View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Nepali language.

कृष्ण स्तुतिः (ब्रह्म कृता भागवत पुराण)

ब्रह्मोवाच ।
नौमीड्य तेऽभ्रवपुषे तडिदंबराय
गुंजावतंसपरिपिच्छलसन्मुखाय ।
वन्यस्रजे कवलवेत्रविषाणवेणु-
लक्ष्मश्रिये मृदुपदे पशुपांगजाय ॥ 1 ॥
अस्यापि देव वपुषो मदनुग्रहस्य
स्वेच्छामयस्य न तु भूतमयस्य कोऽपि ।
नेशेमहि त्ववसितुं मनसांतरेण
साक्षात्तवैव किमुतात्मसुखानुभूतेः ॥ 2 ॥
ज्ञाने प्रयासमुदपास्य नमंत एव
जीवंति सन्मुखरितां भवदीयवार्ताम् ।
स्थाने स्थिताः श्रुतिगतां तनुवांमनोभिः
ये प्रायशोऽजित जितोऽप्यसि तैस्त्रिलोक्याम् ॥ 3 ॥
श्रेयःस्रुतिं भक्तिमुदस्य ते विभो क्लिश्यंति ये केवलबोधलब्धये ।
तेषामसौ क्लेशल एव शिष्यते नान्यद्यथा स्थूलतुषावघातिनाम् ॥ 4 ॥
पुरेह भूमन् बहवोऽपि योगिनस्त्वदर्पितेहा निजकर्मलब्धया ।
विबुध्य भक्त्यैव कथोपनीतया प्रपेदिरेऽंजोऽच्युत ते गतिं पराम् ॥ 5 ॥
तथापि भूमन् महिमाऽगुणस्य ते विबोद्धुमर्हत्यमलांतरात्मभिः ।
अविक्रियात्स्वानुभवादरूपतो ह्यनन्यबोध्यात्मतया न चान्यथा ॥ 6 ॥
गुणात्मनस्तेऽपि गुणान् विमातुं हितावतीर्णस्य क ईशिरेऽस्य ।
कालेन यैर्वा विमिताः सुकल्पैर्भूपांसवः खे मिहिका द्युभासः ॥ 7 ॥
तत्तेऽनुकंपां सुसमीक्षमाणो भुंजान एवात्मकृतं विपाकम् ।
हृद्वाग्वपुर्भिर्विदधन्नमस्ते जीवेत यो मुक्तिपदे स दायभाक् ॥ 8 ॥
पश्येश मेऽनार्यमनंत आद्ये परात्मनि त्वय्यपि मायिमायिनि ।
मायां वितत्येक्षितुमात्मवैभवं ह्यहं कियानैच्छमिवार्चिरग्नौ ॥ 9 ॥
अतः क्षमस्वाच्युत मे रजोभुवो ह्यजानतस्त्वत्पृथगीशमानिनः ।
अजावलेपांधतमोऽंधचक्षुष एषोऽनुकंप्यो मयि नाथवानिति ॥ 10 ॥
क्वाहं तमोमहदहंखचराग्निवार्भूसंवेष्टितांडघटसप्तवितस्तकायः ।
क्वेदृग्विधाविगणितांडपराणुचर्यावाताध्वरोमविवरस्य च ते महित्वम् ॥ 11 ॥
उत्क्षेपणं गर्भगतस्य पादयोः किं कल्पते मातुरधोऽक्षजागसे ।
किमस्ति नास्तिव्यपदेशभूषितं तवास्ति कुक्षेः कियदप्यनंतः ॥ 12 ॥
जगत्त्रयांतोदधिसंप्लवोदे नारायणस्योदरनाभिनालात् ।
विनिर्गतोऽजस्त्विति वांन वै मृषा किं त्वीश्वरत्वान्न विनिर्गतोऽस्मि . ।
नारायणस्त्वं न हि सर्वदेहिनामात्मास्यधीशाखिललोकसाक्षी ।
नारायणोऽंगं नरभूजलायनात्तच्चापि सत्यं न तवैव माया ॥ 14 ॥
तच्चेज्जलस्थं तव सज्जगद्वपुः किं मे न दृष्टं भगवंस्तदैव ।
किं वा सुदृष्टं हृदि मे तदैव किं नो सपद्येव पुनर्व्यदर्शि ॥ 15 ॥
अत्रैव मायादमनावतारे ह्यस्य प्रपंचस्य बहिः स्फुटस्य ।
कृत्स्नस्य चांतर्जठरे जनन्या मायात्वमेव प्रकटीकृतं ते ॥ 16 ॥
यस्य कुक्षाविदं सर्वं सात्मं भाति यथा तथा ।
तत्त्वय्यपीह तत्सर्वं किमिदं मायया विना ॥ 17 ॥
अद्यैव त्वदृतेऽस्य किं मम न ते मायात्वमादर्शितं
एकोऽसि प्रथमं ततो व्रजसुहृद्वत्साः समस्ता अपि ।
तावंतोऽसि चतुर्भुजास्तदखिलैः साकं मयोपासिता-
स्तावंत्येव जगंत्यभूस्तदमितं ब्रह्माद्वयं शिष्यते ॥ 18 ॥
अजानतां त्वत्पदवीमनात्मन्यात्माऽत्मना भासि वितत्य मायाम् ।
सृष्टाविवाहं जगतो विधान इव त्वमेषोऽंत इव त्रिनेत्रः ॥ 19 ॥
सुरेष्वृषिष्वीश तथैव नृष्वपि तिर्यक्षु यादःस्वपि तेऽजनस्य ।
जन्मासतां दुर्मदनिग्रहाय प्रभो विधातः सदनुग्रहाय च ॥ 20 ॥
को वेत्ति भूमन् भगवन् परात्मन् योगेश्वरोतीर्भवतस्त्रिलोक्याम् ।
क्व वा कथं वा कति वा कदेति विस्तारयन् क्रीडसि योगमायाम् ॥ 21 ॥
तस्मादिदं जगदशेषमसत्स्वरूपं स्वप्नाभमस्तधिषणं पुरुदुःखदुःखम् ।
त्वय्येव नित्यसुखबोधतनावनंते मायात उद्यदपि यत्सदिवावभाति ॥ 22 ॥
एकस्त्वमात्मा पुरुषः पुराणः सत्यः स्वयंज्योतिरनंत आद्यः ।
नित्योऽक्षरोऽजस्रसुखो निरंजनः पूर्णोऽद्वयो मुक्त उपाधितोऽमृतः ॥ 23 ॥
एवंविधं त्वां सकलात्मनामपि स्वात्मानमात्माऽत्मतया विचक्षते ।
गुर्वर्कलब्धोपनिषत्सुचक्षुषा ये ते तरंतीव भवानृतांबुधिम् ॥ 24 ॥
आत्मानमेवात्मतयाऽविजानतां तेनैव जातं निखिलं प्रपंचितम् ।
ज्ञानेन भूयोऽपि च तत्प्रलीयते रज्ज्वामहेर्भोगभवाभवौ यथा ॥ 25 ॥
अज्ञानसंज्ञौ भवबंधमोक्षौ द्वौ नाम नान्यौ स्त ऋतज्ञभावात् ।
अजस्रचित्याऽत्मनि केवले परे विचार्यमाणे तरणाविवाहनी ॥ 26 ॥
त्वामात्मानं परं मत्वा परमात्मानमेव च ।
आत्मा पुनर्बहिर्मृग्य अहोऽज्ञजनताऽज्ञता ॥ 27 ॥
अंतर्भवेऽनंत भवंतमेव ह्यतत्त्यजंतो मृगयंति संतः ।
असंतमप्यंत्यहिमंतरेण संतं गुणं तं किमु यंति संतः ॥ 28 ॥
अथापि ते देव पदांबुजद्वयप्रसादलेशानुगृहीत एव हि ।
जानाति तत्त्वं भगवन् महिम्नो न चान्य एकोऽपि चिरं विचिन्वन् ॥ 29 ॥
तदस्तु मे नाथ स भूरिभागो भवेऽत्र वान्यत्र तु वा तिरश्चाम् ।
येनाहमेकोऽपि भवज्जनानां भूत्वा निषेवे तव पादपल्लवम् ॥ 30 ॥
अहोऽतिधन्या व्रजगोरमण्यः स्तन्यामृतं पीतमतीव ते मुदा ।
यासां विभो वत्सतरात्मजात्मना यत्तृप्तयेऽद्यापि न चालमध्वराः ॥ 31 ॥
अहो भाग्यमहो भाग्यं नंदगोपव्रजौकसाम् ।
यन्मित्रं परमानंदं पूर्णं ब्रह्म सनातनम् ॥ 32 ॥
एषां तु भाग्यमहिमाऽच्युत तावदास्ता-
मेकादशैव हि वयं बत भूरिभागाः ।
एतद्धृषीकचषकैरसकृत्पिबामः
शर्वादयोऽंघ्र्युदजमध्वमृतासवं ते ॥ 33 ॥
तद्भूरिभाग्यमिह जन्म किमप्यटव्यां
यद्गोकुलेऽपि कतमांघ्रिरजोऽभिषेकम् ।
यज्जीवितं तु निखिलं भगवान् मुकुंद-
स्त्वद्यापि यत्पदरजः श्रुतिमृग्यमेव ॥ 34 ॥
एषां घोषनिवासिनामुत भवान् किं देव रातेति नः
चेतो विश्वफलात्फलं त्वदपरं कुत्राप्ययन् मुह्यति ।
सद्वेषादिव पूतनाऽपि सकुला त्वामेव देवापिता
यद्धामार्थसुहृत्प्रियात्मतनयप्राणाशयास्त्वत्कृते ॥ 35 ॥
तावद्रागादयः स्तेनास्तावत्कारागृहं गृहम् ।
तावन्मोहोऽंघ्रिनिगडो यावत्कृष्ण न ते जनाः ॥ 36 ॥
प्रपंचं निष्प्रपंचोऽपि विडंबयसि भूतले ।
प्रपन्नजनतानंदसंदोहं प्रथितुं प्रभो ॥ 37 ॥
जानंत एव जानंतु किं बहूक्त्या न मे प्रभो ।
मनसो वपुषो वाचो वैभवं तव गोचरः ॥ 38 ॥
अनुजानीहि मां कृष्ण सर्वं त्वं वेत्सि सर्वदृक् ।
त्वमेव जगतां नाथो जगदेतत्तवार्पितम् ॥ 39 ॥
श्रीकृष्ण वृष्णिकुलपुष्करजोषदायिन्
क्ष्मानिर्जरद्विजपशूदधिवृद्धिकारिन् ।
उद्धर्मशार्वरहर क्षितिराक्षसध्रुग्
आकल्पमार्कमर्हन् भगवन् नमस्ते ॥ 40 ॥

इति श्रीमद्भागवतमहापुराणे दशमस्कंधे पूर्वार्धे
चतुर्दशाध्यायांतर्गतं ब्रह्मकृतं श्रीकृष्णस्तुतिः समाप्ता ।

भागवतपुराण . अध्याय 10/14/1-40 . ।




Browse Related Categories: