View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Marathi language.

निर्वाण षट्कम्

ॐ ॐ ओम् ...
शिवोऽहं शिवोऽहं, शिवोऽहं शिवोऽहं, शिवोऽहं शिवोऽहं

मनो बुध्यहंकार चित्तानि नाहं
न च श्रोत्र जिह्वे न च घ्राणनेत्रे ।
न च व्योम भूमिर्न तेजो न वायुः
चिदानंद रूपः शिवोऽहं शिवोऽहम् ॥ 1 ॥
शिवोऽहं शिवोऽहं, शिवोऽहं शिवोऽहं, शिवोऽहं शिवोऽहं

न च प्राण संज्ञो न वैपंचवायुः
न वा सप्तधातुर्न वा पंचकोशाः ।
नवाक्पाणि पादौ न चोपस्थ पायू
चिदानंद रूपः शिवोऽहं शिवोऽहम् ॥ 2 ॥
शिवोऽहं शिवोऽहं, शिवोऽहं शिवोऽहं, शिवोऽहं शिवोऽहं

न मे द्वेषरागौ न मे लोभमोहो
मदो नैव मे नैव मात्सर्यभावः ।
न धर्मो न चार्धो न कामो न मोक्षः
चिदानंद रूपः शिवोऽहं शिवोऽहम् ॥ 3 ॥
शिवोऽहं शिवोऽहं, शिवोऽहं शिवोऽहं, शिवोऽहं शिवोऽहं

न पुण्यं न पापं न सौख्यं न दुःखं
न मंत्रो न तीर्थं न वेदा न यज्ञः ।
अहं भोजनं नैव भोज्यं न भोक्ता
चिदानंद रूपः शिवोऽहं शिवोऽहम् ॥ 4 ॥
शिवोऽहं शिवोऽहं, शिवोऽहं शिवोऽहं, शिवोऽहं शिवोऽहं

न मृत्युर्न शंका न मे जाति भेदः
पिता नैव मे नैव माता न जन्मः ।
न बंधुर्न मित्रं गुरुर्नैव शिष्यः
चिदानंदरूपः शिवोऽहं शिवोऽहम् ॥ 5 ॥
शिवोऽहं शिवोऽहं, शिवोऽहं शिवोऽहं, शिवोऽहं शिवोऽहं

अहं निर्विकल्पो निराकार रूपो
विभूत्वाच्च सर्वत्र सर्वेंद्रियाणाम् ।
न चासंगतं नैव मुक्तिर्न मेयः [न वा बंधनं नैव मुक्तिर्न बंधः]
चिदानंदरूपः शिवोऽहं शिवोऽहम् ॥ 6 ॥
शिवोऽहं शिवोऽहं, शिवोऽहं शिवोऽहं, शिवोऽहं शिवोऽहं




Browse Related Categories: