View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

सर्प स्तोत्रम्

ब्रह्मलोके च ये सर्पाः शेषनाग पुरोगमाः ।
नमोऽस्तु तेभ्यः सुप्रीताः प्रसन्नाः संतु मे सदा ॥ 1 ॥

विष्णुलोके च ये सर्पाः वासुकि प्रमुखाश्च ये ।
नमोऽस्तु तेभ्यः सुप्रीताः प्रसन्नाः संतु मे सदा ॥ 2 ॥

रुद्रलोके च ये सर्पास्तक्षक प्रमुखास्तथा ।
नमोऽस्तु तेभ्यः सुप्रीताः प्रसन्नाः संतु मे सदा ॥ 3 ॥

खांडवस्य तथा दाहे स्वर्गं ये च समाश्रिताः ।
नमोऽस्तु तेभ्यः सुप्रीताः प्रसन्नाः संतु मे सदा ॥ 4 ॥

सर्पसत्रे च ये सर्पाः आस्तीकेन च रक्षिताः ।
नमोऽस्तु तेभ्यः सुप्रीताः प्रसन्नाः संतु मे सदा ॥ 5 ॥

मलये चैव ये सर्पाः कार्कोटप्रमुखाश्च ये । [प्रलये]
नमोऽस्तु तेभ्यः सुप्रीताः प्रसन्नाः संतु मे सदा ॥ 6 ॥

धर्मलोके च ये सर्पाः वैतरण्यां समाश्रिताः ।
नमोऽस्तु तेभ्यः सुप्रीताः प्रसन्नाः संतु मे सदा ॥ 7 ॥

समुद्रे चैव ये सर्पाः पाताले चैव संस्थिताः ।
नमोऽस्तु तेभ्यः सुप्रीताः प्रसन्नाः संतु मे सदा ॥ 8 ॥

ये सर्पाः पर्वताग्रेषु दरीसंधिषु संस्थिताः ।
नमोऽस्तु तेभ्यः सुप्रीताः प्रसन्नाः संतु मे सदा ॥ 9 ॥

ग्रामे वा यदि वारण्ये ये सर्पाः प्रचरंति हि ।
नमोऽस्तु तेभ्यः सुप्रीताः प्रसन्नाः संतु मे सदा ॥ 10 ॥

पृथिव्यां चैव ये सर्पाः ये सर्पाः बिलसंस्थिताः ।
नमोऽस्तु तेभ्यः सुप्रीताः प्रसन्नाः संतु मे सदा ॥ 11 ॥

रसातले च ये सर्पाः अनंताद्याः महाविषाः ।
नमोऽस्तु तेभ्यः सुप्रीताः प्रसन्नाः संतु मे सदा ॥ 12 ॥

इति सर्प स्तोत्रम् ।




Browse Related Categories: