नीलकण्ठ वाहनं द्विषड्बुजं किरीटिनं
लोल रत्न कुण्डल प्रबाभिराम षण्मुखं
शूल शक्ति दण्ड कुक्कु ताक्षमालिका धरम्
बालमीश्वरं कुमारशैल वासिनं भजे ॥
वल्लि देवयानिका समुल्लसन्त मीश्वरं
मल्लिकादि दिव्यपुष्प मालिका विराजितं
जल्ललि निनाद शङ्ख वादनप्रियं सदा
पल्लवारुणं कुमारशैल वासिनं भजे ॥
षडाननं कुङ्कुम रक्तवर्णं
महामतिं दिव्य मयूर वाहनं
रुद्रस्य सूनुं सुर सैन्य नाथं
गुहं सदा शरणमहं भजे ॥
मयूराधिरूढं महावाक्यगूढं
मनोहारिदेहं महच्चित्तगेहम्
महीदेवदेवं महावेदभावं
महादेवबालं भजे लोकपालम् ॥