View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Nepali language.

श्री राघवेंद्र स्तोत्रम्

श्रीपूर्णबोधगुरुतीर्थपयोब्धिपारा
कामारिमाक्षविषमाक्षशिरः स्पृशंती ।
पूर्वोत्तरामिततरंगचरत्सुहंसा
देवालिसेवितपरांघ्रिपयोजलग्ना ॥ 1 ॥

जीवेशभेदगुणपूर्तिजगत्सुसत्त्व-
-नीचोच्चभावमुखनक्रगणैः समेता ।
दुर्वाद्यजापतिगिलैर्गुरुराघवेंद्र-
-वाग्देवतासरिदमुं विमली करोतु ॥ 2 ॥

श्रीराघवेंद्रः सकलप्रदाता
स्वपादकंजद्वयभक्तिमद्भ्यः ।
अघाद्रिसंभेदनदृष्टिवज्रः
क्षमासुरेंद्रोऽवतु मां सदाऽयम् ॥ 3 ॥

श्रीराघवेंद्रो हरिपादकंज-
-निषेवणाल्लब्धसमस्तसंपत् ।
देवस्वभावो दिविजद्रुमोऽय-
-मिष्टप्रदो मे सततं स भूयात् ॥ 4 ॥

भव्यस्वरूपो भवदुःखतूल-
-संघाग्निचर्यः सुखधैर्यशाली ।
समस्तदुष्टग्रहनिग्रहेशो
दुरत्ययोपप्लवसिंधुसेतुः ॥ 5 ॥

निरस्तदोषो निरवद्यवेषः
प्रत्यर्थिमूकत्त्वनिदानभाषः ।
विद्वत्परिज्ञेयमहाविशेषो
वाग्वैखरीनिर्जितभव्यशेषः ॥ 6 ॥

संतानसंपत्परिशुद्धभक्ति-
-विज्ञानवाग्देहसुपाटवादीन् ।
दत्वा शरीरोत्थसमस्तदोषान्
हत्त्वा स नोऽव्याद्गुरुराघवेंद्रः ॥ 7 ॥

यत्पादोदकसंचयः सुरनदीमुख्यापगासादिता-
-संख्यानुत्तमपुण्यसंघविलसत्प्रख्यातपुण्यावहः ।
दुस्तापत्रयनाशनो भुवि महावंध्यासुपुत्रप्रदो
व्यंगस्वंगसमृद्धिदो ग्रहमहापापापहस्तं श्रये ॥ 8 ॥

यत्पादकंजरजसा परिभूषितांगा
यत्पादपद्ममधुपायितमानसा ये ।
यत्पादपद्मपरिकीर्तनजीर्णवाच
-स्तद्दर्शनं दुरितकाननदावभूतम् ॥ 9 ॥

सर्वतंत्रस्वतंत्रोऽसौ श्रीमध्वमतवर्धनः
विजयींद्रकराब्जोत्थसुधींद्रवरपुत्रकः ॥ 10 ॥

श्रीराघवेंद्रो यतिराट् गुरुर्मे स्याद्भयापहः
ज्ञानभक्तिसुपुत्रायुर्यशः श्रीपुण्यवर्धनः ॥ 11 ॥

प्रतिवादिजयस्वांतभेदचिह्नादरो गुरुः ।
सर्वविद्याप्रवीणोऽन्यो राघवेंद्रान्न विद्यते ॥ 12 ॥

अपरोक्षीकृतश्रीशः समुपेक्षितभावजः ।
अपेक्षितप्रदाताऽन्यो राघवेंद्रान्न विद्यते ॥ 13 ॥

दयादाक्षिण्यवैराग्यवाक्पाटवमुखांकितः ।
शापानुग्रहशक्तोऽन्यो राघवेंद्रान्न विद्यते ॥ 14 ॥

अज्ञानविस्मृतिभ्रांतिसंशयाऽपस्मृतिक्षयाः ।
तंद्राकंपवचःकौंठ्यमुखा ये चेंद्रियोद्भवाः ।
दोषास्ते नाशमायांति राघवेंद्रप्रसादतः ॥ 15 ॥

ॐ श्रीराघवेंद्राय नमः इत्यऽष्टाक्षरमंत्रतः ।
जपिताद्भावितान्नित्यं इष्टार्थाः स्युर्न संशयः ॥ 16 ॥

हंतु नः कायजान् दोषान् आत्मात्मीयसमुद्भवान् ।
सर्वानपि पुमर्थांश्च ददातु गुरुरात्मवित् ॥ 17 ॥

इति कालत्रये नित्यं प्रार्थनां यः करोति सः ।
इहामुत्राप्तसर्वेष्टो मोदते नात्र संशयः ॥ 18 ॥

अगम्यमहिमा लोके राघवेंद्रो महायशाः ।
श्रीमध्वमतदुग्धाब्धिचंद्रोऽवतु सदाऽनघः ॥ 19 ॥

सर्वयात्राफलावाप्त्यै यथाशक्तिप्रदक्षिणम् ।
करोमि तव सिद्धस्य बृंदावनगतं जलम् ॥ 20 ॥

शिरसा धारयाम्यद्य सर्वतीर्थफलाप्तये ।
सर्वाभीष्टार्थसिद्ध्यर्थं नमस्कारं करोम्यहम् ।
तव संकीर्तनं वेदशास्त्रार्थज्ञानसिद्धये ॥ 21 ॥

संसारेऽक्षयसागरे प्रकृतितोऽगाधे सदा दुस्तरे
सर्वावद्यजलग्रहैरनुपमैः कामादिभंगाकुले ।
नानाविभ्रमदुर्भ्रमेऽमितभयस्तोमादिफेनोत्कटे
दुःखोत्कृष्टविषे समुद्धर गुरो मा मग्नरूपं सदा ॥ 22 ॥

राघवेंद्रगुरुस्तोत्रं यः पठेद्भक्तिपूर्वकम् ।
तस्य कुष्ठादिरोगाणां निवृत्तिस्त्वरया भवेत् ॥ 23 ॥

अंधोऽपि दिव्यदृष्टिः स्यादेडमूकोऽपि वाक्पतिः ।
पूर्णायुः पूर्णसंपत्तिः स्तोत्रस्याऽस्य जपाद्भवेत् ॥ 24 ॥

यः पिबेज्जलमेतेन स्तोत्रेणैवाभिमंत्रितम् ।
तस्य कुक्षिगता दोषाः सर्वे नश्यंति तत् क्षणात् ॥ 25 ॥

यद्वृंदावनमासाद्य पंगुः खंजोऽपि वा जनः ।
स्तोत्रेणानेन यः कुर्यात् प्रदक्षिणनमस्कृती ॥ 26 ॥

स जंघालो भवेदेव गुरुराजप्रसादतः ।
सोमसूर्योपरागे च पुष्यार्कादिसमागमे ॥ 27 ॥

योऽनुत्तममिदं स्तोत्रमष्टोत्तरशतं जपेत् ।
भूतप्रेतपिशाचादि पीडा तस्य न जायते ॥ 28 ॥

एतत् स्तोत्रं समुच्चार्य गुरोर्वृंदावनांतिके ।
दीपसंयोजनाज्ज्ञानं पुत्रलाभो भवेद्ध्रुवम् ॥ 29 ॥

परवादिजयो दिव्यज्ञानभक्त्यादिवर्धनम् ।
सर्वाभीष्टप्रवृद्धिः स्यान्नात्र कार्या विचारणा ॥ 30 ॥

राजचोरमहाव्याघ्रसर्पनक्रादिपीडनम् ।
न जायतेऽस्य स्तोत्रस्य प्रभावान्नात्र संशयः ॥ 31 ॥

यो भक्त्या गुरुराघवेंद्रचरणद्वंद्वं स्मरन् यः पठेत्
स्तोत्रं दिव्यमिदं सदा न हि भवेत्तस्यासुखं किंचन ।
किं त्विष्टार्थसमृद्धिरेव कमलानाथप्रसादोदयात्
कीर्तिर्दिग्विदिता विभूतिरतुला साक्षी हयास्योऽत्र हि ॥ 32 ॥

फलशृतिः
इति श्री राघवेंद्रार्य गुरुराजप्रसादतः ।
कृतं स्तोत्रमिदं पुण्यं श्रीमद्भिर्ह्यप्पणाभिदैः ॥

पूज्याय राघवेंद्राय सत्यधर्मरताय च ।
भजतां कल्पवृक्षाय नमतां कामधेनवे ॥

आपादमौलिपर्यंतं गुरूणामाकृतिं स्मरेत् ।
तेन विघ्नः प्रणश्यंति सिद्ध्यंति च मनोरथाः ॥

दुर्वादिध्वांतरवये वैष्णवेंदीवरेंदवे ।
श्रीराघवेंद्र गुरवे नमोऽत्यंतदयालवे ॥

मूकोऽपि यत्प्रसादेन मुकुंदशयनाय ते ।
राजराजायते रिक्तो राघवेंद्रं तमाश्रये ।

इति श्री अप्पण्णाचार्यविरचितं श्रीराघवेंद्र स्तोत्रं संपूर्णम् ॥




Browse Related Categories: