View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Nepali language.

श्री बगलामुखी स्तोत्रम् - 2

अस्य श्रीबगलामुखीमहामंत्रस्य
नारदो भगवान् ऋषिः
अतिजगतीछंदः
श्री बगलामुखी देवता
लां बीजं इं शक्तिः
लं कीलकं-मम दूरस्थानां समीपस्थानां गति मति वाक्त्संभनार्थे जपे विनियोगः

ॐ ह्रीं अंगुष्ठाभ्यां नमः
बगलामुखी तर्जनीभ्यां नमः
सर्वदुष्टानां मध्यमाभ्यां नमः
वाचं मुखं पदं स्तंभय अनामिकाभ्यां नमः
जिह्वां कीलय बुद्धिं विनाशय कनिष्ठिकाभ्यां नमः
ह्रीं ॐ स्वाहा करतलकरपृष्टाभ्यां नमः

ॐ ह्रीं हृदयाय नमः
बगलामुखी शिरसे स्वाहा
सर्वदुष्टानां शिखायै वषत्
वाचं मुखं पदं स्तंभय कवचा हुं
जिह्वां कीलय बुद्धिं विनाशय नेत्रत्रयाय वौषट्
ह्रीं ॐ स्वाहा अस्त्राय फट्
भूर्भुवस्सुवरोमिति दिग्बंधः ।

ध्यानम् ।

पीतांबरां त्रिणेत्रां च द्विभुजां दहनोज्वलाम् ।
शिलापर्वतहस्तां च रिपुकंपां महोत्कटाम् ॥ 1 ॥

गंभीरां च मदोन्मत्तां स्वर्णकांतिसमप्रभाम् ।
वैरिनिर्दलनार्थाय स्मरेत्तां बगलामुखीम् ॥ 2 ॥

चतुर्भुजां त्रिणयनां कमलासनसंस्थिताम् ।
दक्षिणे मुद्गरं पाशं वामे जिह्वां च वज्रकम् ॥ 3 ॥

पीतांबरधरां सांद्रां दृढपीनयोधराम् ।
वैरिवाक्त्संभिनीं देवीं स्मरामि बगलामुखीम् ॥ 4 ॥

हेमकुंडलभूषांगीं शीतचंद्रार्धशेखरीम् ।
पीतभूषणभूषाढ्यां स्वर्णसिंहासनेस्थिताम् ॥ 5 ॥

त्रिशूलधारिणीमंबां सर्वसौभाग्यदायिनीम् ।
सर्वशृंगारवेषाढ्यां भजेत्तां बगलामुखीम् ॥ 6 ॥

मध्ये सुधाब्धिमणिमंटप रत्न वेद्यां
सिंहासनोपरिगतां परिपीतवर्णाम् ।
पीतांबराभरणमाल्यविभूषितांगीं
देवीं नमामि धृत मुद्गरवैरि जिह्वाम् ॥ 7 ॥

चलत्कनककुंडलोल्लसितचारुगंडस्थलां
लसत्कनकचंपक द्युतिमदर्धेंदु बिंबांचिताम् ।
सदाहितविपक्षकां दलितवैरि जिह्वांचलां
नमामि बगलामुखीं धीमतां वाङ्मनस्स्तंभिनीम् ॥ 8 ॥

पीयूषो दधिमध्यचारु विलसद्रत्नोज्वले मंटपे
यासिंहासन मौलिपातितरिपु प्रेतासनाध्यासिनीम् ।
स्वर्णाभां करपीडितारिरशनां भ्राम्यद्गदां बिभ्रतीं
यस्त्वां पश्यति तस्य यांति विलयं सद्योहि सर्वापदः ॥ 9 ॥

देवि त्वच्चरणांबुजार्चनकृते यः पीतपुष्पांजलिं
मुद्रां वामकरे निधाय च पुनर्मंत्री मनोज्ञाक्षरीम् ।
पीठध्यानपरोपि कुंभकवशाद्बीजं स्मरेत्प्रार्थितं
तस्या मित्रचयस्य संसदि मुख स्तंभो भवेत्तत्क्षणात् ॥ 10 ॥

(ॐ ह्रीं बगलामुखि सर्वदुष्टानां वाचं मुखं पदं स्तंभय जिह्वां कीलय बुद्धिं विनाशय ह्रीं ॐ स्वाहा)

मंत्रस्तावदयं विपक्षदलने स्तोत्रं पवित्रं च ते
यंत्रंवादिनि यंत्रिणं त्रिजगतां जैत्रं स चित्रं च तत् ।
श्रीमातर्बगलेति नाम ललितं यस्यास्ति जंतोर्मुखे
तन्नामस्मरणेन वाग्भवमुख स्तंभोभवेत्तत्क्षणात् ॥ 11 ॥

दुष्टस्तंभनमुग्रविघ्नशमनं दारिद्र्यविद्रावणं
भूभृत्त्संभनकारणं मृगदृशां चेतस्समाकर्षणम् ।
सौभाग्यैकनिकेतनं मम दृशां कारुण्यपूर्णेक्षणे
मृत्योर्मारणमाविरस्तु पुरतो मातस्त्वदीयं वपुः ॥ 12 ॥

संख्याग्रे चोरदंड प्रहरणसमये बंधने वैरिमध्ये
विद्यावादे विवादे प्रकटितनृपतौ युद्धकाले निशायाम् ।
वश्ये च स्तंभने वा रिपुवधसमये प्राणबाधे रणे वा
गच्छंतीष्टं त्रिकालं तव पठनमिदं कारयेदाशु धीरः ॥ 13 ॥

मातर्भंजय मद्विपक्षवदनं जिह्वां च संकीलय
ब्राह्मीं मुद्रय मुद्रयाशुधिषणामंघ्र्योर्गतिं स्तंभय ।
शत्रून् चूर्णय चूर्णयाशु गदया गौरांगि पीतांबरे
विघ्नौघं बगले हर प्रतिदिनं कौमारि वामेक्षणे ॥ 14 ॥

मातर्भैरवि भद्रकालि विजये वाराहि विश्वाश्रये
श्रीनित्ये बगले महेशि समये रामे सुरामे रमे ।
मातंगि त्रिपुरे परात्परतरे स्वर्गापवर्गप्रदे
वंदेहं शरणागतोस्मिकृपया विश्वेश्वरी त्राहि माम् ॥ 15 ॥

त्वं विद्या परमा त्रिलोकजननी व्योषाननं छेदिनी
योषाकर्षणकारिणी च सुमहाबंधैकसंभेदिनी ।
दुष्टोच्चाटनकारिणी रिपुमनस्संदोहसंदायिनी
जिह्वाकीलनभैरवी विजयते ब्रह्मास्त्रसारायणी ॥ 16 ॥

यः कृतं जपसंख्यानां चिंतितं परमेश्वरी ।
शत्रूणां बुद्धिनाशाय गृहाण मदनुग्रहात् ॥ 17 ॥

वैडूर्यहारपरिशोभितहेममालां
मध्येतिपीन कुचयोर्धृतपीतवस्त्राम् ।
व्याघ्राधिरूढ परिपूरित रत्नशोभां
नित्यं स्मरामि बगलां रिपुवक्त्र कीलाम् ॥ 18 ॥

एकाग्र मानसो भूत्वा स्तोष्यत्यंबां सुशोभनाम् ।
रजन्या रचितां मालां करे धृत्वा जपेच्छुचिः ॥ 19 ॥

वामे पाणौ तु पाशं च तस्याधस्ताद्धृढं शुभम् ।
दक्षे करेऽक्षसूत्रं च अधःपद्मं च धारिणीम् ॥ 20 ॥

चामुंडे चंडिकोष्ट्रे हुतवहदयिते श्यामले श्रीभुजंगी
दुर्गे प्रत्यंगिराद्ये मुररिपुभगिनी भार्गवीवामनेत्रे ।
नानारूपप्रभेदे स्थितिलयजननं पालयद्भर्गहृद्ये
विश्वाद्ये विश्वजैत्री त्रिपुरः बगले विश्ववंद्ये त्वमेका ॥ 21 ॥

चक्रं खड्गं मुसलमभयं दक्षिणाभिश्च दोर्भिः
शंखं खेटं हलमपि च गदां बिभ्रतीं वामदोर्भिः ।
सिंहारूढामयुगनयनां श्यामलां कंजवक्त्रां
वंदे देवीं सकलवरदां पंचमीं मातृमध्याम् ॥ 22 ॥

द्वात्रिंशदायुतयुतैश्चतुरष्टहस्तै-
रष्टोत्तरैश्शतकरैश्च सहस्रहस्तैः ।
सर्वायुधैरयुत बाहुभिरन्वितां तां
देवीं भजामि बगलां रसनाग्रहस्ताम् ॥ 23 ॥

सर्वतश्शुभकरां द्विभुजां तां
कंबुहेम नवकुंडल कर्णाम् ।
शत्रुनिर्दलनकारणकोपां
चिंतयामि बगलां हृदयाब्जे ॥ 24 ॥

जिह्वाग्रमादाय करेण देवीं
वामेन शत्रून् परिपीडयंतीम् ।
गदाभिघातेन च दक्षिणेन
पीतांबराढ्यां द्विभुजां नमामि ॥ 25 ॥

वंदे वारिजलोचनां वसुकरां पीतांबराडंबरां
पीतांभोरुहसंस्थितां त्रिनयनां पीतांगरागोज्ज्वलाम् ।
शब्दब्रह्ममयीं महाकविजयीं त्रैलोक्यसम्मोहनीं
विद्युत्कोटि निभां प्रसन्न बगलां प्रत्यर्थिवाक्त्संभिनीम् ॥ 26 ॥

दुःखेन वा यदि सुखेन च वा त्वदीयं
स्तुत्वाऽथ नामबगले समुपैति वश्यम् ।
निश्चित्य शत्रुमबलं विजयं त्वदंघ्रि
पद्मार्चकस्य भवतीति किमत्र चित्रम् ॥ 27 ॥

विमोहितजगत्त्रयां वशगतावनवल्लभां
भजामि बगलामुखीं भवसुखैकसंधायिनीम् ।
गेहं नातति गर्वितः प्रणमति स्त्रीसंगमो मोक्षति
द्वेषी मित्रति पापकृत्सुकृतति क्ष्मावल्लभोधावति ॥ 28 ॥

मृत्युर्वैधृतिदूषणं सुगुणति त्वत्पादसंसेवनात्
त्वां वंदे भवभीतिभंजनकरीं गौरीं गिरीशप्रियाम् ।
नित्यं यस्तु मनोहरं स्तवमिदं दिव्यं पठेत्सादरं
धृत्वा यंत्रमिदं तथैव समरे बाह्वोः करे वा गले ॥ 29 ॥

राजानो वरयोषितोथकरिणस्सर्वामृगेंद्रा वशाः
स्तोत्रैर्यांति विमोहिता रिपुगणा लक्ष्मीः स्थिरा सिद्धयः ।
निर्निद्रे बगले समुद्रनिलये रौद्र्यादि वाङ्मुद्रिके
भद्रे रुद्रमनोहरे त्रिभुवनत्राणे दरिद्रापहे ॥ 30 ॥

सद्रत्नाकर भूमिगोज्वल करी निस्तंद्रि चांद्रानने
नीहाराद्रिसुते निसर्गसरले विद्ये सुराद्ये नमः ।
देवी तस्य निरामयात्मजमुखान्यायूंषि दद्यादिदं
ये नित्यं प्रजपंति भक्ति भरितास्तेभ्यस्स्तवं निश्चितम् ॥ 31 ॥

नूनं श्रेयो वश्यमारोग्यतां च प्राप्तस्सर्वं भूतले साधकस्तु ।
भक्त्या नित्यं स्तोत्रमेतत्पठन्वै विद्यां कीर्तिं वंशवृद्धिं च विंदेत् ॥ 32 ॥

इति श्रीरुद्रयामले श्रीबगलामुखीस्तोत्रम् ॥




Browse Related Categories: