View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Marathi language.

श्री हयग्रीव सहस्र नाम स्तोत्रम्

॥ श्रीः ॥
शुक्लांबरधरं विष्णुं शशिवर्णं चतुर्भुजं
प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशांतये ।
यस्य द्विरदवक्राद्याः पारिषद्याः परश्शतं
विघ्नं निघ्नंति सततं विष्वक्सेनं तमाश्रये . ।

श्रीकाश्यपः ।
तात मे श्रीहयग्रीवनाम्नां साहस्रमुत्तमम् ।
अध्येतुं जायते कांक्षा तत्प्रसीद मयि प्रभो ॥ 1 ॥
इतिपृष्टस्ततोवाच ब्रह्मा लोक पितामहः ।
श्रेयसामपि च श्रेयः काश्यपेह विशांपते ॥ 2 ॥
अमत्या विहितं पापं मूलतो हि विनश्यति ।
रहस्यानां रहस्यं च पावनानां च पावनम् ॥ 3 ॥
प्रायश्चित्ते कृते तस्य कर्तान निरयी भवेत् ।
कामतस्तु कृते पापे प्रायश्चित्तशतेन च ॥ 4 ॥
तन्न नश्यति तत्कर्ता व्यवहार्यस्तु जायते ।
एवं दुरपनोदानां बुद्धिपूर्वमहांहसाम् ॥ 5 ॥
आवर्जनकराणामप्यंते निष्कृतिरीरिता ।
प्रणम्य मानवतया मंत्ररत्नानुकीर्तनम् ॥ 6 ॥
हंसनामसहस्रस्यपठनं शिरसान्वहम् ।
प्रणम्य भगवद्भक्तपादोदक निषेवणम् ॥ 7 ॥
तदेतत्त्त्रितयं सर्वपापसंघातनाशनम् ।
इतीदं परमं गुह्यं हंसो हयशिराहरिः ॥ 8 ॥
वेदोपदेशसमये मां निबोध्योपदिष्टवान ।
अनेन मंत्ररत्नेन महाश्वशिरसो हरेः ॥ 9 ॥
सहस्रनामभिस्तुल्या निष्कृतिर्नेतरांहसाम् ।
अनन्यभगवद्भक्तपादोदकनिषेवणम् ॥ 10 ॥
एतद्द्वयोपदेशांगमादौ स्वीकार्यमिष्यते ।
इत्युक्त्वाऽनंतगरुडविष्वक्सेनपदोदकम् ॥ 11 ॥
आदौ मां प्राशयन्नंते परिशोष्येकृतांहसि ।
आत्मनो नामसाहस्रं सर्षिच्छंदोऽधिदैवतम् ॥ 12 ॥
सन्यासमुद्रिकाभेदं मह्यं सांगमुपादिशत् ।
यथावत्तदिदं वत्स दद्यां ते शृणु तत्त्वतः ॥ 13 ॥
यत्प्राप्यात्यंतिकी वृत्त्या निवृत्त्या मोक्षमेष्यति ।
हयास्यनामसाहस्रस्तोत्रराजस्य वैभवम् ॥ 14 ॥
ऋषिश्श्रीमान् हयग्रीवो विद्यामूर्तिस्स्वयं हरिः ।
देवता च स एवास्य छंदोनुष्टुबिति श्रुतम् ॥ 15 ॥
हंसो हंसोऽहमित्येते बीजं शक्तिस्तुकीलकम् ।
हंसीं हंसोऽहमित्येते प्राज्ञप्या मनवस्त्रयः ॥ 16 ॥
एकैकस्य दशावृत्तिरितिसंख्याविधीयते ।
प्रणवत्रयमंत्रं स्यात्कवचं श्रीश्श्रियो भवेत् ॥ 17 ॥
श्रीविभूषण इत्येतद्धृदयं परिकीर्तितम् ।
परोरजाः परं ब्रह्मेत्यपि योनिरुदाहृता ॥ 18 ॥
विद्यामूर्तिरिति ध्यानं विश्वात्मेति च गद्यते ।
विश्वमंगलनाम्नोऽस्य विनियोगो यथारुचि ॥ 19 ॥
भ्रूनेत्राश्रोत्रनासाहन्वोष्ठतालूरदे क्रमात् ।
षोडशस्वरविन्यासो दक्षिणारंभमिष्यते ॥ 20 ॥
जिह्वातलेऽपि तन्मूले स्वरावंत्यौ च विन्यसेत् ।
तदा तालुद्वयन्याससखायोस्तु परित्यजेत् ॥ 21 ॥
अयं हि विद्याकामानामाद्यस्त्वन्य फलैषिणाम् ।
दोःपत्सक्थ्यंगुलीशीर्षे वर्गान्कचटतान्न्यसेत् ॥ 22 ॥
पार्श्वयोस्तु वफौ पृष्टोदरयोस्तु बभौ न्यसेत् ।
मकारं हृदये न्यस्य जीवे वा पंचविंशके ॥ 23 ॥
नाभिपायूदरे गुह्ये यरलवान्विनिक्षिपेत् ।
शषौ कुंडलयोश्शीर्षं हारे च कटिसूत्रके ॥ 24 ॥
सहौ हृदब्जे हर्दे च लमापादशिखे न्यसेत् ।
क्षंच शीर्षादि पादांतं मातृकान्यास एष तु ॥ 25 ॥

अस्य श्रीहयग्रीवसहस्रनाम स्तोत्रमहामंत्रस्य श्रीहयग्रीव ऋषिः ।
अनुष्टुप् छंदः . श्रीहयग्रीव परमात्मा देवता . हंस इति बीजम् ।
हंसोहमिति शक्तिः . हंसां हंसीमिति कीलकम् . ॐ ॐ ओमित्यस्त्रम् ।
श्रीः श्रियः इति कवचम् . श्रीविभूषण इति हृदयम् ।
परोरजाः परं ब्रह्मेति योनिः . विद्यामूर्तिर्विश्वात्मा इति ध्यानम् ।

हंसामंगुष्ठाभ्यां नमः . हंसीं तर्जनीभ्यां नमः ।
हंसूं मध्यमाभ्यां नमः . हंसों अनामिकाभ्यां नमः ।
हंसौं कनिष्ठिकाभ्यां नमः . हंसः करतलकरपृष्ठाभ्यां नमः ।
एवं हृदयादिन्यासः . ।

हंसां ज्ञानाय हृदयाय नमः . हंसीं ऐश्वर्याय शिरसे स्वाहा ।
हंसूं शक्तयै शिखायै वषट् . हंसों बलाय कवचाय हुम् ।
हंसौं तेजसे नेत्राभ्यां वौषट् ।
हंसः वीर्यायास्त्राय फट् ओमिति दिग्बंधः . ।

अथ मातृकान्यासः ।
ॐ अं आं भ्रुवोः . इं ईं नेत्रयोः . उं ऊं श्रोत्रयोः . ऋं ॠं नासिकयोः ।
लृं लॄं कपोलयोः . एं ऐं ओष्ठयोः . ॐ ॐ दंतपंक्त्योः ।
अं जिह्वातले . अः जिह्वामूले ।
कवर्गं दक्षिणे बाहूमूले कूर्परे मणिबंधे करतले हस्ताग्रे ।
चवर्गं वामे बाहूमूले कूर्परे मणिबंधे करतले हस्ताग्रे ।
टवर्गं दक्षिणे पादमूले जानुनि पादपार्ष्णौ पादतले पादाग्रे ।
तवर्गं वामे पादमूले जानुनि पादपार्ष्णौ पादतले पादाग्रे ।
पफौ पार्श्वयोः . बभौ पृष्ठोदरयोः . मं हृदि ।
यं रं लं वं नाभौ पायौ उदरे गुह्ये . शषौ हस्तयोः ।
सहौ शीर्षे कट्याम् . लक्षौ हृदब्जे हार्दे उति मातृकान्यासः . ।

अथ ध्यानम् . ।
विद्यामूर्तिमखंडचंद्रवलयश्वेतारविंदस्थितं
हृद्याभं स्फटिकाद्रिनिर्मलतनुं विद्योतमानंश्रिया ।
वामांकस्थितवल्लभां प्रति सदाव्याख्यांतमाम्नायवा-
गर्थानादिमपूरुषं हयमुखं ध्यायामि हंसात्मकम् ॥ 1 ॥
विश्वात्मा विशदप्रभाप्रतिलसद्वाग्देवतामंडलो
देवो दक्षिणपाणियुग्मविलसद्बोधांकचक्रायुधः ।
वामोदग्रकरे दरं तदितरेणाश्लिष्य दोष्णा रमां
हस्ताग्रे धृतपुस्तकस्स दयतां हंसो हिरण्यच्छदः ॥ 2 ॥

अथ सहस्रनामस्तोत्रप्रारंभः ।
ॐ - श्रीं हंसो हमै मों क्लीं श्रीश्श्रियश्श्रीविभूषणः ।
परोरजाः परं ब्रह्म भूर्भुवस्सुवरादिमः ॥ 1 ॥
भास्वान्भगश्च भगवान्स्वस्तिस्वाहा नमस्स्वधा ।
श्रौषड्वौषढलं हुं फट् हुं ह्रीं क्रों ह्लौं यथा तथा ॥ 2 ॥
कर्कग्रीवः कलानाथः कामदः करुणाकरः ।
कमलाध्युषितोत्संगः क्षये कालीवशानुगः ॥ 3 ॥
निषच्छोपनिषच्चाथ नीचैरुच्चैस्समं सह ।
शश्वद्युगपदह्वाय शनैरेको बहुध्रुवः ॥ 4 ॥
भूतभृद्भूरिदस्साक्षी भूतादिः पुण्यकीर्तनः ।
भूमा भूमिरधोन्नद्धः पुरुहूतः पुरुष्टुतः ॥ 5 ॥
प्रफुल्लपुंडरीकाक्षः परमेष्ठी प्रभावनः ।
प्रभुर्भगःसतां बंधुर्भयध्वंसी भवापनः ॥ 6 ॥
उद्यन्नुरुशयाहुं कृदुरुगाय उरुक्रमः ।
उदारस्त्रियुगस्त्र्यात्मा निदानं नलयो हरिः ॥ 7 ॥
हिरण्यगर्भो हेमांगो हिरण्यश्मश्रुरीशिता ।
हिरण्यकेशो हिमहा हेमवासा हितैषणः ॥ 8 ॥
आदित्यमंडलांतस्थो मोदमानस्समूहनः ।
सर्वात्मा जगदाधारस्सन्निधिस्सारवान्स्वभूः ॥ 9 ॥
गोपतिर्गोहितो गोमी केशवः किन्नरेश्वरः ।
मायी मायाविकृतिकृन्महेशानो महामहाः ॥ 10 ॥
ममा मिमी मुमू मृमॄं म्लुम्लूं मेमैं तथैव च ।
मोमौं बिंदुर्विसर्गश्च ह्रस्वोदीर्घः प्लुतस्स्वरः ॥ 11 ॥
उदात्तश्चानुदात्तश्च स्वरितः प्रचयस्तथा ।
कं खं गं घं ंअं च चं छं जं झं ञं टं ठमेव च ॥ 12 ॥
डं ढं णं तं थं च दं च धं नं पं फं बमेव च
भं मं यं रं लं च वं च शं षं सं हं लमेव च ॥ 13 ॥
क्षं यमों व्यंजनो जिह्वामूलीयोऽर्धविसर्गवान् ।
उपध्मानीय इति च संयुक्ताक्षर एव च ॥ 14 ॥
पदं क्रिया कारकश्च निपातो गतिरव्ययः ।
सन्निधिर्योग्यताऽकांक्षा परस्परसमन्वयः ॥ 15 ॥
वाक्यं पद्यं संप्रदायो भावश्शब्दार्थलालितः ।
व्यंजना लक्षणा शक्तिः पाको रीतिरलंकृतिः ॥ 16 ॥
शय्या फ्रौढध्वनिस्तद्वत्काव्यं सर्गः क्रिया रुचिः ।
नानारूपप्रबंधश्च यशः पुण्यं महद्धनम् ॥ 17 ॥
व्यवहारपरिज्ञानं शिवेतरपरिक्षयः ।
सदः परमनिर्वाणं प्रियपथ्योपदेशकः ॥ 18 ॥
संस्कारः प्रतिभा शिक्षा ग्रहणं धारणं श्रमः ।
आसुतास्वादिमा चित्रं विस्तारश्चित्रसंविधिः ॥ 19 ॥
पुराणमितिहासश्च स्मृतिसूत्रं च संहिता ।
आचार आत्मना तुष्टिराचार्याज्ञानतिक्रमः ॥ 20 ॥
श्रीमान्श्रीगीःश्रियः कांतश्श्रीनिधिश्श्रीनिकेतनः ।
श्रेयान्हयाननश्रीदश्श्रीमयश्श्रितवत्सलः ॥ 21 ॥
हंसश्शुचिषदादित्यो वसुश्चंद्रोऽंतरिक्षसत् ।
होता च वेदिषद्योनिरतिथिर्द्रोणसद्धविः ॥ 22 ॥
नृषन्मृत्युश्च वरसदमृतं चर्तसद्वृषः ।
व्योमसद्विविधस्कोटशब्दार्थव्यंग्यवैभवः ॥ 23 ॥
अब्जा रसस्वादुतमो गोजा गेयो मनोहरः ।
ऋतजास्सकलं भद्रमद्रिजास्थैर्यमुत्तमम् ॥ 24 ॥
ऋतं समज्ञात्वनृतं बृहत्सूक्ष्मवशानुगः ।
सत्यं ज्ञानमनंतं यत्तत्सद्ब्रह्ममयोऽच्युतः ॥ 25 ॥
अग्रेभवन्नगो नित्यः परमः पुरुषोत्तमः ।
योगनिद्रापरस्स्वामी निध्यानवरनिर्वृनः ॥ 26 ॥
रसो रस्यो रसयिता रसवान् रसिकप्रियः ।
आनंदो नंदयन्सर्वानानंदी हयकंधरः ॥ 27 ॥
कालः काल्यश्च कालात्मा कालाभ्युत्थितजागरः ।
कलासाचिव्यकृत्कांताकथितव्याधिकार्यकः ॥ 28 ॥
दृंन्यंचनोदंचनोद्यल्लयसर्गो लघुक्रियः ।
विद्यासहायो वागीशो मातृकामंडलीकुतः ॥ 29 ॥
हिरण्यं हंसमिथुनमीशानश्शक्तिमान् जयी ।
ग्रहमेथी गुणी श्रीभूनीलालीलैकलालस ॥ 30 ॥
अंकेनोदूह्य वाग्देवीमाचार्यकमुपाश्रयः ।
वेदवेदांतशास्त्रार्थतत्त्वव्याख्यानतत्परः ॥ 31 ॥
ल्हौं ह्लं हं हं हयो हं सूं हंसां हंसीं हसूं हसौम् ।
हसूं हं हरिणो हारी हरिकेशो हरेडितः ॥ 32 ॥
सनातनो निर्बीजस्सन्नव्यक्तो हृदयेशयः ।
अक्षरः क्षरजीवेशः क्षमी क्षयकरोऽच्युतः ॥ 33 ॥
कर्ताकारयिताऽकार्यं कारणं प्रकृतिः कृतिः ।
क्षयक्षयमनामार्थो विष्णुर्जिष्णुर्जगन्मयः ॥ 34 ॥
संकुचन्विकचन्स्थाणुनिर्विकारो निरामयः ।
शुद्धो बुद्धः प्रबुद्धश्च स्निग्धो मुग्धस्समुद्धतः ॥ 35 ॥
संकल्पदो बहुभवत्सर्वात्मा सर्वनामभृत् ।
सहस्रशीर्षस्सर्वज्ञस्सहस्राक्षस्सहस्रपात् ॥ 36 ॥
व्यक्तोविराट्स्वराट्सम्राड्विष्वग्रूपवपुर्विधुः ।
मायावी परमानंदो मान्यो मायातिगो महान् ॥ 37 ॥
वटपत्रशयो बालो ललन्नाम्नायसूचकः ।
मुखन्यस्तकरग्रस्तपादाग्रपटलः प्रभुः ॥ 38 ॥
नैद्रीहासाश्वसंभूतज्ञाज्ञसात्विकतामसः ।
महार्णवांबुपर्यंकः पद्मनाभः परात्परः ॥ 39 ॥
ब्रह्मभूर्ब्रह्मभयहृद्धरिरोमुपदेशकृत् ।
मधुकैटभनिर्माता मत्तब्रह्ममदापहः ॥ 40 ॥
वेधोविलासवागानिर्दयासारो मृषार्थदः ।
नारायणास्त्रनिर्मातामधुकैटभमर्दनः ॥ 41 ॥
वेदकर्ता वेदभर्ता वेदहर्ता विदांवरः ।
पुंखानुपुंखहेषाढ्यः पूर्णषाड्गुण्यविग्रहः ॥ 42 ॥
लालामृतकणव्याजवांतनिर्दोषवर्णकः ।
उल्लोलस्वानधीरोद्यदुच्चैर्हलहलध्वनिः ॥ 43 ॥
कर्णादारभ्य कल्क्यात्मा कविः क्षीरार्णवोपमः ।
शंख चक्रगदी खड्गी शारंगी निर्भयमुद्रकः ॥ 44 ॥
चिन्मुद्राचिह्नितो हस्ततलविन्यस्तपुस्तकः ।
विद्यानाम्नीं श्रियं शिष्यां वेदयन्निजवैभवम् ॥ 45 ॥
अष्टार्ण्यम्योऽष्टभुजोव्यष्टिसृष्टिकरः पिता ।
अष्टैश्वर्यप्रदोहृष्यदष्टमूर्तिपितृस्तुतः ॥ 46 ॥
अनीतवेदपुरुषो विधिवेदोपदेशकृत् ।
वेदवेदांगवेदांतपुराणस्मृतिमूर्तिमान् ॥ 47 ॥
सर्वकर्मसमाराध्यस्सर्ववेदमयो विभुः ।
सर्वार्थतत्त्वव्याख्याता चतुष्षष्टिकलाधिपः ॥ 48 ॥
शुभयुक्सुमुखश्शुद्धस्सुरूपस्सुगतस्सुधीः ।
सुव्रतिस्संहृतिश्शूरस्सुतपाः सुष्टुतिस्सुहृत् ॥ 49 ॥
सुंदरस्सुभगस्सौम्यस्सुखदस्सुहृदां प्रियः ।
सुचरित्रस्सुखतरश्शुद्धसत्वप्रदायकः ॥ 50 ॥
रजस्तमोहरो वीरोविश्वरक्षाधुरंधरः ।
नरनारायणाकृत्या गुरुशिष्यत्वमास्थितः ॥ 51 ॥
परावरात्मा प्रबलः पावनः पापनाशनः ।
दयाघनः क्षमासारो वात्सल्यैकविभूषणः ॥ 52 ॥
आदिकूर्मो जगद्भर्ता महापोत्री महीधरः ।
स्तद्भित्स्वामी हरिर्यक्षो हिरण्यरिपुरैच्छिकः ॥ 53 ॥
प्रह्लादपालकस्सर्वभयहर्ता प्रियंवदः ।
श्रीमुखालोकनस्रंसत्क्रौंचकः कुहकांचनः ॥ 54 ॥
छत्री कमंडलुधरो वामनो वदतां वरः ।
पिशुनात्मा शनोदृष्टिलोपनो बलिमर्दनः ॥ 55 ॥
उरुक्तमो बलिशिरोन्यस्तांघ्रिर्बलिमर्दनः ।
जामदग्न्यः परशुभृत्कृत्तक्षत्त्रकुलोत्तमः ॥ 56 ॥
रामोऽभिरामश्शांतात्मा हरकोदंडखंडनः ।
शरणागतसंत्राता सर्वायोध्यकमुक्तिदः ॥ 57 ॥
संकर्षणोमदोदग्रो बलवान्मुसलायुधः ।
कृष्णाक्लेशहरः कृष्णो महाव्यसनशांतिदः ॥ 58 ॥
अंगारितोत्तरागर्भप्राणदः पार्थसारथिः ।
गीताचार्यो धराभारहारी षट्पुरमर्दनः ॥ 59 ॥
कल्की विष्णुयशस्सूनुः कलिकालुष्यनाशनः ।
साधुदुष्कृत्परित्राणविनाशविहितोदयः ॥ 60 ॥
वैकुंठे परमे तिष्ठन् सुकुमारयुवाकृतिः ।
विश्वोदयस्थितिध्वंससंकल्पेन स्वयं प्रभुः ॥ 61 ॥
मदनानां च मदनो मणिकोटीरमानितः ।
मंदारमालिकापीडो मणिकुंडलमंडितः ॥ 62 ॥
सुस्निग्धनीलकुटिलकुंतलः कोमलाकृतिः ।
सुललाटस्स्तुतिलकस्सुभ्रूकस्सुकपोलकः ॥ 63 ॥
सिद्धासदसदालोकसुधास्यंदीरदच्छदः ।
तारकाकोरकाकारविनिर्मितरदच्छदः ॥ 64 ॥
सुधावर्तिपरिस्फूर्तिशोभमानरदच्छदः ।
विष्टब्धोविपुलग्रीवोनिभृतोच्चैश्श्रवस्थितिः ॥ 65 ॥
समावृत्तावदातोरुमुक्ताप्रालंबभूषणः ।
रत्नांगदी वज्रनिष्की नीलरत्नांककंकणः ॥ 66 ॥
हरिन्मणिगणाबद्धशृंखलाकंकणोर्मिकः ।
सितोपवीतसंश्लिष्यत्पद्माक्षमणिमालिकः ॥ 67 ॥
श्रीचूर्णवद्द्वादशोर्ध्वपुंड्ररेखापरिष्कृतः ।
पट्टतंतुग्रथनवत्पवित्रनरशोभितः ॥ 68 ॥
पीनवक्षामहास्कंधो विपुलोरुकटीतटः ।
कौस्तुभी वनमाली च कांत्याचंद्रायुतोपमः ॥ 69 ॥
मंदारमालिकामोदी मंजुवागमलच्छविः ।
दिव्यगंधो दिव्यरसो दिव्यतेजा दिवस्पतिः ॥ 70 ॥
वाचालो वाक्पतिर्वक्ता व्याख्याता वादिनां प्रियः ।
भक्तहृन्मधुरो वादिजिह्वाभद्राननस्थितिः ॥ 71 ॥
स्मृतिसन्निहितस्स्निग्धस्सिद्धिदसिद्धिसन्नुतः ।
मूलकंदोमुकुंदोग्लौस्स्वयंभूशंभुरैंदवः ॥ 72 ॥
इष्टो मनुर्यमः कालकाल्यः कंबुकलानिधिः ।
कल्यः कामयिता भीमः कातर्यहरणः कृतिः ॥ 73 ॥
संप्रियः पक्कणस्तर्कचर्चानिर्धारणादयः ।
व्यतिरेको विवेकश्च प्रवेकः प्रक्रमः क्रमः ॥ 74 ॥
प्रमाण प्रतिभूः प्राज्ञः प्रज्ञापत्थ्याचधारणः ।
विधिर्विधाता व्यवधिरुद्भवः प्रभवस्थितिः ॥ 75 ॥
विषयस्संशयः पूर्वः पक्षः कक्ष्योपपादकः ।
राद्धांतो विहितो न्यायफलनिष्पत्तिरुद्भवः ॥ 76 ॥
नानारूपाणि तंत्राणि व्यवहार्यो व्यवस्थितिः ।
सर्वसाधारणो देवस्साध्वसाधुहिते रतः ॥ 77 ॥
संधा सनातनो धर्मो धर्मैरर्च्या महात्मभिः ।
छंदोमयस्त्रिधामात्मा स्वच्छंदश्छांदसेडितः ॥ 78 ॥
यज्ञो यज्ञात्मको यष्टा यज्ञांगोऽपघनोहविः ।
समिदाज्यं पुरोडाशश्शाला स्थाली स्रुवस्स्रुचा ॥ 79 ॥
प्राग्वंशो देवयजनः परिधिश्च परिस्तरः ।
वेदिर्विहरणं त्रेता पशुः पाशश्च संस्कृतिः ॥ 80 ॥
विधिर्मंत्रोऽर्थवादश्च द्रव्यमंगं च दैवतम् ।
स्तोत्रं शस्त्रं साम गीतिरुद्गीथस्सर्वसाधनम् ॥ 81 ॥
याज्या पुरोनुकाव्या च सामिधेनी समूहनम् ।
प्रयोक्तारः प्रयोगश्च प्रपंचः प्राशुभा श्रमः ॥ 82 ॥
श्रद्धा प्रध्वंसना तुष्टिः पुष्टिः पुण्यं प्रतिर्भवः ।
सदस्सदस्यसंपातः प्रश्नः प्रतिवचस्थितिः ॥ 83 ॥
प्रायश्चित्तं परिष्कारो धृतिर्निर्वहणं फलम् ।
नियोगो भावना भाव्यं हिरण्यं दक्षिणा नुतिः ॥ 84 ॥
आशीरभ्युपपत्तिश्च तृप्तिस्स्वं शर्म केवलम ।
पुण्यक्षयः पुनः पातभयं शिक्षाशुगर्दनः ॥ 85 ॥
कार्पण्यं यातनां चिंता निर्वेदश्च विहस्तता ।
देहभृत्कर्मसंपातः किंचित्कर्मानुकूलकः ॥ 86 ॥
अहेतुकतया प्रेम साम्मुख्यं चाप्यनुग्रहः ।
शुचिश्श्रीमत्कुलजनो नेता सत्त्वाभिमानवान् ॥ 87 ॥
अंतरायहरः पित्रोरदुष्टाहारदायकः ।
शुद्धाहारानुरूपांगपरिणामविधायकः ॥ 88 ॥
स्रावपातादिविपदां परिहर्ता परायणः ।
शिरःपाण्यादिसंधाता क्षेमकृत्प्राणदः प्रभु ॥ 89 ॥
अनिर्घृणश्चाविषमश्शक्तित्रितयदायकः ।
स्वेच्छाप्रसंगसंपत्तिव्याजहर्षविशेषवान् ॥ 90 ॥
संवित्संधायकस्सर्वजन्मक्लेशस्मृतिप्रदः ।
विवकेशोकवैराग्यभवभीतिविधायकः ॥ 91 ॥
गर्भस्याप्यनुकूलादिनासांताध्यवसायदः ।
शुभवैजननोपेतसदनेहोजनिप्रदः ॥ 92 ॥
उत्तमायुःप्रदो ब्रह्मनिष्ठानुग्रहकारकः ।
स्वदासजननिस्तीर्णतद्वंशजपरंपरः ॥ 93 ॥
श्रीवैष्णवोत्पादकृतस्वस्तिकावनिमंडलः ।
अधर्वणोक्तैकशतमृत्युदूरक्रियापरः ॥ 94 ॥
दयाद्यष्टगुणाधाता तत्तत्संस्कृतिसाधकः ।
मेधाविधाता श्रद्धाकृत् सौस्थ्यदो जामिताहरः ॥ 95 ॥
विघ्ननुद्विजयी धाता देशकालानुकूल्यकृत् ।
विनेता सत्पथानेता दोषहृच्छुभदस्सखा ॥ 96 ॥
ह्रीदो भीदो रुचिकरो विश्वो विश्वहिते रतः ।
प्रमादहृत्प्राप्तकारी प्रद्युम्नो बलवत्तरः ॥ 97 ॥
सांगवेदसमायोक्ता सर्वशास्त्रार्थवित्तिदः ।
ब्रह्मचर्यांतरायघ्नः प्रियकृद्धितकृत्परः ॥ 98 ॥
चित्तशुद्धिप्रदश्छिन्नाक्षचापल्यः क्षमावहः ।
इंद्रियार्थारतिच्छेत्ता विद्यैकव्यसनावहः ॥ 99 ॥
आत्मानुकूल्यरुचिकृदखिलार्तिविनाशकः ।
तितीर्षुहृत्त्वरावेदी गुरुसद्भक्तितेजसः ॥ 100 ॥
गुरुसंबंधघटको गुरुविश्वासवर्धनः ।
गुरूपासनसंधाता गुरुप्रेमप्रवर्धनः ॥ 101 ॥
आचार्याभिमतैर्योक्ता पंचसंस्कृतिभावनः ।
गुरूक्तवृत्तिनैश्चल्यसंधाताऽवहितस्थितिः ॥ 102 ॥
आपन्नाखिलरक्षार्थमाचार्यकमुपाश्रितः ।
शास्त्रपाणिप्रदानेन भवमग्नान्समुद्धरन् ॥ 103 ॥
पांचकालिकधर्मेषु नैश्चल्यं प्रतिपादयन् ।
स्वदासाराधनाद्यर्थशुद्धद्रव्यप्रदायकः ॥ 104 ॥
न्यासविद्याविनिर्वोढा न्यस्तात्मभररक्षकः ।
स्वकैंकर्यैकरुचिदस्स्वदास्यप्रेमवर्धनः ॥ 105 ॥
आचार्यार्थाखिलद्रव्यसंभृत्यर्पणरोचकः ।
आचार्यस्य स्वसच्छिष्योज्जीवनैकरुचिप्रदः ॥ 106 ॥
आगत्ययोजयनासहितैककृतिजागरः ।
ब्रह्मविद्यासमास्वादसुहितः कृतिसंस्कृतिः ॥ 107 ॥
सत्कारे विषधीदाता तरुण्यां शवबुद्धिदः ।
सभांप्रत्याययन्व्यालीं सर्वत्र समबुद्धिदः ॥ 108 ॥
संभाविताशेषदोषहृत्पुनर्न्यासरोचकः ।
महाविश्वाससंधाता स्थैर्यदाता मदापहः ॥ 109 ॥
नादव्याख्यास्वसिद्धांतरक्षाहेतुस्वमंत्रदः ।
स्वमंत्रजपसंसिद्धिजंघालकवितोदयः ॥ 110 ॥
अदुष्टगुणवत्काव्यबंधव्यामुग्धचेतनः ।
व्यंग्यप्रधानरसवद्गद्यपद्यादिनिर्मितिः ॥ 111 ॥
स्वभक्तस्तुतिसंतुष्टो भूयोभक्तिप्रदायकः ।
सात्विकत्यागसंपन्नसत्कर्मकृदतिप्रियः ॥ 112 ॥
निरंतरानुस्मरणनिजदासैवादास्यकृत् ।
निष्कामवत्सलो नैच्यभावनेषु विनिर्विशन् ॥ 113 ॥
सर्वभूतभवद्भावं संपश्यत्सुसदास्थितः ।
करणत्रयसारूप्यकल्याणपतिसादरः ॥ 114 ॥
कदा कदेति कैंकर्यकामिनां शेषितांभजन ।
परव्यूहादिनिर्दोषशुभाश्रयपरिग्रहः ॥ 115 ॥
चंद्रमंडलमध्यस्य श्वेतांभोरुहविष्टरः ।
ज्योत्स्नायमानांगरुचिनिर्धूतांतर्बहिस्तमाः ॥ 116 ॥
भाव्यो भावयिता भद्रं पारिजातवनालयः ।
क्षीराब्धिमध्यमद्वीपपालकः प्रपितामहः ॥ 117 ॥
निरंतरनमोवाकशुद्धयाजिहदाश्रयः ।
मुक्तिदश्वेतमृद्रूपश्वेतद्वीपविभावनः ॥ 118 ॥
गरुडाहारितश्वेतमृत्पूतयदुभूधरः ।
भद्राश्ववर्षनिलयो भयहारी शुभाश्रयः ॥ 119 ॥
भद्रश्रीवत्सहाराढ्यः पंचरात्रप्रवर्तकः ।
भक्तात्मभावभवनो हार्दोऽंगुष्ठप्रमाणवान् ॥ 120 ॥
स्वदाससत्कृताकृत्ये तन्मित्रारिषु योजयन् ।
प्राणानुत्क्रामयन्नूरीकृतप्रारब्धलोपनः ॥ 121 ॥
लध्व्यैव शिक्षयापापमशेषमपि निर्णुदन् ।
त्रिस्थूणक्षोभतो भूतसूक्ष्म्यैस्सूक्ष्मवपुस्सृजन् ॥ 122 ॥
निरंकुशकृपापूरो नित्यकल्याणकारकः ।
मूर्धन्यनाड्या स्वांदासान्ब्रह्मरंध्रादुदंचयन् ॥ 123 ॥
उपासनपरान्सर्वान् प्रारब्धमनुभावयन् ।
सर्वप्रारब्धदेहांतेऽप्यंतिमस्मरणं दिशन् ॥ 124 ॥
प्रपेयुषां भेजुषां च यमदृष्टिमभावयन् ।
दिव्यदेहप्रदस्सूर्यं द्वारयन्मोक्षमेयुषाम् ॥ 125 ॥
आतिवाहिकसत्कारानध्वन्यापाद्य मानयन् ।
सार्वान्क्रतुभुजश्शश्वत्प्राभृतानि प्रदापयन् ॥ 126 ॥
दुरंतमायाकांतारं द्रुतं योगेन् लंघयन् ।
स्फायत्सुदर्शविविधवीथ्यंतेनाध्वना नयन् ॥ 127 ॥
सीमांतसिंधुविरजां योगेनोत्तारयन्वशी ।
अमानवस्य देवस्य करं शिरसि धारयन् ॥ 128 ॥
अनादिवासनां धून्वन् वैकुंठाप्त्या सलोकयन् ।
अहेयमंगलोदारतनुदानात्सरूपयन ॥ 129 ॥
सूरिजुष्टं सुखैकांतं परमं पदमापयन् ।
अरारण्यामृतांभोधी दर्शयन् श्रमनाशनः ॥ 130 ॥
दिव्योद्यानसरोवापीसरिन्मणिनगान्नयन ।
ऐरम्मदामृतसरोगमयन्सूपबृंहणः ॥ 131 ॥
अश्वत्थं सोमसवनं प्रापयन्विष्टरश्रवाः ।
दिव्याप्सरस्समानीतब्रह्मालंकारदायकः ॥ 132 ॥
दिव्यवासोऽंजनक्षौममाल्यैस्स्वान्बहुमानयन् ।
स्वीयामयोध्यां नगरीं सादरं संप्रवेशयन् ॥ 133 ॥
दासांदिव्यरसालोकगंधांसलशरीरयन् ।
स्वदासान्सूरिवर्गेण सस्नेहं बहुमानयन् ॥ 134 ॥
सूरिसेवोदितानंदनैच्यान्स्वानतिशाययन् ।
वाचयन्स्वां नमोवीप्सां कुर्वन्प्रह्वान्कृतांजलीन् ॥ 135 ॥
प्राकारगोपुरारामप्रासादेभ्यः प्रणामयन् ।
इंद्रप्रजापतिद्वारपालसम्मानमापयन् ॥ 136 ॥
मालिकांचन्महाराजवीथीमध्यं निवासयन् ।
श्रीवैकुंठपुरंध्रीभिर्नानासत्कारकारकः ॥ 137 ॥
दिव्यं विमानं गमयन् ब्रह्मकांत्याभिपूरयन् ।
महानंदात्मकश्रीमन्मणिमंडपमापयन् ॥ 138 ॥
हृष्यत्कुमुदचंडाद्यैर्विष्वक्सेनांतिकं नयन् ।
सेनेशचोदितास्थाननायको हेतिनायकः ॥ 139 ॥
प्रापयंदिव्यमास्थानं वैनतेयं प्रणामयन् ।
श्रीमत्सुंदरसूरींद्रदिव्यपंक्तिं प्रणामयन् ॥ 140 ॥
भास्वरासनपर्यंकप्रापणेन कृतार्थयन् ।
पर्यंकविद्यासंसिद्धसर्ववैभवसंगतः ॥ 141 ॥
स्वात्मानमेव श्रीकांतं सादरं भूरि दर्शयन् ।
शेषतैकरतिं शेषं शय्यात्मानं प्रणामयन् ॥ 142 ॥
अनंताक्षिद्विसाहस्रसादरालोकपात्रयन् ।
अकुमारयुवाकारं श्रीकांतं संप्रणामयन् ॥ 143 ॥
अतटानंदतो हेतो रंचयन्किलिकिंचितम् ।
दासानत्युत्थितमुहुःकृतिसृष्टिप्रसन्नहृत् ॥ 144 ॥
श्रीयां प्रापस्वयं तातं जीवं पुत्रं प्रहर्षयन् ।
मज्जयन् स्वमुखांभोधौ स्वकां कीर्तिरुचिं दिशन् ॥ 145 ॥
दयार्द्रगंगावलनाकृतह्लादैः कृतार्थयन् ।
पर्यंकारोहणप्रह्वं समं लक्ष्म्योपपादयन् ॥ 146 ॥
कस्त्वमित्यनुयुंजानो दासोऽस्मीत्युक्तिविस्मितः ।
अपृथक्त्वप्रकारोऽस्मि वाचास्वाश्रितवद्भवन् ॥ 147 ॥
विदुषां तत्क्रतुनयाद्धयास्यवपुषाभवन् ।
वासुदेवात्मना भूयो भवन्वैकुंठनायकः ॥ 148 ॥
यथा तथैव स्वं रूपं जगन्मोहनमूर्तिमान् ।
द्विमूर्ती बहुमूर्तीश्च आत्मनश्च प्रकाशयन् ॥ 149 ॥
युगपत्सकलं साक्षात्स्वतः कर्तुं समर्थयन् ।
कवीनामादिशन्नित्यं मुक्तानामादिमः कविः ॥ 150 ॥
षडर्णमनुनिष्ठानां श्वेतद्वीपस्थितिं दिशन् ।
द्वादशाक्षरनिष्ठानां लोकं सांतानिकं दिशन् ॥ 151 ॥
अष्टाक्षरैकनिष्ठानां कार्यं वैकुंठमर्पयन् ।
शरणागतिनिष्ठानां साक्षाद्वैकुंठमर्पयन् ॥ 152 ॥
स्वमंत्रराजनिष्ठानां स्वस्मार्दातेशयं दिशन् ।
श्रिया गाढोपगूढात्मा भूतधात्रीरुचिं दिशन् ॥ 153 ॥
नीलाविभूतिव्यामुग्धो महाश्वेताश्वमस्तकः ।
त्र्यक्षस्त्रिपुरसंहारी रुद्रस्स्कंदो विनायकः ॥ 154 ॥
अजो विरिंचो द्रुहिणो व्याप्तमूर्तिरमूर्तिकः ।
असंगोऽनन्यधीसंगविहंगोवैरिभंगदः ॥ 155 ॥
स्वामी स्वं स्वेन संतुप्यन् शक्रस्सर्वाधिकस्यदः ।
स्वयंज्योतिस्स्वयंवैद्यश्शूरश्शूरकुलोद्भवः ॥ 156 ॥
वासवो वसुरण्योग्निर्वासुदेवस्सुहृद्वसुः ।
भूतो भावी भवन्भव्यो विष्णुस्थानस्सनातनः ॥ 157 ॥
नित्यानुभावो नेदीयांदवीयांदुर्विभावनः ।
सनत्कुमारस्संधाता सुगंधिस्सुखदर्शनः ॥ 158 ॥
तीर्थं तितिक्षुस्तीर्थांघ्रिस्तीर्थस्वादुशुभश्शुचिः ।
तीर्थवद्दीधितिस्तिग्मतेजास्तीव्रमनामयः ॥ 159 ॥
ईशाद्युपनिषद्वेद्यः पंचोपनिषदात्मकः ।
ईडंतःस्थोऽपि दूरस्थः कल्याणतमरूपवान् ॥ 160 ॥
प्राणानां प्राणनः पूर्णज्ञानैरपि सुदुर्ग्रहः ।
नाचिकेतोपासनार्च्यस्त्रिमात्रप्रणवोदितः ॥ 161 ॥
भूतयोनिश्च सर्वज्ञोऽक्षरोऽक्षरपरात्परः ।
अकारादिपदज्ञेयव्यूहतारार्थपूरुषः ॥ 162 ॥
मनोमयामृतो नंदमयो दहररूपदृत् ।
न्यासविद्यावेद्यरूपः आदित्यांतर्हिरण्मयः ॥ 163 ॥
इदंद्र आत्मोद्गीथादि प्रतीको पासनान्वयी ।
मधुविद्योपासनीयो गायत्रीध्यानगोचरः ॥ 164 ॥
दिव्यकौक्षेयसज्ज्योतिः शांडिल्योपास्तिवीक्षितः ।
संवर्गविद्यावेद्यात्मा तत् षोडशकलं परम् ॥ 165 ॥
उपकोसलविद्येक्ष्यः पंचाग्न्यात्मशरीरकः ।
वैश्वानरः सदखेभूमा च जगत्कर्माऽदिपूरुषः ॥ 166 ॥
मूर्तामूर्तब्रह्म सर्वप्रेष्ठोऽन्यप्रियताकरः ।
सर्वांतरश्चापरोक्षश्चांतर्याम्यमृतोऽनघः ॥ 167 ॥
अहर्नामादित्यरूपश्चाहन्नामाक्षिसंश्रितः ।
सतुर्यगायत्र्यर्थश्च यथोपास्त्याप्यसद्वपुः ॥ 168 ॥
चंद्रादिसायुज्यपूर्वमोक्षदन्यासगोचरः ।
न्यासनाश्यानभ्युपेतप्रारब्धांशो महादयः ॥ 169 ॥
अवताररहस्यादिज्ञानिप्रारब्धनाशनः ।
स्वेन स्वार्थं परेणापि कृते न्यासे फलप्रदः ॥ 170 ॥
असाहसोऽनपायश्रीस्सहायस्स श्रियै वसन् ।
श्रीमान्नारायणो वासुदेवोऽव्याद्विष्णुरुत्तमः ॥ 171 ॥

॥ ओम् ॥
इतीदं परमं गुह्यं सर्वपापप्रणाशनम् ।
वागीशनामसाहस्रं वत्स तेऽभिहितं मया ॥ 1 ॥
य इदं शृणुयाद्भक्त्या श्रावयेद्वा स्वयं पठत् ।
नासौ प्राप्नोति दुरितमिहामुत्र च किंचन ॥ 2 ॥
तदिदं प्रजपन् स्वामी विद्याधीशो हयाननः ।
क्षत्रियश्चेन्महारुद्रो विक्रमाक्रांतसर्वभूः ॥ 3 ॥
महोदारो महाकीर्तिर्महितो विजयी भवेत् ।
ऊरुजश्चेदुरुयशोधनधान्यसमृद्धिमान् ॥ 4 ॥
अशेषभोगसंभूतो धनाधिपसमो भवेत् ।
शृणुयादेव वृषलस्स्वयं विप्रात्सुपूजितात् ॥ 5 ॥
महिमानमवाप्नोति महितैश्वर्यभाजनम् ।
श्रीमतो हयशीर्षस्य नाम्नां साहस्रमुत्तमम् ॥ 6 ॥
शृण्वन्पठन्नपि नरस्सर्वान्कामानवाप्नुयात् ।
धर्मार्थकामसंतानभाग्यारोग्योत्तमायुषाम् ॥ 7 ॥
प्रापणे परमो हेतुः स्तवराजोऽयमद्भुतः ।
हयग्रीवे परा भक्तिमुद्वहन् य इमं पठेत् ॥ 8 ॥
त्रिसंध्यं नियतश्शुद्धस्सोऽपवर्गाय कल्पते ।
त्रिः पठन्नामसाहस्रं प्रत्यहं वागधीशितुः ॥ 9 ॥
महतीं कीर्तिमाप्नोति निस्सीमां प्रेयसीं प्रियाम् ।
वीर्यं बलं पतित्वं च मेधाश्रद्धावलोन्नतीः ॥ 10 ॥
सारस्वतसमृद्धिं च भव्यान्भोग्यान्नतान्सुतान् ।
अभिरूपां वधूं साध्वीं सुहृदश्च हितैषिणः ॥ 11 ॥
ब्रह्मविद्याप्रवचनैः कालक्षेपं च संततम् ।
हयग्रीवपदांभोज सलिलस्यानुकूलतः ॥ 12 ॥
लभेत निर्मलं शांतो हंसोपासनतत्परः ।
श्रीमत्परमहंसस्य चित्तोल्लासनसद्विधौ ॥ 13 ॥
इदं तु नाम्नां साहस्रमिष्टसाधनमुत्तमम् ।
पापी पापाद्विमुक्तस्स्याद्रोगी रोगाद्विमुच्यते ॥ 14 ॥
बद्धो बंधाद्विमुच्येत भीते भीतिर्विमुच्यते ।
मुक्तो दरिद्रो दारिद्र्याद्भवेत्पूर्णमनोरथः ॥ 15 ॥
आपन्न आपदा मुक्तो भवत्येव न संशयः ।
हंसार्चनपरो नित्यं हंसार्चनपरायणः ॥ 16 ॥
निर्धूतकल्मषो नित्यं ब्रह्मसायुज्यमाप्नुयात् ।
ये भक्त्या परमे हंसे श्रिया मिथुनितांगिते ॥ 17 ॥
जन्मव्याधिजरानाशभयभाजो न ते जनाः ।
आचार्यात्तदिदं स्तोत्रमधिगत्य पठेन्नरः ॥ 18 ॥
तस्येदं कल्पते सिद्ध्यै नान्यथा वत्स काश्यप ।
आचार्यं लक्षणैर्युक्तमन्यं वाऽत्मविदुत्तमम् ॥ 19 ॥
वृत्वाचार्यं सदा भक्त्या सिद्ध्यै तदिदमश्नुयात् ।
स याति परमां विद्यां शकुनिब्रह्महर्षणीम् ॥ 20 ॥
हयास्यनामसाहस्रस्तुतिरंहोविनाशिनी ।
परमो हंस एवादौ प्रणवं ब्रह्मणे दिशत् ॥ 21 ॥
उपादिशत्ततो वेदान् श्रीमान हयशिरो हरिः ।
तेनासौ स्तवराजो हि हंसाख्यहयगोचरः ॥ 22 ॥
विद्यासाम्राज्यसंपत्तिमोक्षैकफलसाधनम् ।
सर्ववित्स्वात्मभावेन परमं पदमाप्नुयात् ॥ 23 ॥
न तत्र संशयः कश्चिन्निपुणं परिपश्यति ।
तथापि स्वात्मनि प्रेमसिंधुसंधुक्षणक्षमः. ॥ 24 ॥
इतीदं नामसाहस्रं संगृहीतं तथोत्तरम् ।
एवं संगृह्य देवेन हयग्रीवेण पालनम् ॥ 25 ॥
स्तोत्ररत्नमिदं दत्तं मह्यं तत् कथितं तव ।
हंसनामसहस्रस्य वैभवं परमाद्भुतम् ॥ 26 ॥
वक्तुं यथावत्कश्शक्तो वर्षकोटिशतैरपि ।
हयास्यः परमो हंसो हरिर्नारायणोऽव्ययः ॥ 27 ॥
कारणं शरणं मृत्युरमृतं चाखिलात्मनाम् ।
सत्यं सत्यं पुनस्सत्यं ध्येयो नारायणो हरिः ॥ 28 ॥
समानमधिकं वेदान्न दैवं केशवात्परम् ।
तत्त्वं विज्ञातुकामानां प्रमाणैस्सर्वतोमुखैः ॥ 29 ॥
तत्त्वं स परमो हंस एक एव जनार्दनः ।
इदं रहस्यं परमं महापातकनाशनम् ॥ 30 ॥
न चाशुश्रूषवे वाच्यं नाभक्ताय कदाचन ।
नाप्यन्यदेवतायापि न वाच्यं नास्तिकाय च ॥ 31 ॥
अधीत्यैतद्गुरुमुखादन्वहं यः पठेन्नरः ।
तद्वंश्या अपि सर्वे स्युस्संपत्सारस्वतोन्नताः ॥ 32 ॥
इति हयवदनाननारविंदान्मधुलहरीव निरर्गला गलंती ।
जगति दशशतीतदीयनाम्नां जयति जडानपि गीर्षु योजयंती ॥ 33 ॥

॥ इति श्रीहयग्रीवसहस्रनामस्तोत्रं संपूर्णम् ॥




Browse Related Categories: