View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Marathi language.

श्री वेंकटेश्वर सहस्रनाम स्तोत्रम्

श्रीवसिष्ठ उवाच ।
भगवन् केन विधिना नामभिर्वेंकटेश्वरम् ।
पूजयामास तं देवं ब्रह्मा तु कमलैः शुभैः ॥ 1 ॥

पृच्छामि तानि नामानि गुणयोगपराणि किम् ।
मुख्यवृत्तीनि किं ब्रूहि लक्षकाण्यथवा हरेः ॥ 2 ॥

नारद उवाच ।
नामान्यनंतानि हरेः गुणयोगानि कानि चित् ।
मुख्यवृत्तीनि चान्यानि लक्षकाण्यपराणि च ॥ 3 ॥

परमार्थैः सर्वशब्दैरेको ज्ञेयः परः पुमान् ।
आदिमध्यांतरहितस्त्वव्यक्तोऽनंतरूपभृत् ॥ 4 ॥

चंद्रार्कवह्निवाय्वाद्या ग्रहर्क्षाणि नभो दिशः ।
अन्वयव्यतिरेकाभ्यां संति नो संति यन्मतेः ॥ 5 ॥

तस्य देवस्य नाम्नां हि पारं गंतुं हि कः क्षमः ।
तथाऽपि चाभिधानानि वेंकटेशस्य कानिचित् ॥ 6 ॥

ब्रह्मगीतानि पुण्यानि तानि वक्ष्यामि सुव्रत ।
यदुच्चारणमात्रेण विमुक्ताघः परं व्रजेत् ॥ 7 ॥

वेंकटेशस्य नाम्नां हि सहस्रस्य ऋषिर्विधिः ।
छंदोऽनुष्टुप्तथा देवः श्रीवत्सांको रमापतिः ॥ 8 ॥

बीजभूतस्तथोंकारो ह्रीं क्लीं शक्तिश्च कीलकम् ।
ॐ नमो वेंकटेशायेत्यादिर्मंत्रोऽत्र कथ्यते ॥ 9 ॥

ब्रह्मांडगर्भः कवचमस्त्रं चक्रगदाधरः ।
विनियोगोऽभीष्टसिद्धौ हृदयं सामगायनः ॥ 10 ॥

अस्य श्री वेंकटेश सहस्रनाम स्तोत्र महामंत्रस्य ब्रह्मा ऋषिः अनुष्टुप् छंदः श्रीवत्सांको रमापतिर्देवता ॐ बीजं ह्रीं शक्तिः क्लीं कीलकं ब्रह्मांडगर्भ इति कवचं चक्रगदाधर इत्यस्त्रं सामगानमिति हृदयं ॐ नमो वेंकटेशायेत्यादिर्मंत्रः श्री वेंकटेश प्रीत्यर्थे जपे विनियोगः ॥

ध्यानम्
भास्वच्चंद्रमसौ यदीयनयने भार्या यदीया रमा
यस्माद्विश्वसृडप्यभूद्यमिकुलं यद्ध्यानयुक्तं सदा
नाथो यो जगतां नगेंद्रदुहितुर्नाथोऽपि यद्भक्तिमान्
तातो यो मदनस्य यो दुरितहा तं वेंकटेशं भजे ॥

ऊर्ध्वौ हस्तौ यदीयौ सुररिपुदलने बिभ्रतौ शंखचक्रे
सेव्यावंघ्री स्वकीयावभिदधदधरो दक्षिणो यस्य पाणिः ।
तावन्मात्रं भवाब्धिं गमयति भजतामूरुगो वामपाणिः
श्रीवत्सांकश्च लक्ष्मीर्यदुरसि लसतस्तं भजे वेंकटेशम् ॥

इति ध्यायन् वेंकटेशं श्रीवत्सांकं रमापतिम् ।
वेंकटेशो विरूपाक्ष इत्यारभ्य जपेत्क्रमात् ॥

स्तोत्रं
ॐ वेंकटेशो विरूपाक्षो विश्वेशो विश्वभावनः ।
विश्वसृड्विश्वसंहर्ता विश्वप्राणो विराड्वपुः ॥ 1 ॥

शेषाद्रिनिलयोऽशेषभक्तदुःखप्रणाशनः ।
शेषस्तुत्यः शेषशायी विशेषज्ञो विभुः स्वभूः ॥ 2 ॥

विष्णुर्जिष्णुश्च वर्धिष्णुरुत्सहिष्णुः सहिष्णुकः ।
भ्राजिष्णुश्च ग्रसिष्णुश्च वर्तिष्णुश्च भरिष्णुकः ॥ 3 ॥

कालयंता कालगोप्ता कालः कालांतकोऽखिलः ।
कालगम्यः कालकंठवंद्यः कालकलेश्वरः ॥ 4 ॥

शंभुः स्वयंभूरंभोजनाभिः स्तंभितवारिधिः ।
अंभोधिनंदिनीजानिः शोणांभोजपदप्रभः ॥ 5 ॥

कंबुग्रीवः शंबरारिरूपः शंबरजेक्षणः ।
बिंबाधरो बिंबरूपी प्रतिबिंबक्रियातिगः ॥ 6 ॥

गुणवान् गुणगम्यश्च गुणातीतो गुणप्रियः ।
दुर्गुणध्वंसकृत्सर्वसुगुणो गुणभासकः ॥ 7 ॥

परेशः परमात्मा च परंज्योतिः परा गतिः ।
परं पदं वियद्वासाः पारंपर्यशुभप्रदः ॥ 8 ॥

ब्रह्मांडगर्भो ब्रह्मण्यो ब्रह्मसृड्ब्रह्मबोधितः ।
ब्रह्मस्तुत्यो ब्रह्मवादी ब्रह्मचर्यपरायणः ॥ 9 ॥

सत्यव्रतार्थसंतुष्टः सत्यरूपी झषांगवान् ।
सोमकप्राणहारी चाऽऽनीताम्नायोऽब्धिसंचरः ॥ 10 ॥

देवासुरवरस्तुत्यः पतन्मंदरधारकः ।
धन्वंतरिः कच्छपांगः पयोनिधिविमंथकः ॥ 11 ॥

अमरामृतसंधाता धृतसं‍मोहिनीवपुः ।
हरमोहकमायावी रक्षस्संदोहभंजनः ॥ 12 ॥

हिरण्याक्षविदारी च यज्ञो यज्ञविभावनः ।
यज्ञीयोर्वीसमुद्धर्ता लीलाक्रोडः प्रतापवान् ॥ 13 ॥

दंडकासुरविध्वंसी वक्रदंष्ट्रः क्षमाधरः ।
गंधर्वशापहरणः पुण्यगंधो विचक्षणः ॥ 14 ॥

करालवक्त्रः सोमार्कनेत्रः षड्गुणवैभवः ।
श्वेतघोणी घूर्णितभ्रूर्घुर्घुरध्वनिविभ्रमः ॥ 15 ॥

द्राघीयान् नीलकेशी च जाग्रदंबुजलोचनः ।
घृणावान् घृणिसम्मोहो महाकालाग्निदीधितिः ॥ 16 ॥

ज्वालाकरालवदनो महोल्काकुलवीक्षणः ।
सटानिर्भिन्नमेघौघो दंष्ट्रारुग्व्याप्तदिक्तटः ॥ 17 ॥

उच्छ्वासाकृष्टभूतेशो निश्श्वासत्यक्तविश्वसृट् ।
अंतर्भ्रमज्जगद्गर्भोऽनंतो ब्रह्मकपालहृत् ॥ 18 ॥

उग्रो वीरो महाविष्णुर्ज्वलनः सर्वतोमुखः ।
नृसिंहो भीषणो भद्रो मृत्युमृत्युः सनातनः ॥ 19 ॥

सभास्तंभोद्भवो भीमः शीरोमाली महेश्वरः ।
द्वादशादित्यचूडालः कल्पधूमसटाच्छविः ॥ 20 ॥

हिरण्यकोरःस्थलभिन्नखः सिंहमुखोऽनघः ।
प्रह्लादवरदो धीमान् भक्तसंघप्रतिष्ठितः ॥ 21 ॥

ब्रह्मरुद्रादिसंसेव्यः सिद्धसाध्यप्रपूजितः ।
लक्ष्मीनृसिंहो देवेशो ज्वालाजिह्वांत्रमालिकः ॥ 22 ॥

खड्गी खेटी महेष्वासी कपाली मुसली हली ।
पाशी शूली महाबाहुर्ज्वरघ्नो रोगलुंठकः ॥ 23 ॥

मौंजीयुक् छात्रको दंडी कृष्णाजिनधरो वटुः ।
अधीतवेदो वेदांतोद्धारको ब्रह्मनैष्ठिकः ॥ 24 ॥

अहीनशयनप्रीतः आदितेयोऽनघो हरिः ।
संवित्प्रियः सामवेद्यो बलिवेश्मप्रतिष्ठितः ॥ 25 ॥

बलिक्षालितपादाब्जो विंध्यावलिविमानितः ।
त्रिपादभूमिस्वीकर्ता विश्वरूपप्रदर्शकः ॥ 26 ॥

धृतत्रिविक्रमः स्वांघ्रिनखभिन्नांडखर्परः ।
पज्जातवाहिनीधारापवित्रितजगत्त्रयः ॥ 27 ॥

विधिसम्मानितः पुण्यो दैत्ययोद्धा जयोर्जितः ।
सुरराज्यप्रदः शुक्रमदहृत्सुगतीश्वरः ॥ 28 ॥

जामदग्न्यः कुठारी च कार्तवीर्यविदारणः ।
रेणुकायाः शिरोहारी दुष्टक्षत्रियमर्दनः ॥ 29 ॥

वर्चस्वी दानशीलश्च धनुष्मान् ब्रह्मवित्तमः ।
अत्युदग्रः समग्रश्च न्यग्रोधो दुष्टनिग्रहः ॥ 30 ॥

रविवंशसमुद्भूतो राघवो भरताग्रजः ।
कौसल्यातनयो रामो विश्वामित्रप्रियंकरः ॥ 31 ॥

ताटकारिः सुबाहुघ्नो बलातिबलमंत्रवान् ।
अहल्याशापविच्छेदी प्रविष्टजनकालयः ॥ 32 ॥

स्वयंवरसभासंस्थ ईशचापप्रभंजनः ।
जानकीपरिणेता च जनकाधीशसंस्तुतः ॥ 33 ॥

जमदग्नितनूजातयोद्धाऽयोध्याधिपाग्रणीः ।
पितृवाक्यप्रतीपालस्त्यक्तराज्यः सलक्ष्मणः ॥ 34 ॥

ससीतश्चित्रकूटस्थो भरताहितराज्यकः ।
काकदर्पप्रहर्ता च दंडकारण्यवासकः ॥ 35 ॥

पंचवट्यां विहारी च स्वधर्मपरिपोषकः ।
विराधहाऽगस्त्यमुख्यमुनिसम्मानितः पुमान् ॥ 36 ॥

इंद्रचापधरः खड्गधरश्चाक्षयसायकः ।
खरांतको दूषणारिस्त्रिशिरस्करिपुर्वृषः ॥ 37 ॥

ततः शूर्पणखानासाच्छेत्ता वल्कलधारकः ।
जटावान् पर्णशालास्थो मारीचबलमर्दकः ॥ 38 ॥

पक्षिराट्कृतसंवादो रवितेजा महाबलः ।
शबर्यानीतफलभुक् हनूमत्परितोषितः ॥ 39 ॥

सुग्रीवाऽभयदो दैत्यकायक्षेपणभासुरः ।
सप्ततालसमुच्छेत्ता वालिहृत्कपिसंवृतः ॥ 40 ॥

वायुसूनुकृतासेवस्त्यक्तपंपः कुशासनः ।
उदन्वत्तीरगः शूरो विभीषणवरप्रदः ॥ 41 ॥

सेतुकृद्दैत्यहा प्राप्तलंकोऽलंकारवान् स्वयम् ।
अतिकायशिरश्छेत्ता कुंभकर्णविभेदनः ॥ 42 ॥

दशकंठशिरोध्वंसी जांबवत्प्रमुखावृतः ।
जानकीशः सुराध्यक्षः साकेतेशः पुरातनः ॥ 43 ॥

पुण्यश्लोको वेदवेद्यः स्वामितीर्थनिवासकः ।
लक्ष्मीसरःकेलिलोलो लक्ष्मीशो लोकरक्षकः ॥ 44 ॥

देवकीगर्भसंभूतो यशोदेक्षणलालितः ।
वसुदेवकृतस्तोत्रो नंदगोपमनोहरः ॥ 45 ॥

चतुर्भुजः कोमलांगो गदावान्नीलकुंतलः ।
पूतनाप्राणसंहर्ता तृणावर्तविनाशनः ॥ 46 ॥

गर्गारोपितनामांको वासुदेवो ह्यधोक्षजः ।
गोपिकास्तन्यपायी च बलभद्रानुजोऽच्युतः ॥ 47 ॥

वैयाघ्रनखभूषश्च वत्सजिद्वत्सवर्धनः ।
क्षीरसाराशनरतो दधिभांडप्रमर्दनः ॥ 48 ॥

नवनीतापहर्ता च नीलनीरदभासुरः ।
आभीरदृष्टदौर्जन्यो नीलपद्मनिभाननः ॥ 49 ॥

मातृदर्शितविश्वाऽऽस्य उलूखलनिबंधनः ।
नलकूबरशापांतो गोधूलिच्छुरितांगकः ॥ 50 ॥

गोसंघरक्षकः श्रीशो बृंदारण्यनिवासकः ।
वत्सांतको बकद्वेषी दैत्यांबुदमहानिलः ॥ 51 ॥

महाजगरचंडाग्निः शकटप्राणकंटकः ।
इंद्रसेव्यः पुण्यगात्रः खरजिच्चंडदीधितिः ॥ 52 ॥

तालपक्वफलाशी च कालीयफणिदर्पहा ।
नागपत्नीस्तुतिप्रीतः प्रलंबासुरखंडनः ॥ 53 ॥

दावाग्निबलसंहारी फलाहारी गदाग्रजः ।
गोपांगनाचेलचोरः पाथोलीलाविशारदः ॥ 54 ॥

वंशगानप्रवीणश्च गोपीहस्तांबुजार्चितः ।
मुनिपत्न्याहृताहारो मुनिश्रेष्ठो मुनिप्रियः ॥ 55 ॥

गोवर्धनाद्रिसंधर्ता संक्रंदनतमोऽपहः ।
सदुद्यानविलासी च रासक्रीडापरायणः ॥ 56 ॥

वरुणाभ्यर्चितो गोपीप्रार्थितः पुरुषोत्तमः ।
अक्रूरस्तुतिसंप्रीतः कुब्जायौवनदायकः ॥ 57 ॥

मुष्टिकोरःप्रहारी च चाणूरोदरदारणः ।
मल्लयुद्धाग्रगण्यश्च पितृबंधनमोचकः ॥ 58 ॥

मत्तमातंगपंचास्यः कंसग्रीवानिकृंतनः ।
उग्रसेनप्रतिष्ठाता रत्नसिंहासनस्थितः ॥ 59 ॥

कालनेमिखलद्वेषी मुचुकुंदवरप्रदः ।
साल्वसेवितदुर्धर्षराजस्मयनिवारणः ॥ 60 ॥

रुक्मिगर्वापहारी च रुक्मिणीनयनोत्सवः ।
प्रद्युम्नजनकः कामी प्रद्युम्नो द्वारकाधिपः ॥ 61 ॥

मण्याहर्ता महामायो जांबवत्कृतसंगरः ।
जांबूनदांबरधरो गम्यो जांबवतीविभुः ॥ 62 ॥

कालिंदीप्रथितारामकेलिर्गुंजावतंसकः ।
मंदारसुमनोभास्वान् शचीशाभीष्टदायकः ॥ 63 ॥

सत्राजिन्मानसोल्लासी सत्याजानिः शुभावहः ।
शतधन्वहरः सिद्धः पांडवप्रियकोत्सवः ॥ 64 ॥

भद्रप्रियः सुभद्राया भ्राता नाग्नाजितीविभुः ।
किरीटकुंडलधरः कल्पपल्लवलालितः ॥ 65 ॥

भैष्मीप्रणयभाषावान् मित्रविंदाधिपोऽभयः ।
स्वमूर्तिकेलिसंप्रीतो लक्ष्मणोदारमानसः ॥ 66 ॥

प्राग्ज्योतिषाधिपध्वंसी तत्सैन्यांतकरोऽमृतः ।
भूमिस्तुतो भूरिभोगो भूषणांबरसंयुतः ॥ 67 ॥

बहुरामाकृताह्लादो गंधमाल्यानुलेपनः ।
नारदादृष्टचरितो देवेशो विश्वराड्गुरुः ॥ 68 ॥

बाणबाहुविदारश्च तापज्वरविनाशकः ।
उषोद्धर्षयिताऽव्यक्तः शिववाक्तुष्टमानसः ॥ 69 ॥

महेशज्वरसंस्तुत्यः शीतज्वरभयांतकः ।
नृगराजोद्धारकश्च पौंड्रकादिवधोद्यतः ॥ 70 ॥

विविधारिच्छलोद्विग्नब्राह्मणेषु दयापरः ।
जरासंधबलद्वेषी केशिदैत्यभयंकरः ॥ 71 ॥

चक्री चैद्यांतकः सभ्यो राजबंधविमोचकः ।
राजसूयहविर्भोक्ता स्निग्धांगः शुभलक्षणः ॥ 72 ॥

धानाभक्षणसंप्रीतः कुचेलाभीष्टदायकः ।
सत्त्वादिगुणगंभीरो द्रौपदीमानरक्षकः ॥ 73 ॥

भीष्मध्येयो भक्तवश्यो भीमपूज्यो दयानिधिः ।
दंतवक्त्रशिरश्छेत्ता कृष्णः कृष्णासखः स्वराट् ॥ 74 ॥

वैजयंतीप्रमोदी च बर्हिबर्हविभूषणः ।
पार्थकौरवसंधानकारी दुश्शासनांतकः ॥ 75 ॥

बुद्धो विशुद्धः सर्वज्ञः क्रतुहिंसाविनिंदकः ।
त्रिपुरस्त्रीमानभंगः सर्वशास्त्रविशारदः ॥ 76 ॥

निर्विकारो निर्ममश्च निराभासो निरामयः ।
जगन्मोहकधर्मी च दिग्वस्त्रो दिक्पतीश्वरः ॥ 77 ॥

कल्की म्लेच्छप्रहर्ता च दुष्टनिग्रहकारकः ।
धर्मप्रतिष्टाकारी च चातुर्वर्ण्यविभागकृत् ॥ 78 ॥

युगांतको युगाक्रांतो युगकृद्युगभासकः ।
कामारिः कामकारी च निष्कामः कामितार्थदः ॥ 79 ॥

भर्गो वरेण्यः सवितुः शारंगी वैकुंठमंदिरः ।
हयग्रीवः कैटभारिः ग्राहघ्नो गजरक्षकः ॥ 80 ॥

सर्वसंशयविच्छेत्ता सर्वभक्तसमुत्सुकः ।
कपर्दी कामहारी च कला काष्ठा स्मृतिर्धृतिः ॥ 81 ॥

अनादिरप्रमेयौजाः प्रधानः सन्निरूपकः ।
निर्लेपो निःस्पृहोऽसंगो निर्भयो नीतिपारगः ॥ 82 ॥

निष्प्रेष्यो निष्क्रियः शांतो निष्प्रपंचो निधिर्नयः
कर्म्यकर्मी विकर्मी च कर्मेप्सुः कर्मभावनः ॥ 83 ॥

कर्मांगः कर्मविन्यासो महाकर्मी महाव्रती ।
कर्मभुक्कर्मफलदः कर्मेशः कर्मनिग्रहः ॥ 84 ॥

नरो नारायणो दांतः कपिलः कामदः शुचिः ।
तप्ता जप्ताऽक्षमालावान् गंता नेता लयो गतिः ॥ 85 ॥

शिष्टो द्रष्टा रिपुद्वेष्टा रोष्टा वेष्टा महानटः ।
रोद्धा बोद्धा महायोद्धा श्रद्धावान् सत्यधीः शुभः ॥ 86 ॥

मंत्री मंत्रो मंत्रगम्यो मंत्रकृत्परमंत्रहृत् ।
मंत्रभृन्मंत्रफलदो मंत्रेशो मंत्रविग्रहः ॥ 87 ॥

मंत्रांगो मंत्रविन्यासो महामंत्रो महाक्रमः ।
स्थिरधीः स्थिरविज्ञानः स्थिरप्रज्ञः स्थिरासनः ॥ 88 ॥

स्थिरयोगः स्थिराधारः स्थिरमार्गः स्थिरागमः ।
निश्श्रेयसो निरीहोऽग्निर्निरवद्यो निरंजनः ॥ 89 ॥

निर्वैरो निरहंकारो निर्दंभो निरसूयकः ।
अनंतोऽनंतबाहूरुरनंतांघ्रिरनंतदृक् ॥ 90 ॥

अनंतवक्त्रोऽनंतांगोऽनंतरूपो ह्यनंतकृत् ।
ऊर्ध्वरेता ऊर्ध्वलिंगो ह्यूर्ध्वमूर्धोर्ध्वशाखकः ॥ 91 ॥

ऊर्ध्व ऊर्ध्वाध्वरक्षी च ह्यूर्ध्वज्वालो निराकुलः ।
बीजं बीजप्रदो नित्यो निदानं निष्कृतिः कृती ॥ 92 ॥

महानणीयन् गरिमा सुषमा चित्रमालिकः ।
नभः स्पृङ्नभसो ज्योतिर्नभस्वान्निर्नभा नभः ॥ 93 ॥

अभुर्विभुः प्रभुः शंभुर्महीयान् भूर्भुवाकृतिः ।
महानंदो महाशूरो महोराशिर्महोत्सवः ॥ 94 ॥

महाक्रोधो महाज्वालो महाशांतो महागुणः ।
सत्यव्रतः सत्यपरः सत्यसंधः सतां गतिः ॥ 95 ॥

सत्येशः सत्यसंकल्पः सत्यचारित्रलक्षणः ।
अंतश्चरो ह्यंतरात्मा परमात्मा चिदात्मकः ॥ 96 ॥

रोचनो रोचमानश्च साक्षी शौरिर्जनार्दनः ।
मुकुंदो नंदनिष्पंदः स्वर्णबिंदुः पुरंदरः ॥ 97 ॥

अरिंदमः सुमंदश्च कुंदमंदारहासवान् ।
स्यंदनारूढचंडांगो ह्यानंदी नंदनंदनः ॥ 98 ॥

अनसूयानंदनोऽत्रिनेत्रानंदः सुनंदवान् ।
शंखवान्पंकजकरः कुंकुमांको जयांकुशः ॥ 99 ॥

अंभोजमकरंदाढ्यो निष्पंकोऽगरुपंकिलः ।
इंद्रश्चंद्ररथश्चंद्रोऽतिचंद्रश्चंद्रभासकः ॥ 100 ॥

उपेंद्र इंद्रराजश्च वागिंद्रश्चंद्रलोचनः ।
प्रत्यक् पराक् परंधाम परमार्थः परात्परः ॥ 101 ॥

अपारवाक् पारगामी पारावारः परावरः ।
सहस्वानर्थदाता च सहनः साहसी जयी ॥ 102 ॥

तेजस्वी वायुविशिखी तपस्वी तापसोत्तमः ।
ऐश्वर्योद्भूतिकृद्भूतिरैश्वर्यांगकलापवान् ॥ 103 ॥

अंभोधिशायी भगवान् सर्वज्ञः सामपारगः ।
महायोगी महाधीरो महाभोगी महाप्रभुः ॥ 104 ॥

महावीरो महातुष्टिर्महापुष्टिर्महागुणः ।
महादेवो महाबाहुर्महाधर्मो महेश्वरः ॥ 105 ॥

समीपगो दूरगामी स्वर्गमार्गनिरर्गलः ।
नगो नगधरो नागो नागेशो नागपालकः ॥ 106 ॥

हिरण्मयः स्वर्णरेता हिरण्यार्चिर्हिरण्यदः ।
गुणगण्यः शरण्यश्च पुण्यकीर्तिः पुराणगः ॥ 107 ॥

जन्यभृज्जन्यसन्नद्धो दिव्यपंचायुधो वशी ।
दौर्जन्यभंगः पर्जन्यः सौजन्यनिलयोऽलयः ॥ 108 ॥

जलंधरांतको भस्मदैत्यनाशी महामनाः ।
श्रेष्ठः श्रविष्ठो द्राघिष्ठो गरिष्ठो गरुडध्वजः ॥ 109 ॥

ज्येष्ठो द्रढिष्ठो वर्षिष्ठो द्राघीयान् प्रणवः फणी ।
संप्रदायकरः स्वामी सुरेशो माधवो मधुः ॥ 110 ॥

निर्निमेषो विधिर्वेधा बलवान् जीवनं बली ।
स्मर्ता श्रोता विकर्ता च ध्याता नेता समोऽसमः ॥ 111 ॥

होता पोता महावक्ता रंता मंता खलांतकः ।
दाता ग्राहयिता माता नियंताऽनंतवैभवः ॥ 112 ॥

गोप्ता गोपयिता हंता धर्मजागरिता धवः ।
कर्ता क्षेत्रकरः क्षेत्रप्रदः क्षेत्रज्ञ आत्मवित् ॥ 113 ॥

क्षेत्री क्षेत्रहरः क्षेत्रप्रियः क्षेमकरो मरुत् ।
भक्तिप्रदो मुक्तिदायी शक्तिदो युक्तिदायकः ॥ 114 ॥

शक्तियुङ्मौक्तिकस्रग्वी सूक्तिराम्नायसूक्तिगः ।
धनंजयो धनाध्यक्षो धनिको धनदाधिपः ॥ 115 ॥

महाधनो महामानी दुर्योधनविमानितः ।
रत्नाकरो रत्नरोची रत्नगर्भाश्रयः शुचिः ॥ 116 ॥

रत्नसानुनिधिर्मौलिरत्नभा रत्नकंकणः ।
अंतर्लक्ष्योऽंतरभ्यासी चांतर्ध्येयो जितासनः ॥ 117 ॥

अंतरंगो दयावांश्च ह्यंतर्मायो महार्णवः ।
सरसः सिद्धरसिकः सिद्धिः साध्यः सदागतिः ॥ 118 ॥

आयुःप्रदो महायुष्मानर्चिष्मानोषधीपतिः ।
अष्टश्रीरष्टभागोऽष्टककुब्व्याप्तयशो व्रती ॥ 119 ॥

अष्टापदः सुवर्णाभो ह्यष्टमूर्तिस्त्रिमूर्तिमान् ।
अस्वप्नः स्वप्नगः स्वप्नः सुस्वप्नफलदायकः ॥ 120 ॥

दुःस्वप्नध्वंसको ध्वस्तदुर्निमित्तः शिवंकरः ।
सुवर्णवर्णः संभाव्यो वर्णितो वर्णसम्मुखः ॥ 121 ॥

सुवर्णमुखरीतीरशिवध्यातपदांबुजः ।
दाक्षायणीवचस्तुष्टो दूर्वासोदृष्टिगोचरः ॥ 122 ॥

अंबरीषव्रतप्रीतो महाकृत्तिविभंजनः ।
महाभिचारकध्वंसी कालसर्पभयांतकः ॥ 123 ॥

सुदर्शनः कालमेघश्यामः श्रीमंत्रभावितः ।
हेमांबुजसरःस्नायी श्रीमनोभाविताकृतिः ॥ 124 ॥

श्रीप्रदत्तांबुजस्रग्वी श्रीकेलिः श्रीनिधिर्भवः ।
श्रीप्रदो वामनो लक्ष्मीनायकश्च चतुर्भुजः ॥ 125 ॥

संतृप्तस्तर्पितस्तीर्थस्नातृसौख्यप्रदर्शकः ।
अगस्त्यस्तुतिसंहृष्टो दर्शिताव्यक्तभावनः ॥ 126 ॥

कपिलार्चिः कपिलवान् सुस्नाताघविपाटनः ।
वृषाकपिः कपिस्वामिमनोऽंतःस्थितविग्रहः ॥ 127 ॥

वह्निप्रियोऽर्थसंभाव्यो जनलोकविधायकः ।
वह्निप्रभो वह्नितेजाः शुभाभीष्टप्रदो यमी ॥ 128 ॥

वारुणक्षेत्रनिलयो वरुणो वारणार्चितः ।
वायुस्थानकृतावासो वायुगो वायुसंभृतः ॥ 129 ॥

यमांतकोऽभिजननो यमलोकनिवारणः ।
यमिनामग्रगण्यश्च संयमी यमभावितः ॥ 130 ॥

इंद्रोद्यानसमीपस्थः इंद्रदृग्विषयः प्रभुः ।
यक्षराट् सरसीवासो ह्यक्षय्यनिधिकोशकृत् ॥ 131 ॥

स्वामितीर्थकृतावासः स्वामिध्येयो ह्यधोक्षजः ।
वराहाद्यष्टतीर्थाभिसेवितांघ्रिसरोरुहः ॥ 132 ॥

पांडुतीर्थाभिषिक्तांगो युधिष्ठिरवरप्रदः ।
भीमांतःकरणारूढः श्वेतवाहनसख्यवान् ॥ 133 ॥

नकुलाभयदो माद्रीसहदेवाभिवंदितः ।
कृष्णाशपथसंधाता कुंतीस्तुतिरतो दमी ॥ 134 ॥

नारदादिमुनिस्तुत्यो नित्यकर्मपरायणः ।
दर्शिताव्यक्तरूपश्च वीणानादप्रमोदितः ॥ 135 ॥

षट्कोटितीर्थचर्यावान् देवतीर्थकृताश्रमः ।
बिल्वामलजलस्नायी सरस्वत्यंबुसेवितः ॥ 136 ॥

तुंबुरूदकसंस्पर्शजनचित्ततमोऽपहः ।
मत्स्यवामनकूर्मादितीर्थराजः पुराणभृत् ॥ 137 ॥

चक्रध्येयपदांभोजः शंखपूजितपादुकः ।
रामतीर्थविहारी च बलभद्रप्रतिष्ठितः ॥ 138 ॥

जामदग्न्यसरस्तीर्थजलसेचनतर्पितः ।
पापापहारिकीलालसुस्नाताघविनाशनः ॥ 139 ॥

नभोगंगाभिषिक्तश्च नागतीर्थाभिषेकवान् ।
कुमारधारातीर्थस्थो वटुवेषः सुमेखलः ॥ 140 ॥

वृद्धस्य सुकुमारत्वप्रदः सौंदर्यवान् सुखी ।
प्रियंवदो महाकुक्षिरिक्ष्वाकुकुलनंदनः ॥ 141 ॥

नीलगोक्षीरधाराभूर्वराहाचलनायकः ।
भरद्वाजप्रतिष्ठावान् बृहस्पतिविभावितः ॥ 142 ॥

अंजनाकृतपूजावान् आंजनेयकरार्चितः ।
अंजनाद्रिनिवासश्च मुंजकेशः पुरंदरः ॥ 143 ॥

किन्नरद्वयसंबंधिबंधमोक्षप्रदायकः ।
वैखानसमखारंभो वृषज्ञेयो वृषाचलः ॥ 144 ॥

वृषकायप्रभेत्ता च क्रीडनाचारसंभ्रमः ।
सौवर्चलेयविन्यस्तराज्यो नारायणः प्रियः ॥ 145 ॥

दुर्मेधोभंजकः प्राज्ञो ब्रह्मोत्सवमहोत्सुकः ।
भद्रासुरशिरश्छेत्ता भद्रक्षेत्री सुभद्रवान् ॥ 146 ॥

मृगयाऽक्षीणसन्नाहः शंखराजन्यतुष्टिदः ।
स्थाणुस्थो वैनतेयांगभावितो ह्यशरीरवान् ॥ 147 ॥

भोगींद्रभोगसंस्थानो ब्रह्मादिगणसेवितः ।
सहस्रार्कच्छटाभास्वद्विमानांतःस्थितो गुणी ॥ 148 ॥

विष्वक्सेनकृतस्तोत्रः सनंदनवरीवृतः ।
जाह्नव्यादिनदीसेव्यः सुरेशाद्यभिवंदितः ॥ 149 ॥

सुरांगनानृत्यपरो गंधर्वोद्गायनप्रियः ।
राकेंदुसंकाशनखः कोमलांघ्रिसरोरुहः ॥ 150 ॥

कच्छपप्रपदः कुंदगुल्फकः स्वच्छकूर्परः ।
मेदुरस्वर्णवस्त्राढ्यकटिदेशस्थमेखलः ॥ 151 ॥

प्रोल्लसच्छुरिकाभास्वत्कटिदेशः शुभंकरः ।
अनंतपद्मजस्थाननाभिर्मौक्तिकमालिकः ॥ 152 ॥

मंदारचांपेयमाली रत्नाभरणसंभृतः ।
लंबयज्ञोपवीती च चंद्रश्रीखंडलेपवान् ॥ 153 ॥

वरदोऽभयदश्चक्री शंखी कौस्तुभदीप्तिमान् ।
श्रीवत्सांकितवक्षस्को लक्ष्मीसंश्रितहृत्तटः ॥ 154 ॥

नीलोत्पलनिभाकारः शोणांभोजसमाननः ।
कोटिमन्मथलावण्यश्चंद्रिकास्मितपूरितः ॥ 155 ॥

सुधास्वच्छोर्ध्वपुंड्रश्च कस्तूरीतिलकांचितः ।
पुंडरीकेक्षणः स्वच्छो मौलिशोभाविराजितः ॥ 156 ॥

पद्मस्थः पद्मनाभश्च सोममंडलगो बुधः ।
वह्निमंडलगः सूर्यः सूर्यमंडलसंस्थितः ॥ 157 ॥

श्रीपतिर्भूमिजानिश्च विमलाद्यभिसंवृतः ।
जगत्कुटुंबजनिता रक्षकः कामितप्रदः ॥ 158 ॥

अवस्थात्रययंता च विश्वतेजस्स्वरूपवान् ।
ज्ञप्तिर्ज्ञेयो ज्ञानगम्यो ज्ञानातीतः सुरातिगः ॥ 159 ॥

ब्रह्मांडांतर्बहिर्व्याप्तो वेंकटाद्रिगदाधरः ।
वेंकटाद्रिगदाधर ॐ नमः इति ॥
एवं श्रीवेंकटेशस्य कीर्तितं परमाद्भुतम् ॥ 160 ॥

नाम्नां सहस्रं संश्राव्यं पवित्रं पुण्यवर्धनम् ।
श्रवणात्सर्वदोषघ्नं रोगघ्नं मृत्युनाशनम् ॥ 1 ॥

दारिद्र्यभेदनं धर्म्यं सर्वैश्वर्यफलप्रदम् ।
कालाहिविषविच्छेदि ज्वरापस्मारभंजनम् ॥ 2 ॥

[शत्रुक्षयकरं राजग्रहपीडानिवारणम् ।
ब्रह्मराक्षसकूष्मांडभेतालभयभंजनम् ॥]

विद्याभिलाषी विद्यावान् धनार्थी धनवान् भवेत् ।
अनंतकल्पजीवी स्यादायुष्कामो महायशाः ॥ 3 ॥

पुत्रार्थी सुगुणान्पुत्रान् लभेताऽऽयुष्मतस्ततः ।
संग्रामे शत्रुविजयी सभायां प्रतिवादिजित् ॥ 4 ॥

दिव्यैर्नामभिरेभिस्तु तुलसीपूजनात्सकृत् ।
वैकुंठवासी भगवत्सदृशो विष्णुसन्निधौ ॥ 5 ॥

कल्हारपूजनान्मासात् द्वितीय इव यक्षराट् ।
नीलोत्पलार्चनात्सर्वराजपूज्यः सदा भवेत् ॥ 6 ॥

हृत्संस्थितैर्नामभिस्तु भूयाद्दृग्विषयो हरिः ।
वांछितार्थं तदा दत्वा वैकुंठं च प्रयच्छति ॥ 7 ॥

त्रिसंध्यं यो जपेन्नित्यं संपूज्य विधिना विभुम् ।
त्रिवारं पंचवारं वा प्रत्यहं क्रमशो यमी ॥ 8 ॥

मासादलक्ष्मीनाशः स्यात् द्विमासात् स्यान्नरेंद्रता ।
त्रिमासान्महदैश्वर्यं ततः संभाषणं भवेत् ॥ 9 ॥

मासं पठन्न्यूनकर्मपूर्तिं च समवाप्नुयात् ।
मार्गभ्रष्टश्च सन्मार्गं गतस्वः स्वं स्वकीयकम् ॥ 10 ॥

चांचल्यचित्तोऽचांचल्यं मनस्स्वास्थ्यं च गच्छति ।
आयुरारोग्यमैश्वर्यं ज्ञानं मोक्षं च विंदति ॥ 11 ॥

सर्वान्कामानवाप्नोति शाश्वतं च पदं तथा ।
सत्यं सत्यं पुनस्सत्यं सत्यं सत्यं न संशयः ॥ 12 ॥

इति श्री ब्रह्मांडपुराणे वसिष्ठनारदसंवादे श्रीवेंकटाचलमाहात्म्ये श्री वेंकटेश सहस्रनाम स्तोत्रं समाप्तम् ।




Browse Related Categories: