View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Nepali language.

श्री नीलसरस्वती स्तोत्रम्

घोररूपे महारावे सर्वशत्रुभयंकरि ।
भक्तेभ्यो वरदे देवि त्राहि मां शरणागतम् ॥ 1 ॥

सुराऽसुरार्चिते देवि सिद्धगंधर्वसेविते ।
जाड्यपापहरे देवि त्राहि मां शरणागतम् ॥ 2 ॥

जटाजूटसमायुक्ते लोलजिह्वांतकारिणी ।
द्रुतबुद्धिकरे देवि त्राहि मां शरणागतम् ॥ 3 ॥

सौम्यक्रोधधरे रूपे चंडरूपे नमोऽस्तु ते ।
सृष्टिरूपे नमस्तुभ्यं त्राहि मां शरणागतम् ॥ 4 ॥

जडानां जडतां हंति भक्तानां भक्तवत्सला ।
मूढतां हर मे देवि त्राहि मां शरणागतम् ॥ 5 ॥

ह्रूं ह्रूंकरमये देवि बलिहोमप्रिये नमः ।
उग्रतारे नमो नित्यं त्राहि मां शरणागतम् ॥ 6 ॥

बुद्धिं देहि यशो देहि कवित्वं देहि देवि मे ।
मूढत्वं च हरेर्देवि त्राहि मां शरणागतम् ॥ 7 ॥

इंद्रादिविलसद्वंद्ववंदिते करुणामयि ।
तारे तारधिनाथास्ये त्राहि मां शरणागतम् ॥ 8 ॥

अष्टम्यां च चतुर्दश्यां नवम्यां यः पठेन्नरः ।
षण्मासैः सिद्धिमाप्नोति नाऽत्र कार्या विचारणा ॥ 9 ॥

मोक्षार्थी लभते मोक्षं धनार्थी लभते धनम् ।
विद्यार्थी लभते विद्यां तर्कव्याकरणादिकम् ॥ 10 ॥

इदं स्तोत्रं पठेद्यस्तु सततं श्रद्धयान्वितः ।
तस्य शत्रुः क्षयं याति महाप्रज्ञा प्रजायते ॥ 11 ॥

पीडायां वापि संग्रामे जाड्ये दाने तथा भये ।
य इदं पठति स्तोत्रं शुभं तस्य न संशयः ॥ 12 ॥

इति प्रणम्य स्तुत्वा च योनिमुद्रां प्रदर्शयेत् ॥

इति श्री नीलसरस्वती स्तोत्रम् ॥




Browse Related Categories: