View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Nepali language.

चतुश्लोकी भागवतम्

श्रीभगवानुवाच ।
ज्ञानं परमगुह्यं मे यद्विज्ञानसमन्वितम् ।
सरहस्यं तदंगं च गृहाण गदितं मया ॥ 1 ॥
यावानहं यथाभावो यद्रूपगुणकर्मकः ।
तथैव तत्त्वविज्ञानमस्तु ते मदनुग्रहात् ॥ 2 ॥
अहमेवासमेवाग्रे नान्यद्यत्सदसत्परम् ।
पश्चादहं यदेतच्च योऽवशिष्येत सोऽस्म्यहम् ॥ 3 ॥
ऋतेऽर्थं यत्प्रतीयेत न प्रतीयेत चात्मनि ।
तद्विद्यादात्मनो मायां यथाऽभासो यथा तमः ॥ 4 ॥
यथा महांति भूतानि भूतेषूच्चावचेष्वनु ।
प्रविष्टान्यप्रविष्टानि तथा तेषु न तेष्वहम् ॥ 5 ॥
एतावदेव जिज्ञास्यं तत्त्वजिज्ञासुनाऽत्मनः ।
अन्वयव्यतिरेकाभ्यां यत्स्यात्सर्वत्र सर्वदा ॥ 6 ॥
एतन्मतं समातिष्ठ परमेण समाधिना ।
भवान्कल्पविकल्पेषु न विमुह्यति कर्हिचित् ॥ 7 ॥

.. इति श्रीमद्भागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायां वैयसिक्यां द्वितीयस्कंधे भगवद्ब्रह्मसंवादे
नवमाध्यायांतर्गतं चतुःश्लोकीभागवतं समाप्तम् . ।

भागवतपुराण . अध्याय 2/9/30-36 . ।




Browse Related Categories: