View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Nepali language.

मणिकर्णिकाष्टकम्

त्वत्तीरे मणिकर्णिके हरिहरौ सायुज्यमुक्तिप्रदौ
वादंतौ कुरुतः परस्परमुभौ जंतोः प्रयाणोत्सवे ।
मद्रूपो मनुजोऽयमस्तु हरिणा प्रोक्तः शिवस्तत्क्षणा-
त्तन्मध्याद्भृगुलांछनो गरुडगः पीतांबरो निर्गतः ॥ 1 ॥

इंद्राद्यास्त्रिदशाः पतंति नियतं भोगक्षये ये पुन-
र्जायंते मनुजास्ततोपि पशवः कीटाः पतंगादयः ।
ये मातर्मणिकर्णिके तव जले मज्जंति निष्कल्मषाः
सायुज्येऽपि किरीटकौस्तुभधरा नारायणाः स्युर्नराः ॥ 2 ॥

काशी धन्यतमा विमुक्तनगरी सालंकृता गंगया
तत्रेयं मणिकर्णिका सुखकरी मुक्तिर्हि तत्किंकरी ।
स्वर्लोकस्तुलितः सहैव विबुधैः काश्या समं ब्रह्मणा
काशी क्षोणितले स्थिता गुरुतरा स्वर्गो लघुत्वं गतः ॥ 3 ॥

गंगातीरमनुत्तमं हि सकलं तत्रापि काश्युत्तमा
तस्यां सा मणिकर्णिकोत्तमतमा येत्रेश्वरो मुक्तिदः ।
देवानामपि दुर्लभं स्थलमिदं पापौघनाशक्षमं
पूर्वोपार्जितपुण्यपुंजगमकं पुण्यैर्जनैः प्राप्यते ॥ 4 ॥

दुःखांभोधिगतो हि जंतुनिवहस्तेषां कथं निष्कृतिः
ज्ञात्वा तद्धि विरिंचिना विरचिता वाराणसी शर्मदा ।
लोकाःस्वर्गसुखास्ततोऽपि लघवो भोगांतपातप्रदाः
काशी मुक्तिपुरी सदा शिवकरी धर्मार्थमोक्षप्रदा ॥ 5 ॥

एको वेणुधरो धराधरधरः श्रीवत्सभूषाधरः
योऽप्येकः किल शंकरो विषधरो गंगाधरो माधवः ।
ये मातर्मणिकर्णिके तव जले मज्जंति ते मानवाः
रुद्रा वा हरयो भवंति बहवस्तेषां बहुत्वं कथम् ॥ 6 ॥

त्वत्तीरे मरणं तु मंगलकरं देवैरपि श्लाघ्यते
शक्रस्तं मनुजं सहस्रनयनैर्द्रष्टुं सदा तत्परः ।
आयांतं सविता सहस्रकिरणैः प्रत्युद्गतोऽभूत्सदा
पुण्योऽसौ वृषगोऽथवा गरुडगः किं मंदिरं यास्यति ॥ 7 ॥

मध्याह्ने मणिकर्णिकास्नपनजं पुण्यं न वक्तुं क्षमः
स्वीयैरब्धशतैश्चतुर्मुखधरो वेदार्थदीक्षागुरुः ।
योगाभ्यासबलेन चंद्रशिखरस्तत्पुण्यपारंगत-
स्त्वत्तीरे प्रकरोति सुप्तपुरुषं नारायणं वा शिवम् ॥ 8 ॥

कृच्छ्रै कोटिशतैः स्वपापनिधनं यच्चाश्वमेधैः फलं
तत्सर्वे मणिकर्णिकास्नपनजे पुण्ये प्रविष्टं भवेत् ।
स्नात्वा स्तोत्रमिदं नरः पठति चेत्संसारपाथोनिधिं
तीर्त्वा पल्वलवत्प्रयाति सदनं तेजोमयं ब्रह्मणः ॥ 9 ॥




Browse Related Categories: