अस्य श्रीदक्षिणामूर्ति सहस्रनामस्तोत्रस्य ब्रह्मा ऋषिः अनुष्टुप् छन्दः श्रीदक्षिणामूर्तिर्देवता ॐ बीजं स्वाहा शक्तिः नमः कीलकं मेधादक्षिणामूर्ति प्रसादसिद्ध्यर्थे जपे विनियोगः ॥
ह्रामित्यादिना न्यासः ॥
ध्यानं
सिद्धितोयनिधेर्मध्ये रत्नग्रैवे मनोरमे ।
कदम्बवनिकामध्ये श्रीमद्वटतरोरधः ॥ 1 ॥
आसीनमाद्यं पुरुषमादिमध्यान्तवर्जितम् ।
शुद्धस्फटिकगोक्षीरशरत्पूर्णेन्दुशेखरम् ॥ 2 ॥
दक्षिणे चाक्षमालां च वह्निं वै वामहस्तके ।
जटामण्डलसंलग्नशीतांशुकरमण्डितम् ॥ 3 ॥
नागहारधरं चारुकङ्कणैः कटिसूत्रकैः ।
विराजमानवृषभं व्याघ्रचर्माम्बरावृतम् ॥ 4 ॥
चिन्तामणिमहाबृन्दैः कल्पकैः कामधेनुभिः ।
चतुःषष्टिकलाविद्यामूर्तिभिः श्रुतिमस्तकैः ॥ 5 ॥
रत्नसिंहासने साधुद्वीपिचर्मसमायुते ।
तत्राष्टदलपद्मस्य कर्णिकायां सुशोभने ॥ 6 ॥
वीरासने समासीनं लम्बदक्षपदाम्बुजम् ।
ज्ञानमुद्रां पुस्तकं च वराभीतिधरं हरम् ॥ 7 ॥
पादमूलसमाक्रान्तमहापस्मारवैभवम् ।
रुद्राक्षमालाभरणभूषितं भूतिभासुरम् ॥ 8 ॥
गजचर्मोत्तरीयं च मन्दस्मितमुखाम्बुजम् ।
सिद्धबृन्दैर्योगिबृन्दैर्मुनिबृन्दैर्निषेवितम् ॥ 9 ॥
आराध्यमानवृषभमग्नीन्दुरविलोचनम् ।
पूरयन्तं कृपादृष्ट्या पुमर्थानाश्रिते जने ॥ 10 ॥
एवं विभावयेदीशं सर्वविद्याकलानिधिम् ॥ 11 ॥
लमित्यादि पञ्चोपचाराः ॥
स्तोत्रं
ओम् । देवदेवो महादेवो देवानामपि देशिकः ।
दक्षिणामूर्तिरीशानो दयापूरितदिङ्मुखः ॥ 1 ॥
कैलासशिखरोत्तुङ्गकमनीयनिजाकृतिः ।
वटद्रुमतटीदिव्यकनकासनसंस्थितः ॥ 2 ॥
कटीतटपटीभूतकरिचर्मोज्ज्वलाकृतिः ।
पाटीरपाण्डुराकारपरिपूर्णसुधाधिपः ।3 ॥
जटाकोटीरघटितसुधाकरसुधाप्लुतः ।
पश्यल्ललाटसुभगसुन्दरभ्रूविलासवान् ॥ 4 ॥
कटाक्षसरणीनिर्यत्करुणापूर्णलोचनः ।
कर्णालोलतटिद्वर्णकुण्डलोज्ज्वलगण्डभूः ॥ 5 ॥
तिलप्रसूनसङ्काशनासिकापुटभासुरः ।
मन्दस्मितस्फुरन्मुग्धमहनीयमुखाम्बुजः ॥ 6 ॥
कुन्दकुड्मलसंस्पर्धिदन्तपङ्क्तिविराजितः ।
सिन्दूरारुणसुस्निग्धकोमलाधरपल्लवः ॥ 7 ॥
शङ्खाटोपगलद्दिव्यगलवैभवमञ्जुलः ।
करकन्दलितज्ञानमुद्रारुद्राक्षमालिकः ॥ 8 ॥
अन्यहस्ततलन्यस्तवीणापुस्तोल्लसद्वपुः ।
विशालरुचिरोरस्कवलिमत्पल्लवोदरः ॥ 9 ॥
बृहत्कटिनितम्बाढ्यः पीवरोरुद्वयान्वितः ।
जङ्घाविजिततूणीरस्तुङ्गगुल्फयुगोज्ज्वलः ॥ 10 ॥
मृदुपाटलपादाब्जश्चन्द्राभनखदीधितिः ।
अपसव्योरुविन्यस्तसव्यपादसरोरुहः ॥ 11 ॥
घोरापस्मारनिक्षिप्तधीरदक्षपदाम्बुजः ।
सनकादिमुनिध्येयः सर्वाभरणभूषितः ॥ 12 ॥
दिव्यचन्दनलिप्ताङ्गश्चारुहासपरिष्कृतः ।
कर्पूरधवलाकारः कन्दर्पशतसुन्दरः ॥ 13 ॥
कात्यायनीप्रेमनिधिः करुणारसवारिधिः ।
कामितार्थप्रदः श्रीमत्कमलावल्लभप्रियः ॥ 14 ॥
कटाक्षितात्मविज्ञानः कैवल्यानन्दकन्दलः ।
मन्दहाससमानेन्दुश्छिन्नाज्ञानतमस्ततिः ॥ 15 ॥
संसारानलसन्तप्तजनतामृतसागरः ।
गम्भीरहृदयाम्भोजनभोमणिनिभाकृतिः ॥ 16 ॥
निशाकरकराकारवशीकृतजगत्त्रयः ।
तापसाराध्यपादाब्जस्तरुणानन्दविग्रहः ॥ 17 ॥
भूतिभूषितसर्वाङ्गो भूताधिपतिरीश्वरः ।
वदनेन्दुस्मितज्योत्स्नानिलीनत्रिपुराकृतिः ॥ 18 ॥
तापत्रयतमोभानुः पापारण्यदवानलः ।
संसारसागरोद्धर्ता हंसाग्र्योपास्यविग्रहः ॥ 19 ॥
ललाटहुतभुग्दग्धमनोभवशुभाकृतिः ।
तुच्छीकृतजगज्जालस्तुषारकरशीतलः ॥ 20 ॥
अस्तङ्गतसमस्तेच्छो निस्तुलानन्दमन्थरः ।
धीरोदात्तगुणाधार उदारवरवैभवः ॥ 21 ॥
अपारकरुणामूर्तिरज्ञानध्वान्तभास्करः ।
भक्तमानसहंसाग्र्यो भवामयभिषक्तमः ॥ 22 ॥
योगीन्द्रपूज्यपादाब्जो योगपट्टोल्लसत्कटिः ।
शुद्धस्फटिकसङ्काशो बद्धपन्नगभूषणः ॥ 23 ॥
नानामुनिसमाकीर्णो नासाग्रन्यस्तलोचनः ।
वेदमूर्धैकसंवेद्यो नादध्यानपरायणः ॥ 24 ॥
धराधरेन्दुरानन्दसन्दोहरससागरः ।
द्वैतबृन्दविमोहान्ध्यपराकृतदृगद्भुतः ॥ 25 ॥
प्रत्यगात्मा परञ्ज्योतिः पुराणः परमेश्वरः ।
प्रपञ्चोपशमः प्राज्ञः पुण्यकीर्तिः पुरातनः ॥ 26 ॥
सर्वाधिष्ठानसन्मात्रः स्वात्मबन्धहरो हरः ।
सर्वप्रेमनिजाहासः सर्वानुग्रहकृच्छिवः ॥ 27 ॥
सर्वेन्द्रियगुणाभासः सर्वभूतगुणाश्रयः ।
सच्चिदानन्दपूर्णात्मा सर्वभूतगुणाश्रयः ॥ 28 ॥
सर्वभूतान्तरः साक्षी सर्वज्ञः सर्वकामदः ।
सनकादिमहायोगिसमाराधितपादुकः ॥ 29 ॥
आदिदेवो दयासिन्धुः शिक्षितासुरविग्रहः ।
यक्षकिन्नरगन्धर्वस्तूयमानात्मवैभवः ॥ 30 ॥
ब्रह्मादिदेवविनुतो योगमायानियोजकः ।
शिवयोगी शिवानन्दः शिवभक्तसमुद्धरः ॥ 31 ॥
वेदान्तसारसन्दोहः सर्वसत्त्वावलम्बनः ।
वटमूलाश्रयो वाग्मी मान्यो मलयजप्रियः ॥ 32 ॥
सुशीलो वाञ्छितार्थज्ञः प्रसन्नवदनेक्षणः ।
नृत्तगीतकलाभिज्ञः कर्मवित्कर्ममोचकः ॥ 33 ॥
कर्मसाक्षी कर्ममयः कर्मणां च फलप्रदः ।
ज्ञानदाता सदाचारः सर्वोपद्रवमोचकः ॥ 34 ॥
अनाथनाथो भगवानाश्रितामरपादपः ।
वरप्रदः प्रकाशात्मा सर्वभूतहिते रतः ॥ 35 ॥
व्याघ्रचर्मासनासीन आदिकर्ता महेश्वरः ।
सुविक्रमः सर्वगतो विशिष्टजनवत्सलः ॥ 36 ॥
चिन्ताशोकप्रशमनो जगदानन्दकारकः ।
रश्मिमान् भुवनेशश्च देवासुरसुपूजितः ॥ 37 ॥
मृत्युञ्जयो व्योमकेशः षट्त्रिंशत्तत्त्वसङ्ग्रहः ।
अज्ञातसम्भवो भिक्षुरद्वितीयो दिगम्बरः ॥ 38 ॥
समस्तदेवतामूर्तिः सोमसूर्याग्निलोचनः ।
सर्वसाम्राज्यनिपुणो धर्ममार्गप्रवर्तकः ॥ 39 ॥
विश्वाधिकः पशुपतिः पशुपाशविमोचकः ।
अष्टमूर्तिर्दीप्तमूर्तिर्नामोच्चारणमुक्तिदः ॥ 40 ॥
सहस्रादित्यसङ्काशः सदाषोडशवार्षिकः ।
दिव्यकेलीसमायुक्तो दिव्यमाल्याम्बरावृतः ॥ 41 ॥
अनर्घरत्नसम्पूर्णो मल्लिकाकुसुमप्रियः ।
तप्तचामीकराकारो जितदावानलाकृतिः ॥ 42 ॥
निरञ्जनो निर्विकारो निजावासो निराकृतिः ।
जगद्गुरुर्जगत्कर्ता जगदीशो जगत्पतिः ॥ 43 ॥
कामहन्ता काममूर्तिः कल्याणवृषवाहनः ।
गङ्गाधरो महादेवो दीनबन्धविमोचकः ॥ 44 ॥
धूर्जटिः खण्डपरशुः सद्गुणो गिरिजासखः ।
अव्ययो भूतसेनेशः पापघ्नः पुण्यदायकः ॥ 45 ॥
उपदेष्टा दृढप्रज्ञो रुद्रो रोगविनाशनः ।
नित्यानन्दो निराधारो हरो देवशिखामणिः ॥ 46 ॥
प्रणतार्तिहरः सोमः सान्द्रानन्दो महामतिः ।
आश्चर्यवैभवो देवः संसारार्णवतारकः ॥ 47 ॥
यज्ञेशो राजराजेशो भस्मरुद्राक्षलाञ्छनः ।
अनन्तस्तारकः स्थाणुः सर्वविद्येश्वरो हरिः ॥ 48 ॥
विश्वरूपो विरूपाक्षः प्रभुः परिबृढो दृढः ।
भव्यो जितारिषड्वर्गो महोदारो विषाशनः ॥ 49 ॥
सुकीर्तिरादिपुरुषो जरामरणवर्जितः ।
प्रमाणभूतो दुर्ज्ञेयः पुण्यः परपुरञ्जयः ॥ 50 ॥
गुणाकरो गुणश्रेष्ठः सच्चिदानन्दविग्रहः ।
सुखदः कारणं कर्ता भवबन्धविमोचकः ॥ 51 ॥
अनिर्विण्णो गुणग्राही निष्कलङ्कः कलङ्कहा ।
पुरुषः शाश्वतो योगी व्यक्ताव्यक्तः सनातनः ॥ 52 ॥
चराचरात्मा सूक्ष्मात्मा विश्वकर्मा तमोपहृत् ।
भुजङ्गभूषणो भर्गस्तरुणः करुणालयः ॥ 53 ॥
अणिमादिगुणोपेतो लोकवश्यविधायकः ।
योगपट्टधरो मुक्तो मुक्तानां परमा गतिः ॥ 54 ॥
गुरुरूपधरः श्रीमत्परमानन्दसागरः ।
सहस्रबाहुः सर्वेशः सहस्रावयवान्वितः ॥ 55 ॥
सहस्रमूर्धा सर्वात्मा सहस्राक्षः सहस्रपात् ।
निराभासः सूक्ष्मतनुर्हृदि ज्ञातः परात्परः ॥ 56 ॥
सर्वात्मगः सर्वसाक्षी निःसङ्गो निरुपद्रवः ।
निष्कलः सकलाध्यक्षश्चिन्मयस्तमसः परः ॥ 57 ॥
ज्ञानवैराग्यसम्पन्नो योगानन्दमयः शिवः ।
शाश्वतैश्वर्यसम्पूर्णो महायोगीश्वरेश्वरः ॥ 58 ॥
सहस्रशक्तिसंयुक्तः पुण्यकायो दुरासदः ।
तारकब्रह्मसम्पूर्णस्तपस्विजनसंवृतः ॥ 59 ॥
विधीन्द्रामरसम्पूज्यो ज्योतिषां ज्योतिरुत्तमः ।
निरक्षरो निरालम्बः स्वात्मारामो विकर्तनः ॥ 60 ॥
निरवद्यो निरातङ्को भीमो भीमपराक्रमः ।
वीरभद्रः पुरारातिर्जलन्धरशिरोहरः ॥ 61 ॥
अन्धकासुरसंहर्ता भगनेत्रभिदद्भुतः ।
विश्वग्रासोऽधर्मशत्रुर्ब्रह्मज्ञानैकमन्थरः ॥ 62 ॥
अग्रेसरस्तीर्थभूतः सितभस्मावकुण्ठनः ।
अकुण्ठमेधाः श्रीकण्ठो वैकुण्ठपरमप्रियः ॥ 63 ॥
ललाटोज्ज्वलनेत्राब्जस्तुषारकरशेखरः ।
गजासुरशिरश्छेत्ता गङ्गोद्भासितमूर्धजः ॥ 64 ॥
कल्याणाचलकोदण्डः कमलापतिसायकः ।
वारांशेवधितूणीरः सरोजासनसारथिः ॥ 65 ॥
त्रयीतुरङ्गसङ्क्रान्तो वासुकिज्याविराजितः ।
रवीन्दुचरणाचारिधरारथविराजितः ॥ 66 ॥
त्रय्यन्तप्रग्रहोदारचारुघण्टारवोज्ज्वलः ।
उत्तानपर्वलोमाढ्यो लीलाविजितमन्मथः ॥ 67 ॥
जातुप्रपन्नजनताजीवनोपायनोत्सुकः ।
संसारार्णवनिर्मग्नसमुद्धरणपण्डितः ॥ 68 ॥
मदद्विरदधिक्कारिगतिमञ्जुलवैभवः ।
मत्तकोकिलमाधुर्यरसनिर्भरगीर्गणः ॥ 69 ॥
कैवल्योदधिकल्लोललीलाताण्डवपण्डितः ।
विष्णुर्जिष्णुर्वासुदेवः प्रभविष्णुः पुरातनः ॥ 70 ॥
वर्धिष्णुर्वरदो वैद्यो हरिर्नारायणोऽच्युतः ।
अज्ञानवनदावाग्निः प्रज्ञाप्रासादभूपतिः ॥ 71 ॥
सर्पभूषितसर्वाङ्गः कर्पूरोज्ज्वलिताकृतिः ।
अनादिमध्यनिधनो गिरीशो गिरिजापतिः ॥ 72 ॥
वीतरागो विनीतात्मा तपस्वी भूतभावनः ।
देवासुरगुरुध्येयो देवासुरनमस्कृतः ॥ 73 ॥
देवादिदेवो देवर्षिर्देवासुरवरप्रदः ।
सर्वदेवमयोऽचिन्त्यो देवात्मा चात्मसम्भवः ॥ 74 ॥
निर्लेपो निष्प्रपञ्चात्मा निर्विघ्नो विघ्ननाशकः ।
एकज्योतिर्निरातङ्को व्याप्तमूर्तिरनाकुलः ॥ 75 ॥
निरवद्यपदोपाधिर्विद्याराशिरनुत्तमः ।
नित्यानन्दः सुराध्यक्षो निःसङ्कल्पो निरञ्जनः ॥ 76 ॥
निष्कलङ्को निराकारो निष्प्रपञ्चो निरामयः ।
विद्याधरो वियत्केशो मार्कण्डेयवरप्रदः ॥ 77 ॥
भैरवो भैरवीनाथः कामदः कमलासनः ।
वेदवेद्यः सुरानन्दो लसज्ज्योतिः प्रभाकरः ॥ 78 ॥
चूडामणिः सुराधीशो यज्ञगेयो हरिप्रियः ।
निर्लेपो नीतिमान् सूत्री श्रीहालाहलसुन्दरः ॥ 79 ॥
धर्मदक्षो महाराजः किरीटी वन्दितो गुहः ।
माधवो यामिनीनाथः शम्बरः शबरीप्रियः ॥ 80 ॥
सङ्गीतवेत्ता लोकज्ञः शान्तः कलशसम्भवः ।
ब्रह्मण्यो वरदो नित्यः शूली गुरुवरो हरः ॥ 81 ॥
मार्ताण्डः पुण्डरीकाक्षो लोकनायकविक्रमः ।
मुकुन्दार्च्यो वैद्यनाथः पुरन्दरवरप्रदः ॥ 82 ॥
भाषाविहीनो भाषाज्ञो विघ्नेशो विघ्ननाशनः ।
किन्नरेशो बृहद्भानुः श्रीनिवासः कपालभृत् ॥ 83 ॥
विजयो भूतभावज्ञो भीमसेनो दिवाकरः ।
बिल्वप्रियो वसिष्ठेशः सर्वमार्गप्रवर्तकः ॥ 84 ॥
ओषधीशो वामदेवो गोविन्दो नीललोहितः ।
षडर्धनयनः श्रीमन्महादेवो वृषध्वजः ॥ 85 ॥
कर्पूरदीपिकालोलः कर्पूररसचर्चितः ।
अव्याजकरुणामूर्तिस्त्यागराजः क्षपाकरः ॥ 86 ॥
आश्चर्यविग्रहः सूक्ष्मः सिद्धेशः स्वर्णभैरवः ।
देवराजः कृपासिन्धुरद्वयोऽमितविक्रमः ॥ 87 ॥
निर्भेदो नित्यसत्वस्थो निर्योगक्षेम आत्मवान् ।
निरपायो निरासङ्गो निःशब्दो निरुपाधिकः ॥ 88 ॥
भवः सर्वेश्वरः स्वामी भवभीतिविभञ्जनः ।
दारिद्र्यतृणकूटाग्निर्दारितासुरसन्ततिः ॥ 89 ॥
मुक्तिदो मुदितोऽकुब्जो धार्मिको भक्तवत्सलः ।
अभ्यासातिशयज्ञेयश्चन्द्रमौलिः कलाधरः ॥ 90 ॥
महाबलो महावीर्यो विभुः श्रीशः शुभप्रदः ।
सिद्धः पुराणपुरुषो रणमण्डलभैरवः ॥ 91 ॥
सद्योजातो वटारण्यवासी पुरुषवल्लभः ।
हरिकेशो महात्राता नीलग्रीवः सुमङ्गलः ॥ 92 ॥
हिरण्यबाहुस्तीक्ष्णांशुः कामेशः सोमविग्रहः ।
सर्वात्मा सर्वकर्ता च ताण्डवो मुण्डमालिकः ॥ 93 ॥
अग्रगण्यः सुगम्भीरो देशिको वैदिकोत्तमः ।
प्रसन्नदेवो वागीशश्चिन्तातिमिरभास्करः ॥ 94 ॥
गौरीपतिस्तुङ्गमौलिर्मखराजो महाकविः ।
श्रीधरः सर्वसिद्धेशो विश्वनाथो दयानिधिः ॥ 95 ॥
अन्तर्मुखो बहिर्दृष्टिः सिद्धवेषमनोहरः ।
कृत्तिवासाः कृपासिन्धुर्मन्त्रसिद्धो मतिप्रदः ॥ 96 ॥
महोत्कृष्टः पुण्यकरो जगत्साक्षी सदाशिवः ।
महाक्रतुर्महायज्वा विश्वकर्मा तपोनिधिः ॥ 97 ॥
छन्दोमयो महाज्ञानी सर्वज्ञो देववन्दितः ।
सार्वभौमः सदानन्दः करुणामृतवारिधिः ॥ 98 ॥
कालकालः कलिध्वंसी जरामरणनाशकः ।
शितिकण्ठश्चिदानन्दो योगिनीगणसेवितः ॥ 99 ॥
चण्डीशः शुकसंवेद्यः पुण्यश्लोको दिवस्पतिः ।
स्थायी सकलतत्त्वात्मा सदासेवकवर्धनः ॥ 100 ॥
रोहिताश्वः क्षमारूपी तप्तचामीकरप्रभः ।
त्रियम्बको वररुचिर्देवदेवश्चतुर्भुजः ॥ 101 ॥
विश्वम्भरो विचित्राङ्गो विधाता पुरशासनः ।
सुब्रह्मण्यो जगत्स्वामी रोहिताक्षः शिवोत्तमः ॥ 102 ॥
नक्षत्रमालाभरणो मघवान् अघनाशनः ।
विधिकर्ता विधानज्ञः प्रधानपुरुषेश्वरः ॥ 103 ॥
चिन्तामणिः सुरगुरुर्ध्येयो नीराजनप्रियः ।
गोविन्दो राजराजेशो बहुपुष्पार्चनप्रियः ॥ 104 ॥
सर्वानन्दो दयारूपी शैलजासुमनोहरः ।
सुविक्रमः सर्वगतो हेतुसाधनवर्जितः ॥ 105 ॥
वृषाङ्को रमणीयाङ्गः सदङ्घ्रिः सामपारगः ।
मन्त्रात्मा कोटिकन्दर्पसौन्दर्यरसवारिधिः ॥ 106 ॥
यज्ञेशो यज्ञपुरुषः सृष्टिस्थित्यन्तकारणम् ।
परहंसैकजिज्ञास्यः स्वप्रकाशस्वरूपवान् ॥ 107 ॥
मुनिमृग्यो देवमृग्यो मृगहस्तो मृगेश्वरः ।
मृगेन्द्रचर्मवसनो नरसिंहनिपातनः ॥ 108 ॥
मुनिवन्द्यो मुनिश्रेष्ठो मुनिबृन्दनिषेवितः ।
दुष्टमृत्युरदुष्टेहो मृत्युहा मृत्युपूजितः ॥ 109 ॥
अव्यक्तोऽम्बुजजन्मादिकोटिकोटिसुपूजितः ।
लिङ्गमूर्तिरलिङ्गात्मा लिङ्गात्मा लिङ्गविग्रहः ॥ 110 ॥
यजुर्मूर्तिः साममूर्तिरृङ्मूर्तिर्मूर्तिवर्जितः ।
विश्वेशो गजचर्मैकचेलाञ्चितकटीतटः ॥ 111 ॥
पावनान्तेवसद्योगिजनसार्थसुधाकरः ।
अनन्तसोमसूर्याग्निमण्डलप्रतिमप्रभः ॥ 112 ॥
चिन्ताशोकप्रशमनः सर्वविद्याविशारदः ।
भक्तविज्ञप्तिसन्धाता कर्ता गिरिवराकृतिः ॥ 113 ॥
ज्ञानप्रदो मनोवासः क्षेम्यो मोहविनाशनः ।
सुरोत्तमश्चित्रभानुः सदावैभवतत्परः ॥ 114 ॥
सुहृदग्रेसरः सिद्धज्ञानमुद्रो गणाधिपः ।
आगमश्चर्मवसनो वाञ्छितार्थफलप्रदः ॥ 115 ॥
अन्तर्हितोऽसमानश्च देवसिंहासनाधिपः ।
विवादहन्ता सर्वात्मा कालः कालविवर्जितः ॥ 116 ॥
विश्वातीतो विश्वकर्ता विश्वेशो विश्वकारणम् ।
योगिध्येयो योगनिष्ठो योगात्मा योगवित्तमः ॥ 117 ॥
ओङ्काररूपो भगवान् बिन्दुनादमयः शिवः ।
चतुर्मुखादिसंस्तुत्यश्चतुर्वर्गफलप्रदः ॥ 118 ॥
सह्याचलगुहावासी साक्षान्मोक्षरसामृतः ।
दक्षाध्वरसमुच्छेत्ता पक्षपातविवर्जितः ॥ 119 ॥
ओङ्कारवाचकः शम्भुः शङ्करः शशिशीतलः ।
पङ्कजासनसंसेव्यः किङ्करामरवत्सलः ॥ 120 ॥
नतदौर्भाग्यतूलाग्निः कृतकौतुकमङ्गलः ।
त्रिलोकमोहनः श्रीमत्त्रिपुण्ड्राङ्कितमस्तकः ॥ 121 ॥
क्रौञ्चारिजनकः श्रीमद्गणनाथसुतान्वितः ।
अद्भुतानन्तवरदोऽपरिच्छिनात्मवैभवः ॥ 122 ॥
इष्टापूर्तप्रियः शर्व एकवीरः प्रियंवदः ।
ऊहापोहविनिर्मुक्त ओङ्कारेश्वरपूजितः ॥ 123 ॥
रुद्राक्षवक्षा रुद्राक्षरूपो रुद्राक्षपक्षकः ।
भुजगेन्द्रलसत्कण्ठो भुजङ्गाभरणप्रियः ॥ 124 ॥
कल्याणरूपः कल्याणः कल्याणगुणसंश्रयः ।
सुन्दरभ्रूः सुनयनः सुललाटः सुकन्धरः ॥ 125 ॥
विद्वज्जनाश्रयो विद्वज्जनस्तव्यपराक्रमः ।
विनीतवत्सलो नीतिस्वरूपो नीतिसंश्रयः ॥ 126 ॥
अतिरागी वीतरागी रागहेतुर्विरागवित् ।
रागहा रागशमनो रागदो रागिरागवित् ॥ 127 ॥
मनोन्मनो मनोरूपो बलप्रमथनो बलः ।
विद्याकरो महाविद्यो विद्याविद्याविशारदः ॥ 128 ॥
वसन्तकृद्वसन्तात्मा वसन्तेशो वसन्तदः ।
प्रावृट्कृत् प्रावृडाकारः प्रावृट्कालप्रवर्तकः ॥ 129 ॥
शरन्नाथो शरत्कालनाशकः शरदाश्रयः ।
कुन्दमन्दारपुष्पौघलसद्वायुनिषेवितः ॥ 130 ॥
दिव्यदेहप्रभाकूटसन्दीपितदिगन्तरः ।
देवासुरगुरुस्तव्यो देवासुरनमस्कृतः ॥ 131 ॥
वामाङ्गभागविलसच्छ्यामलावीक्षणप्रियः ।
कीर्त्याधारः कीर्तिकरः कीर्तिहेतुरहेतुकः ॥ 132 ॥
शरणागतदीनार्तपरित्राणपरायणः ।
महाप्रेतासनासीनो जितसर्वपितामहः ॥ 133 ॥
मुक्तादामपरीताङ्गो नानागानविशारदः ।
विष्णुब्रह्मादिवन्द्याङ्घ्रिर्नानादेशैकनायकः ॥ 134 ॥
धीरोदात्तो महाधीरो धैर्यदो धैर्यवर्धकः ।
विज्ञानमय आनन्दमयः प्राणमयोऽन्नदः ॥ 135 ॥
भवाब्धितरणोपायः कविर्दुःस्वप्ननाशनः ।
गौरीविलाससदनः पिशचानुचरावृतः ॥ 136 ॥
दक्षिणाप्रेमसन्तुष्टो दारिद्र्यवडवानलः ।
अद्भुतानन्तसङ्ग्रामो ढक्कावादनतत्परः ॥ 137 ॥
प्राच्यात्मा दक्षिणाकारः प्रतीच्यात्मोत्तराकृतिः ।
ऊर्ध्वाद्यन्यदिगाकारो मर्मज्ञः सर्वशिक्षकः ॥ 138 ॥
युगावहो युगाधीशो युगात्मा युगनायकः ।
जङ्गमः स्थावराकारः कैलासशिखरप्रियः ॥ 139 ॥
हस्तराजत्पुण्डरीकः पुण्डरीकनिभेक्षणः ।
लीलाविडम्बितवपुर्भक्तमानसमण्डितः ॥ 140 ॥
बृन्दारकप्रियतमो बृन्दारकवरार्चितः ।
नानाविधानेकरत्नलसत्कुण्डलमण्डितः ॥ 141 ॥
निःसीममहिमा नित्यलीलाविग्रहरूपधृत् ।
चन्दनद्रवदिग्धाङ्गश्चाम्पेयकुसुमार्चितः ॥ 142 ॥
समस्तभक्तसुखदः परमाणुर्महाह्रदः ।
अलौकिको दुष्प्रधर्षः कपिलः कालकन्धरः ॥ 143 ॥
कर्पूरगौरः कुशलः सत्यसन्धो जितेन्द्रियः ।
शाश्वतैश्वर्यविभवः पोषकः सुसमाहितः ॥ 144 ॥
महर्षिनाथितो ब्रह्मयोनिः सर्वोत्तमोत्तमः ।
भूमिभारार्तिसंहर्ता षडूर्मिरहितो मृडः ॥ 145 ॥
त्रिविष्टपेश्वरः सर्वहृदयाम्बुजमध्यगः ।
सहस्रदलपद्मस्थः सर्ववर्णोपशोभितः ॥ 146 ॥
पुण्यमूर्तिः पुण्यलभ्यः पुण्यश्रवणकीर्तनः ।
सूर्यमण्डलमध्यस्थश्चन्द्रमण्डलमध्यगः ॥ 147 ॥
सद्भक्तध्याननिगलः शरणागतपालकः ।
श्वेतातपत्ररुचिरः श्वेतचामरवीजितः ॥ 148 ॥
सर्वावयवसम्पूर्णः सर्वलक्षणलक्षितः ।
सर्वमङ्गलमाङ्गल्यः सर्वकारणकारणः ॥ 149 ॥
आमोदो मोदजनकः सर्पराजोत्तरीयकः ।
कपाली कोविदः सिद्धकान्तिसंवलिताननः ॥ 150 ॥
सर्वसद्गुरुसंसेव्यो दिव्यचन्दनचर्चितः ।
विलासिनीकृतोल्लास इच्छाशक्तिनिषेवितः ॥ 151 ॥
अनन्तानन्दसुखदो नन्दनः श्रीनिकेतनः ।
अमृताब्धिकृतावासो नित्यक्लीबो निरामयः ॥ 152 ॥
अनपायोऽनन्तदृष्टिरप्रमेयोऽजरोऽमरः ।
तमोमोहप्रतिहतिरप्रतर्क्योऽमृतोऽक्षरः ॥ 153 ॥
अमोघबुद्धिराधार आधाराधेयवर्जितः ।
ईषणात्रयनिर्मुक्त इहामुत्रविवर्जितः ॥ 154 ॥
ऋग्यजुःसामनयनो बुद्धिसिद्धिसमृद्धिदः ।
औदार्यनिधिरापूर्ण ऐहिकामुष्मिकप्रदः ॥ 155 ॥
शुद्धसन्मात्रसंविद्धीस्वरूपसुखविग्रहः ।
दर्शनप्रथमाभासो दृष्टिदृश्यविवर्जितः ॥ 156 ॥
अग्रगण्योऽचिन्त्यरूपः कलिकल्मषनाशनः ।
विमर्शरूपो विमलो नित्यरूपो निराश्रयः ॥ 157 ॥
नित्यशुद्धो नित्यबुद्धो नित्यमुक्तोऽपराकृतः ।
मैत्र्यादिवासनालभ्यो महाप्रलयसंस्थितः ॥ 158 ॥
महाकैलासनिलयः प्रज्ञानघनविग्रहः ।
श्रीमान् व्याघ्रपुरावासो भुक्तिमुक्तिप्रदायकः ॥ 159 ॥
जगद्योनिर्जगत्साक्षी जगदीशो जगन्मयः ।
जपो जपपरो जप्यो विद्यासिंहासनप्रभुः ॥ 160 ॥
तत्त्वानां प्रकृतिस्तत्त्वं तत्त्वम्पदनिरूपितः ।
दिक्कालाद्यनवच्छिन्नः सहजानन्दसागरः ॥ 161 ॥
प्रकृतिः प्राकृतातीतो विज्ञानैकरसाकृतिः ।
निःशङ्कमतिदूरस्थश्चैत्यचेतनचिन्तनः ॥ 162 ॥
तारकानां हृदन्तस्थस्तारकस्तारकान्तकः ।
ध्यानैकप्रकटो ध्येयो ध्यानी ध्यानविभूषणः ॥ 163 ॥
परं व्योम परं धाम परमात्मा परं पदम् ।
पूर्णानन्दः सदानन्दो नादमध्यप्रतिष्ठितः ॥ 164 ॥
प्रमाविपर्ययातीतः प्रणताज्ञाननाशकः ।
बाणार्चिताङ्घ्रिर्बहुदो बालकेलिकुतूहली ॥ 165 ॥
ब्रह्मरूपी ब्रह्मपदं ब्रह्मविद्ब्राह्मणप्रियः ।
भूक्षेपदत्तलक्ष्मीको भ्रूमध्यध्यानलक्षितः ॥ 166 ॥
यशस्करो रत्नगर्भो महाराज्यसुखप्रदः ।
शब्दब्रह्म शमप्राप्यो लाभकृल्लोकविश्रुतः ॥ 167 ॥
शास्ता शिवाद्रिनिलयः शरण्यो याजकप्रियः ।
संसारवैद्यः सर्वज्ञः सभेषजविभेषजः ॥ 168 ॥
मनोवचोभिरग्राह्यः पञ्चकोशविलक्षणः ।
अवस्थात्रयनिर्मुक्तस्त्ववस्थासाक्षितुर्यकः ॥ 169 ॥
पञ्चभूतादिदूरस्थः प्रत्यगेकरसोऽव्ययः ।
षट्चक्रान्तर्गतोल्लासी षड्विकारविवर्जितः ॥ 170 ॥
विज्ञानघनसम्पूर्णो वीणावादनतत्परः ।
नीहाराकारगौराङ्गो महालावण्यवारिधिः ॥ 171 ॥
पराभिचारशमनः षडध्वोपरिसंस्थितः ।
सुषुम्नामार्गसञ्चारी बिसतन्तुनिभाकृतिः ॥ 172 ॥
पिनाकी लिङ्गरूपश्रीः मङ्गलावयवोज्ज्वलः ।
क्षेत्राधिपः सुसंवेद्यः श्रीप्रदो विभवप्रदः ॥ 173 ॥
सर्ववश्यकरः सर्वदोषहा पुत्रपौत्रदः ।
तैलदीपप्रियस्तैलपक्वान्नप्रीतमानसः ॥ 174 ॥
तैलाभिषेकसन्तुष्टस्तिलभक्षणतत्परः ।
आपादकणिकामुक्ताभूषाशतमनोहरः ॥ 175 ॥
शाणोल्लीढमणिश्रेणीरम्याङ्घ्रिनखमण्डलः ।
मणिमञ्जीरकिरणकिञ्जल्कितपदाम्बुजः ॥ 176 ॥
अपस्मारोपरिन्यस्तसव्यपादसरोरुहः ।
कन्दर्पतूणाभजङ्घो गुल्फोदञ्चितनूपुरः ॥ 177 ॥
करिहस्तोपमेयोरुरादर्शोज्ज्वलजानुभृत् ।
विशङ्कटकटिन्यस्तवाचालमणिमेखलः ॥ 178 ॥
आवर्तनाभिरोमालिवलिमत्पल्लवोदरः ।
मुक्ताहारलसत्तुङ्गविपुलोरस्करञ्जितः ॥ 179 ॥
वीरासनसमासीनो वीणापुस्तोल्लसत्करः ।
अक्षमालालसत्पाणिश्चिन्मुद्रितकराम्बुजः ॥ 180 ॥
माणिक्यकङ्कणोल्लासिकराम्बुजविराजितः ।
अनर्घरत्नग्रैवेयविलसत्कम्बुकन्धरः ॥ 181 ॥
अनाकलितसादृश्यचिबुकश्रीविराजितः ।
मुग्धस्मितपरीपाकप्रकाशितरदाङ्कुरः ॥ 182 ॥
चारुचाम्पेयपुष्पाभनासिकापुटरञ्जितः ।
वरवज्रशिलादर्शपरिभाविकपोलभूः ॥ 183 ॥
कर्णद्वयोल्लसद्दिव्यमणिकुण्डलमण्डितः ।
करुणालहरीपूर्णकर्णान्तायतलोचनः ॥ 184 ॥
अर्धचन्द्राभनिटिलपाटीरतिलकोज्ज्वलः ।
चारुचामीकराकारजटाचर्चितचन्दनः ।
कैलासशिखरस्फर्धिकमनीयनिजाकृतिः ॥ 185 ॥
इति श्री दक्षिणामूर्ति सहस्रनाम स्तोत्रम् ॥