

उपरि घनं घनपटलं
तिर्यग्गिरयोऽपि नर्तितमयूराः |
क्षितिरपि कंदलधवला
दृष्टिं पथिकः क्व पातयति ‖ 2।92 ‖

इतो विद्युद्वल्लीविलसितं इतः केतकितरोः
स्फुरन्गंधः प्रोद्यज्जलदनिनदस्फूर्जितं इतः |
इतः केकिक्रीडाकलकलरवः पक्ष्मलदृशां
कथं यास्यंत्येते विरहदिवसाः संभृतरसाः ‖ 2।93 ‖

असूचिसंचारे तमसि नभसि प्रौढजलदध्वनि
प्राज्ञंमन्ये पतति पृषतानां च निचये |
इदं सौदामिन्याः कनककमनीयं विलसितं
मुदं च म्लानिं च प्रथयति पथि स्वैरसुदृशां ‖ 2।94 ‖

आसारेण न हर्म्यतः प्रियतमैर्यातुं बहिः शक्यते
शीतोत्कंपनिमित्तं आयतदृशा गाढं समालिंग्यते |
जाताः शीकरशीतलाश्च मरुतोरत्यंतखेदच्छिदो
धन्यानां बत दुर्दिनं सुदिनतां याति प्रियासंगमे ‖ 2।95 ‖

अर्धं सुप्त्वा निशायाः सरभससुरतायाससन्नश्लथांगप्रोद्भूतासह्य
तृष्णो मधुमदनिरतो हर्म्यपृष्ठे विविक्ते |
संभोगक्लांतकांताशिथिलभुजलतावर्जितं कर्करीतो
ज्योत्स्नाभिन्नाच्छधारं पिबति न सलिलं शारदं मंदपुण्यः ‖ 2।96 ‖

हेमंते दधिदुग्धसर्पिरशना मांजिष्ठवासोभृतः
काश्मीरद्रवसांद्रदिग्धवपुषश्छिन्ना विचित्रै रतैः |
वृत्तोरुस्तनकामिनोजनकृताश्लेषा गृहाभ्यंतरे
तांबूलीदलपूगपूरितमुखा धन्याः सुखं शेरते ‖ 2।97 ‖

प्रदुयत्प्रौढप्रियंगुद्युतिभृति विकसत्कुंदमाद्यद्द्विरेफे
काले प्रालेयवातप्रचलविलसितोदारमंदारधाम्नि |
येषां नो कंठलग्ना क्षणं अपि तुहिनक्षोददक्षा मृगाक्षी
तेसां आयामयामा यमसदनसमा यामिनी याति यूनां ‖ 2।98 ‖

चुंबंतो गंडभित्तीरलकवति मुखे सीत्कृतान्यादधाना
वक्षःसूत्कंचुकेषु स्तनभरपुलकोद्भेदं आपादयंतः |
ऊरूनाकंपयंतः पृथुजघनतटात्स्रंसयंतोऽंशुकानि
व्यक्तं कांताजनानां विटचरितभृतः शैशिरा वांति वाताः ‖ 2।99 ‖

केशानाकुलयंदृशो मुकुलयन्वासो बलादाक्षिपन्नातन्वन्
पुलकोद्गमं प्रकटयन्नावेगकंपं शनैः |
बारं बारं उदारसीत्कृतकृतो दंतच्छदान्पीडयन्
प्रायः शैशिर एष संप्रति मरुत्कांतासु कांतायते ‖ 2।100 ‖

यद्यस्य नास्ति रुचिरं तस्मिंस्तस्य स्पृहा मनोज्ञेऽपि |
रमणीयेऽपि सुधांशौ न मनःकामः सरोजिन्याः ‖ 2।101 ‖

वैराग्ये संचरत्येको नीतौ भ्रमति चापरः |
शृंगारे रमते कश्चिद्भुवि भेदाः परस्परं ‖ 2।102 ‖

इति शुभं भूयात् |

शृंगारशतकम्
भर्तृहरेः