View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

चाणक्य नीति - तृतीयोऽध्यायः

कस्य दोषः कुले नास्ति व्याधिना को न पीडितः ।
व्यसनं केन न प्राप्तं कस्य सौख्यं निरंतरम् ॥ 01 ॥

आचारः कुलमाख्याति देशमाख्याति भाषणम् ।
संभ्रमः स्नेहमाख्याति वपुराख्याति भोजनम् ॥ 02 ॥

सुकुले योजयेत्कन्यां पुत्रं विद्यासु योजयेत् ।
व्यसने योजयेच्छत्रुं मित्रं धर्मेण योजयेत् ॥ 03 ॥

दुर्जनस्य च सर्पस्य वरं सर्पो न दुर्जनः ।
सर्पो दंशति काले तु दुर्जनस्तु पदे पदे ॥ 04 ॥

एतदर्थे कुलीनानां नृपाः कुर्वंति संग्रहम् ।
आदिमध्यावसानेषु न ते गच्छंति विक्रियाम् ॥ 05 ॥

प्रलये भिन्नमर्यादा भवंति किल सागराः ।
सागरा भेदमिच्छंति प्रलयेऽपि न साधवः ॥ 06 ॥

मूर्खस्तु प्रहर्तव्यः प्रत्यक्षो द्विपदः पशुः ।
भिद्यते वाक्य-शल्येन अदृशं कंटकं यथा ॥ 07 ॥

रूपयौवनसंपन्ना विशालकुलसंभवाः ।
विद्याहीना न शोभंते निर्गंधाः किंशुका यथा ॥ 08 ॥

कोकिलानां स्वरो रूपं स्त्रीणां रूपं पतिव्रतम् ।
विद्या रूपं कुरूपाणां क्षमा रूपं तपस्विनाम् ॥ 09 ॥

त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् ।
ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥ 10 ॥

उद्योगे नास्ति दारिद्र्यं जपतो नास्ति पातकम् ।
मौनेन कलहो नास्ति नास्ति जागरिते भयम् ॥ 11 ॥

अतिरूपेण वा सीता अतिगर्वेण रावणः ।
अतिदानाद्बलिर्बद्धो ह्यतिसर्वत्र वर्जयेत् ॥ 12 ॥

को हि भारः समर्थानां किं दूरं व्यवसायिनाम् ।
को विदेशः सुविद्यानां कः परः प्रियवादिनाम् ॥ 13 ॥

एकेनापि सुवृक्षेण पुष्पितेन सुगंधिना ।
वासितं तद्वनं सर्वं सुपुत्रेण कुलं यथा ॥ 14 ॥

एकेन शुष्कवृक्षेण दह्यमानेन वह्निना ।
दह्यते तद्वनं सर्वं कुपुत्रेण कुलं यथा ॥ 15 ॥

एकेनापि सुपुत्रेण विद्यायुक्तेन साधुना ।
आह्लादितं कुलं सर्वं यथा चंद्रेण शर्वरी ॥ 16 ॥

किं जातैर्बहुभिः पुत्रैः शोकसंतापकारकैः ।
वरमेकः कुलालंबी यत्र विश्राम्यते कुलम् ॥ 17 ॥

लालयेत्पंचवर्षाणि दशवर्षाणि ताडयेत् ।
प्राप्ते तु षोडशे वर्षे पुत्रे मित्रवदाचरेत् ॥ 18 ॥

उपसर्गेऽन्यचक्रे च दुर्भिक्षे च भयावहे ।
असाधुजनसंपर्के यः पलायेत्स जीवति ॥ 19 ॥

धर्मार्थकाममोक्षाणां यस्यैकोऽपि न विद्यते ।
अजागलस्तनस्येव तस्य जन्म निरर्थकम् ॥ 20 ॥

मूर्खा यत्र न पूज्यंते धान्यं यत्र सुसंचितम् ।
दांपत्ये कलहो नास्ति तत्र श्रीः स्वयमागता ॥ 21 ॥




Browse Related Categories: