View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Nepali language.

सकल जननी स्तवः

अजानंतो यांति क्षयमवशमन्योन्यकलहै-
-रमी मायाग्रंथौ तव परिलुठंतः समयिनः ।
जगन्मातर्जन्मज्वरभयतमः कौमुदि वयं
नमस्ते कुर्वाणाः शरणमुपयामो भगवतीम् ॥ 1 ॥

वचस्तर्कागम्यस्वरसपरमानंदविभव-
-प्रबोधाकाराय द्युतितुलितनीलोत्पलरुचे ।
शिवाद्याराध्याय स्तनभरविनम्राय सततं
नमस्तस्मै कस्मैचन भवतु मुग्धाय महसे ॥ 2 ॥

अनाद्यंताभेदप्रणयरसिकापि प्रणयिनी
शिवस्यासीर्यत्त्वं परिणयविधौ देवि गृहिणी ।
सवित्री भूतानामपि यदुदभूः शैलतनया
तदेतत्संसारप्रणयनमहानाटकमुखम् ॥ 3 ॥

ब्रुवंत्येके तत्त्वं भगवति सदन्ये विदुरस-
-त्परे मातः प्राहुस्तव सदसदन्ये सुकवयः ।
परे नैतत्सर्वं समभिदधते देवि सुधिय-
-स्तदेतत्त्वन्मायाविलसितमशेषं ननु शिवे ॥ 4 ॥

लुठद्गुंजाहारस्तनभरनमन्मध्यलतिका-
-मुदंचद्धर्मांभः कणगुणितवक्त्रांबुजरुचम् ।
शिवं पार्थत्राणप्रवणमृगयाकारगुणितं
शिवामन्वग्यांतीं शरणमहमन्वेमि शबरीम् ॥ 5 ॥

मिथः केशाकेशिप्रथननिधनास्तर्कघटनाः
बहुश्रद्धाभक्तिप्रणतिविषयाः शास्त्रविधयः ।
प्रसीद प्रत्यक्षीभव गिरिसुते देहि शरणं
निरालंबं चेतः परिलुठति पारिप्लवमिदम् ॥ 6 ॥

शुनां वा वह्नेर्वा खगपरिषदो वा यदशनं
कदा केन क्वेति क्वचिदपि न कश्चित्कलयति ।
अमुष्मिन्विश्वासं विजहिहि ममाह्नाय वपुषि
प्रपद्येथाश्चेतः सकलजननीमेव शरणम् ॥ 7 ॥

तटित्कोटिज्योतिर्द्युतिदलितषड्ग्रंथिगहनं
प्रविष्टं स्वाधारं पुनरपि सुधावृष्टिवपुषा ।
किमप्यष्टाविंशत्किरणसकलीभूतमनिशं
भजे धाम श्यामं कुचभरनतं बर्बरकचम् ॥ 8 ॥

चतुष्पत्रांतः षड्दलपुटभगांतस्त्रिवलय-
-स्फुरद्विद्युद्वह्निद्युमणिनियुताभद्युतिलते ।
षडश्रं भित्त्वादौ दशदलमथ द्वादशदलं
कलाश्रं च द्व्यश्रं गतवति नमस्ते गिरिसुते ॥ 9 ॥

कुलं केचित्प्राहुर्वपुरकुलमन्ये तव बुधाः
परे तत्संभेदं समभिदधते कौलमपरे ।
चतुर्णामप्येषामुपरि किमपि प्राहुरपरे
महामाये तत्त्वं तव कथममी निश्चिनुमहे ॥ 10 ॥

षडध्वारण्यानीं प्रलयरविकोटिप्रतिरुचा
रुचा भस्मीकृत्य स्वपदकमलप्रह्वशिरसाम् ।
वितन्वानः शैवं किमपि वपुरिंदीवररुचिः
कुचाभ्यामानम्रस्तव पुरुषकारो विजयते ॥ 11 ॥

प्रकाशानंदाभ्यामविदितचरीं मध्यपदवीं
प्रविश्यैतद्द्वंद्वं रविशशिसमाख्यं कबलयन् ।
प्रपद्योर्ध्वं नादं लयदहनभस्मीकृतकुलः
प्रसादात्ते जंतुः शिवमकुलमंब प्रविशति ॥ 12 ॥

मनुष्यास्तिर्यंचो मरुत इति लोकत्रयमिदं
भवांभोधौ मग्नं त्रिगुणलहरीकोटिलुठितम् ।
कटाक्षश्चेद्यत्र क्वचन तव मातः करुणया
शरीरी सद्योऽयं व्रजति परमानंदतनुताम् ॥ 13 ॥

प्रियंगुश्यामांगीमरुणतरवासं किसलयां
समुन्मीलन्मुक्ताफलवहलनेपथ्यसुभगाम् ।
स्तनद्वंद्वस्फारस्तबकनमितां कल्पलतिकां
सकृद्ध्यायंतस्त्वां दधति शिवचिंतामणिपदम् ॥ 14 ॥

षडाधारावर्तैरपरिमितमंत्रोर्मिपटलैः
लसन्मुद्राफेनैर्बहुविधलसद्दैवतझषैः ।
क्रमस्रोतोभिस्त्वं वहसि परनादामृतनदी
भवानि प्रत्यग्रा शिवचिदमृताब्धिप्रणयिनी ॥ 15 ॥

महीपाथोवह्निश्वसनवियदात्मेंदुरविभि-
-र्वपुर्भिग्रस्ताशैरपि तव कियानंब महिमा ।
अमून्यालोक्यंते भगवति न कुत्राप्यणुतमा-
-मवस्थां प्राप्तानि त्वयि तु परमव्योमवपुषि ॥ 16 ॥

कलामाज्ञां प्रज्ञां समयमनुभूतिं समरसं
गुरुं पारंपर्यं विनयमुपदेशं शिवपदम् ।
प्रमाणं निर्वाणं प्रकृतिमभिभूतिं परगुहां
विधिं विद्यामाहुः सकलजननीमेव मुनयः ॥ 17 ॥

प्रलीने शब्दौघे तदनु विरते बिंदुविभवे
ततस्तत्त्वे चाष्टध्वनिभिरनपायिन्यधिगते ।
श्रिते शाक्ते पर्वण्यनुकलितचिन्मात्र गहनां
स्वसंवित्तिं योगी रसयति शिवाख्यां भगवतीम् ॥ 18 ॥

परानंदाकारां निरवधिशिवैश्वर्यवपुषं
निराकारां ज्ञानप्रकृतिमपरिच्छिन्नकरुणाम् ।
सवित्रीं लोकानां निरतिशयधामास्पदपदां
भवो वा मोक्षो वा भवतु भवतीमेव भजताम् ॥ 19 ॥

जगत्काये कृत्वा तदपि हृदये तच्च पुरुषे
पुमांसं बिंदुस्थं तदपि वियदाख्ये च गहने ।
तदेतद्ज्ञानाख्ये तदपि परमानंदगहने
महाव्योमाकारे त्वदनुभवशीलो विजयते ॥ 20 ॥

विधे वेद्ये विद्ये विविधसमये वेदगुलिके
विचित्रे विश्वाद्ये विनयसुलभे वेदजननि ।
शिवज्ञे शूलस्थे शिवपदवदान्ये शिवनिधे
शिवे मातर्मह्यं त्वयि वितर भक्तिं निरुपमाम् ॥ 21 ॥

विधेर्मुंडं हृत्वा यदकुरुत पात्रं करतले
हरिं शूलप्रोतं यदगमयदंसाभरणताम् ।
अलंचक्रे कंठं यदपि गरलेनांब गिरिशः
शिवस्थायाः शक्तेस्तदिदमखिलं ते विलसितम् ॥ 22 ॥

विरिंच्याख्या मातः सृजसि हरिसंज्ञा त्वमवसि
त्रिलोकीं रुद्राख्या हरसि विदधासीश्वरदशाम् ।
भवंती नादाख्या विहरसि च पाशौघदलनी
त्वमेवैकाऽनेका भवसि कृतिभेदैर्गिरिसुते ॥ 23 ॥

मुनीनां चेतोभिः प्रमृदितकषायैरपि मना-
-गशक्यं संस्प्रष्टुं चकितचकितैरंब सततम् ।
श्रुतीनां मूर्धानः प्रकृतिकठिनाः कोमलतरे
कथं ते विंदंते पदकिसलये पार्वति पदम् ॥ 24 ॥

तटिद्वल्लीं नित्याममृतसरितं पाररहितां
मलोत्तीर्णां ज्योत्स्नां प्रकृतिमगुणग्रंथिगहनाम् ।
गिरां दूरां विद्यामविनतकुचां विश्वजननी-
-मपर्यंतां लक्ष्मीमभिदधति संतो भगवतीम् ॥ 25 ॥

शरीरं क्षित्यंभः प्रभृतिरचितं केवलमचित्
सुखं दुःखं चायं कलयति पुमांश्चेतन इति ।
स्फुटं जानानोऽपि प्रभवति न देही रहयितुं
शरीराहंकारं तव समयबाह्यो गिरिसुते ॥ 26 ॥

पिता माता भ्राता सुहृदनुचरः सद्म गृहिणी
वपुः क्षेत्रं मित्रं धनमपि यदा मां विजहति ।
तदा मे भिंदाना सपदि भयमोहांधतमसं
महाज्योत्स्ने मातर्भव करुणया सन्निधिकरी ॥ 27 ॥

सुता दक्षस्यादौ किल सकलमातस्त्वमुदभूः
सदोषं तं हित्वा तदनु गिरिराजस्य दुहिता ।
अनाद्यंता शंभोरपृथगपि शक्तिर्भगवती
विवाहाज्जायासीत्यहह चरितं वेत्ति तव कः ॥ 28 ॥

कणास्त्वद्दीप्तीनां रविशशिकृशानुप्रभृतयः
परं ब्रह्म क्षुद्रं तव नियतमानंदकणिका ।
शिवादि क्षित्यंतं त्रिवलयतनोः सर्वमुदरे
तवास्ते भक्तस्य स्फुरसि हृदि चित्रं भगवति ॥ 29 ॥

पुरः पश्चादंतर्बहिरपरिमेयं परिमितं
परं स्थूलं सूक्ष्मं सकलमकुलं गुह्यमगुहम् ।
दवीयो नेदीयः सदसदिति विश्वं भगवती
सदा पश्यंत्याख्यां वहसि भुवनक्षोभजननीम् ॥ 30 ॥

प्रविश्य त्वन्मार्गं सहजदयया देशिकदृशा
षडध्वध्वांतौघच्छिदुरगणनातीतकरुणाम् ।
परामाज्ञाकारां सपदि शिवयंतीं शिवतनुं
स्वमात्मानं धन्याश्चिरमुपलभंते भगवतीम् ॥ 31 ॥

मयूखाः पूष्णीव ज्वलन इव तद्दीप्तिकणिकाः
पयोधौ कल्लोलाः प्रतिहतमहिम्नीव पृषतः ।
उदेत्योदेत्यांब त्वयि सह निजैः सात्त्विकगुणै-
-र्भजंते तत्त्वौघाः प्रशममनुकल्पं परवशाः ॥ 32 ॥

विधुर्विष्णुर्ब्रह्मा प्रकृतिरणुरात्मा दिनकरः
स्वभावो जैनेंद्रः सुगतमुनिराकाशमलिनः ।
शिवः शक्तिश्चेति श्रुतिविषयतां तामुपगतां
विकल्पैरेभिस्त्वामभिदधति संतो भगवतीम् ॥ 33 ॥

शिवस्त्वं शक्तिस्त्वं त्वमसि समया त्वं समयिनी
त्वमात्मा त्वं दीक्षा त्वमयमणिमादिर्गुणगणः ।
अविद्या त्वं विद्या त्वमसि निखिलं त्वं किमपरं
पृथक्तत्त्वं त्वत्तो भगवति न वीक्षामह इमे ॥ 34 ॥

त्वयासौ जानीते रचयति भवत्यैव सततं
त्वयैवेच्छत्यंब त्वमसि निखिला यस्य तनवः ।
जगत्साम्यं शंभोर्वहसि परमव्योमवपुषः
तथाप्यर्धं भूत्वा विहरसि शिवस्येति किमिदम् ॥ 35 ॥

असंख्यैः प्राचीनैर्जननि जननैः कर्मविलया-
-त्सकृज्जन्मन्यंते गुरुवपुषमासाद्य गिरिशम् ।
अवाप्याज्ञां शैवीं शिवतनुमपि त्वां विदितवा-
-न्नयेयं त्वत्पूजास्तुतिविरचनेनैव दिवसान् ॥ 36 ॥

यत्षट्पत्रं कमलमुदितं तस्य या कर्णिकाख्या
योनिस्तस्याः प्रथितमुदरे यत्तदोंकारपीठम् ।
तस्याप्यंतः कुचभरनतां कुंडलीति प्रसिद्धां
श्यामाकारां सकलजननीं संततं भावयामि ॥ 37 ॥

भुवि पयसि कृशानौ मारुते खे शशांके
सवितरि यजमानेऽप्यष्टधा शक्तिरेका ।
वहसि कुचभराभ्यां यावनम्रापि विश्वं
सकलजननि सा त्वं पाहि मामित्यवाच्यम् ॥ 38 ॥

इति श्रीकालिदास विरचित पंचस्तव्यां पंचमः सकलजननीस्तवः ।




Browse Related Categories: