View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Nepali language.

श्री दत्तात्रेय सहस्र नाम स्तोत्रम्

मुनयः ऊचुः
निखिलागमतत्त्वज्ञ ब्रह्मध्यानपरायण ।
वदास्माकं मुक्त्युपायं सूत सर्वोपकारकम् ॥ 1 ॥

सर्वदेवेषु को देवः सद्यो मोक्षप्रदो भवेत् ।
को मनुर्वा भवेत्तस्य सद्यः प्रीतिकरो ध्रुवम् ॥ 2 ॥

सूत उवाच ।
निगमागमतत्त्वज्ञो ह्यवधूतश्चिदंबरः ।
भक्तवात्सल्यप्रवणो दत्त एव हि केवलः ॥ 3 ॥

सदा प्रसन्नवदनो भक्तचिंतैकतत्परः ।
तस्य नामान्यनंतानि वर्तंतेऽथाप्यदः परम् ॥ 4 ॥

दत्तस्य नामसाहस्रं तस्य प्रीतिविवर्धनम् ।
यस्त्विदं पठते नित्यं दत्तात्रेयैकमानसः ॥ 5 ॥

मुच्यते सर्वपापेभ्यः स सद्यो नात्र संशयः ।
अंते तद्धाम संयाति पुनरावृत्तिदुर्लभम् ॥ 6 ॥

अस्य श्रीमद्दत्तात्रेयसहस्रनामस्तोत्रमंत्रस्य अवधूत ऋषिः, अनुष्टुप् छंदः, दिगंबरो देवता, ॐ बीजं, ह्रीं शक्तिः, क्रौं कीलकं, श्रीदत्तात्रेयप्रीत्यर्थे जपे विनियोगः ।

अथ ध्यानम्
दिगंबरं भस्मविलेपितांगं
बोधात्मकं मुक्तिकरं प्रसन्नम् ।
निर्मानसं श्यामतनुं भजेऽहं
दत्तात्रेयं ब्रह्मसमाधियुक्तम् ॥

अथ स्तोत्रम्
दत्तात्रेयो महायोगी योगेशश्चामरप्रभुः ।
मुनिर्दिगंबरो बालो मायामुक्तो मदापहः ॥ 1 ॥

अवधूतो महानाथः शंकरोऽमरवल्लभः ।
महादेवश्चादिदेवः पुराणप्रभुरीश्वरः ॥ 2 ॥

सत्त्वकृत्सत्त्वभृद्भावः सत्त्वात्मा सत्त्वसागरः ।
सत्त्ववित्सत्त्वसाक्षी च सत्त्वसाध्योऽमराधिपः ॥ 3 ॥

भूतकृद्भूतभृच्चैव भूतात्मा भूतसंभवः ।
भूतभावो भवो भूतवित्तथा भूतकारणः ॥ 4 ॥

भूतसाक्षी प्रभूतिश्च भूतानां परमा गतिः ।
भूतसंगविहीनात्मा भूतात्मा भूतशंकरः ॥ 5 ॥

भूतनाथो महानाथ आदिनाथो महेश्वरः ।
सर्वभूतनिवासात्मा भूतसंतापनाशनः ॥ 6 ॥

सर्वात्मा सर्वभृत्सर्वः सर्वज्ञः सर्वनिर्णयः ।
सर्वसाक्षी बृहद्भानुः सर्ववित् सर्वमंगलः ॥ 7 ॥

शांतः सत्यः समः पूर्णो एकाकी कमलापतिः ।
रामो रामप्रियश्चैव विरामो रामकारणः ॥ 8 ॥

शुद्धात्मा पावनोऽनंतः प्रतीतः परमार्थभृत् ।
हंससाक्षी विभुश्चैव प्रभुः प्रलय इत्यपि ॥ 9 ॥

सिद्धात्मा परमात्मा च सिद्धानां परमा गतिः ।
सिद्धिसिद्धस्तथा साध्यः साधनो ह्युत्तमस्तथा ॥ 10 ॥

सुलक्षणः सुमेधावी विद्यावान्विगतांतरः ।
विज्वरश्च महाबाहुर्बहुलानंदवर्धनः ॥ 11 ॥

अव्यक्तपुरुषः प्राज्ञः परज्ञः परमार्थदृक् ।
परापरविनिर्मुक्तो युक्तस्तत्त्वप्रकाशवान् ॥ 12 ॥

दयावान् भगवान् भावी भावात्मा भावकारणः ।
भवसंतापनाशश्च पुष्पवान् पंडितो बुधः ॥ 13 ॥

प्रत्यक्षवस्तुर्विश्वात्मा प्रत्यग्ब्रह्म सनातनः ।
प्रमाणविगतश्चैव प्रत्याहारनियोजकः ॥ 14 ॥

प्रणवः प्रणवातीतः प्रमुखः प्रलयात्मकः ।
मृत्युंजयो विविक्तात्मा शंकरात्मा परो वपुः ॥ 15 ॥

परमस्तनुविज्ञेयः परमात्मनि संस्थितः ।
प्रबोधकलनाधारः प्रभावप्रवरोत्तमः ॥ 16 ॥

चिदंबरश्चिद्विलासश्चिदाकाशश्चिदुत्तमः ।
चित्तचैतन्यचित्तात्मा देवानां परमा गतिः ॥ 17 ॥

अचेत्यश्चेतनाधारश्चेतनाचित्तविक्रमः ।
चित्तात्मा चेतनारूपो लसत्पंकजलोचनः ॥ 18 ॥

परं ब्रह्म परं ज्योतिः परं धाम परंतपः ।
परं सूत्रं परं तंत्रं पवित्रः परमोहवान् ॥ 19 ॥

क्षेत्रज्ञः क्षेत्रगः क्षेत्रः क्षेत्राधारः पुरंजनः ।
क्षेत्रशून्यो लोकसाक्षी क्षेत्रवान् बहुनायकः ॥ 20 ॥

योगेंद्रो योगपूज्यश्च योग्य आत्मविदां शुचिः ।
योगमायाधरः स्थाणुरचलः कमलापतिः ॥ 21 ॥

योगेशो योगनिर्माता योगज्ञानप्रकाशनः ।
योगपालो लोकपालः संसारतमनाशनः ॥ 22 ॥

गुह्यो गुह्यतमो गुप्तो मुक्तो युक्तः सनातनः ।
गहनो गगनाकारो गंभीरो गणनायकः ॥ 23 ॥

गोविंदो गोपतिर्गोप्ता गोभागो भावसंस्थितः ।
गोसाक्षी गोतमारिश्च गांधारो गगनाकृतिः ॥ 24 ॥

योगयुक्तो भोगयुक्तः शंकामुक्तसमाधिमान् ।
सहजः सकलेशानः कार्तवीर्यवरप्रदः ॥ 25 ॥

सरजो विरजो पुंसो पावनः पापनाशनः ।
परावरविनिर्मुक्तः परं‍ज्योतिः पुरातनः ॥ 26 ॥

नानाज्योतिरनेकात्मा स्वयं‍ज्योतिः सदाशिवः ।
दिव्यज्योतिर्मयश्चैव सत्यविज्ञानभास्करः ॥ 27 ॥

नित्यशुद्धः परः पूर्णः प्रकाशः प्रकटोद्भवः ।
प्रमादविगतश्चैव परेशः परविक्रमः ॥ 28 ॥

योगी योगो योगपश्च योगाभ्यासप्रकाशनः ।
योक्ता मोक्ता विधाता च त्राता पाता निरायुधः ॥ 29 ॥

नित्यमुक्तो नित्ययुक्तः सत्यः सत्यपराक्रमः ।
सत्त्वशुद्धिकरः सत्त्वस्तथा सत्त्वभृतां गतिः ॥ 30 ॥

श्रीधरः श्रीवपुः श्रीमान् श्रीनिवासोऽमरार्चितः ।
श्रीनिधिः श्रीपतिः श्रेष्ठः श्रेयस्कश्चरमाश्रयः ॥ 31 ॥

त्यागी त्यागार्थसंपन्नस्त्यागात्मा त्यागविग्रहः ।
त्यागलक्षणसिद्धात्मा त्यागज्ञस्त्यागकारणः ॥ 32 ॥

भोगो भोक्ता तथा भोग्यो भोगसाधनकारणः ।
भोगी भोगार्थसंपन्नो भोगज्ञानप्रकाशनः ॥ 33 ॥

केवलः केशवः कृष्णः कंवासाः कमलालयः ।
कमलासनपूज्यश्च हरिरज्ञानखंडनः ॥ 34 ॥

महात्मा महदादिश्च महेशोत्तमवंदितः ।
मनोबुद्धिविहीनात्मा मानात्मा मानवाधिपः ॥ 35 ॥

भुवनेशो विभूतिश्च धृतिर्मेधा स्मृतिर्दया ।
दुःखदावानलो बुद्धः प्रबुद्धः परमेश्वरः ॥ 36 ॥

कामहा क्रोधहा चैव दंभदर्पमदापहः ।
अज्ञानतिमिरारिश्च भवारिर्भुवनेश्वरः ॥ 37 ॥

रूपकृद्रूपभृद्रूपी रूपात्मा रूपकारणः ।
रूपज्ञो रूपसाक्षी च नामरूपो गुणांतकः ॥ 38 ॥

अप्रमेयः प्रमेयश्च प्रमाणं प्रणवाश्रयः ।
प्रमाणरहितोऽचिंत्यश्चेतनाविगतोऽजरः ॥ 39 ॥

अक्षरोऽक्षरमुक्तश्च विज्वरो ज्वरनाशनः ।
विशिष्टो वित्तशास्त्री च दृष्टो दृष्टांतवर्जितः ॥ 40 ॥

गुणेशो गुणकायश्च गुणात्मा गुणभावनः ।
अनंतगुणसंपन्नो गुणगर्भो गुणाधिपः ॥ 41 ॥

गणेशो गुणनाथश्च गुणात्मा गणभावनः ।
गणबंधुर्विवेकात्मा गुणयुक्तः पराक्रमी ॥ 42 ॥

अतर्क्यः क्रतुरग्निश्च कृतज्ञः सफलाश्रयः ।
यज्ञश्च यज्ञफलदो यज्ञ इज्योऽमरोत्तमः ॥ 43 ॥

हिरण्यगर्भः श्रीगर्भः खगर्भः कुणपेश्वरः ।
मायागर्भो लोकगर्भः स्वयंभूर्भुवनांतकः ॥ 44 ॥

निष्पापो निबिडो नंदी बोधी बोधसमाश्रयः ।
बोधात्मा बोधनात्मा च भेदवैतंडखंडनः ॥ 45 ॥

स्वाभाव्यो भावनिर्मुक्तो व्यक्तोऽव्यक्तसमाश्रयः ।
नित्यतृप्तो निराभासो निर्वाणः शरणः सुहृत् ॥ 46 ॥

गुह्येशो गुणगंभीरो गुणदोषनिवारणः ।
गुणसंगविहीनश्च योगारेर्दर्पनाशनः ॥ 47 ॥

आनंदः परमानंदः स्वानंदसुखवर्धनः ।
सत्यानंदश्चिदानंदः सर्वानंदपरायणः ॥ 48 ॥

सद्रूपः सहजः सत्यः स्वानंदः सुमनोहरः ।
सर्वः सर्वांतरश्चैव पूर्वात्पूर्वतरस्तथा ॥ 49 ॥

खमयः खपरः खादिः खं‍ब्रह्म खतनुः खगः ।
खवासाः खविहीनश्च खनिधिः खपराश्रयः ॥ 50 ॥

अनंतश्चादिरूपश्च सूर्यमंडलमध्यगः ।
अमोघः परमामोघः परोक्षः परदः कविः ॥ 51 ॥

विश्वचक्षुर्विश्वसाक्षी विश्वबाहुर्धनेश्वरः ।
धनंजयो महातेजास्तेजिष्ठस्तैजसः सुखी ॥ 52 ॥

ज्योतिर्ज्योतिर्मयो जेता ज्योतिषां ज्योतिरात्मकः ।
ज्योतिषामपि ज्योतिश्च जनको जनमोहनः ॥ 53 ॥

जितेंद्रियो जितक्रोधो जितात्मा जितमानसः ।
जितसंगो जितप्राणो जितसंसारवासनः ॥ 54 ॥

निर्वासनो निरालंबो निर्योगक्षेमवर्जितः ।
निरीहो निरहंकारो निराशीर्निरुपाधिकः ॥ 55 ॥

नित्यबोधो विविक्तात्मा विशुद्धोत्तमगौरवः ।
विद्यार्थी परमार्थी च श्रद्धार्थी साधनात्मकः ॥ 56 ॥

प्रत्याहारी निराहारी सर्वाहारपरायणः ।
नित्यशुद्धो निराकांक्षी पारायणपरायणः ॥ 57 ॥

अणोरणुतरः सूक्ष्मः स्थूलः स्थूलतरस्तथा ।
एकस्तथाऽनेकरूपो विश्वरूपः सनातनः ॥ 58 ॥

नैकरूपो विरूपात्मा नैकबोधमयस्तथा ।
नैकनाममयश्चैव नैकविद्याविवर्धनः ॥ 59 ॥

एकश्चैकांतिकश्चैव नानाभावविवर्जितः ।
एकाक्षरस्तथा बीजः पूर्णबिंबः सनातनः ॥ 60 ॥

मंत्रवीर्यो मंत्रबीजः शास्त्रवीर्यो जगत्पतिः ।
नानावीर्यधरश्चैव शक्रेशः पृथिवीपतिः ॥ 61 ॥

प्राणेशः प्राणदः प्राणः प्राणायामपरायणः ।
प्राणपंचकनिर्मुक्तः कोशपंचकवर्जितः ॥ 62 ॥

निश्चलो निष्कलोऽसंगो निष्प्रपंचो निरामयः ।
निराधारो निराकारो निर्विकारो निरंजनः ॥ 63 ॥

निष्प्रतीतो निराभासो निरासक्तो निराकुलः ।
निष्ठासर्वगतश्चैव निरारंभो निराश्रयः ॥ 64 ॥

निरंतरः सर्वगोप्ता शांतो दांतो महामुनिः । [सत्त्व]
निःशब्दः सुकृतः स्वस्थः सत्यवादी सुरेश्वरः ॥ 65 ॥

ज्ञानदो ज्ञानविज्ञानी ज्ञानात्माऽऽनंदपूरितः ।
ज्ञानयज्ञविदां दक्षो ज्ञानाग्निर्ज्वलनो बुधः ॥ 66 ॥

दयावान् भवरोगारिश्चिकित्साचरमागतिः ।
चंद्रमंडलमध्यस्थश्चंद्रकोटिसुशीतलः ॥ 67 ॥

यंत्रकृत्परमो यंत्री यंत्रारूढापराजितः ।
यंत्रविद्यंत्रवासश्च यंत्राधारो धराधरः ॥ 68 ॥

तत्त्वज्ञस्तत्त्वभूतात्मा महत्तत्त्वप्रकाशनः ।
तत्त्वसंख्यानयोगज्ञः सांख्यशास्त्रप्रवर्तकः ॥ 69 ॥

अनंतविक्रमो देवो माधवश्च धनेश्वरः ।
साधुः साधुवरिष्ठात्मा सावधानोऽमरोत्तमः ॥ 70 ॥

निःसंकल्पो निराधारो दुर्धरो ह्यात्मवित्पतिः ।
आरोग्यसुखदश्चैव प्रवरो वासवस्तथा ॥ 71 ॥

परेशः परमोदारः प्रत्यक्चैतन्यदुर्गमः ।
दुराधर्षो दुरावासो दूरत्वपरिनाशनः ॥ 72 ॥

वेदविद्वेदकृद्वेदो वेदात्मा विमलाशयः ।
विविक्तसेवी च संसारश्रमनाशनस्तथा ॥ 73 ॥

ब्रह्मयोनिर्बृहद्योनिर्विश्वयोनिर्विदेहवान् ।
विशालाक्षो विश्वनाथो हाटकांगदभूषणः ॥ 74 ॥

अबाध्यो जगदाराध्यो जगदार्जवपालनः ।
जनवान् धनवान् धर्मी धर्मगो धर्मवर्धनः ॥ 75 ॥

अमृतः शाश्वतः साध्यः सिद्धिदः सुमनोहरः ।
खलुब्रह्मखलुस्थानो मुनीनां परमा गतिः ॥ 76 ॥

उपद्रष्टा तथा श्रेष्ठः शुचिभूतो ह्यनामयः ।
वेदसिद्धांतवेद्यश्च मानसाह्लादवर्धनः ॥ 77 ॥

देहादन्यो गुणादन्यो लोकादन्यो विवेकवित् ।
दुष्टस्वप्नहरश्चैव गुरुर्गुरुवरोत्तमः ॥ 78 ॥

कर्मी कर्मविनिर्मुक्तः संन्यासी साधकेश्वरः ।
सर्वभावविहीनश्च तृष्णासंगनिवारकः ॥ 79 ॥

त्यागी त्यागवपुस्त्यागस्त्यागदानविवर्जितः ।
त्यागकारणत्यागात्मा सद्गुरुः सुखदायकः ॥ 80 ॥

दक्षो दक्षादिवंद्यश्च ज्ञानवादप्रवर्तकः ।
शब्दब्रह्ममयात्मा च शब्दब्रह्मप्रकाशवान् ॥ 81 ॥

ग्रसिष्णुः प्रभविष्णुश्च सहिष्णुर्विगतांतरः ।
विद्वत्तमो महावंद्यो विशालोत्तमवाङ्मुनिः ॥ 82 ॥

ब्रह्मविद्ब्रह्मभावश्च ब्रह्मर्षिर्ब्राह्मणप्रियः ।
ब्रह्म ब्रह्मप्रकाशात्मा ब्रह्मविद्याप्रकाशनः ॥ 83 ॥

अत्रिवंशप्रभूतात्मा तापसोत्तमवंदितः ।
आत्मवासी विधेयात्मा ह्यत्रिवंशविवर्धनः ॥ 84 ॥

प्रवर्तनो निवृत्तात्मा प्रलयोदकसन्निभः ।
नारायणो महागर्भो भार्गवप्रियकृत्तमः ॥ 85 ॥

संकल्पदुःखदलनः संसारतमनाशनः ।
त्रिविक्रमस्त्रिधाकारस्त्रिमूर्तिस्त्रिगुणात्मकः ॥ 86 ॥

भेदत्रयहरश्चैव तापत्रयनिवारकः ।
दोषत्रयविभेदी च संशयार्णवखंडनः ॥ 87 ॥

असंशयस्त्वसम्मूढो ह्यवादी राजवंदितः ।
राजयोगी महायोगी स्वभावगलितस्तथा ॥ 88 ॥

पुण्यश्लोकः पवित्रांघ्रिर्ध्यानयोगपरायणः ।
ध्यानस्थो ध्यानगम्यश्च विधेयात्मा पुरातनः ॥ 89 ॥

अविज्ञेयो ह्यंतरात्मा मुख्यबिंबसनातनः ।
जीवसंजीवनो जीवश्चिद्विलासश्चिदाश्रयः ॥ 90 ॥

महेंद्रोऽमरमान्यश्च योगेंद्रो योगवित्तमः ।
योगधर्मस्तथा योगस्तत्त्वस्तत्त्वविनिश्चयः ॥ 91 ॥

नैकबाहुरनंतात्मा नैकनामपराक्रमः ।
नैकाक्षी नैकपादश्च नाथनाथोत्तमोत्तमः ॥ 92 ॥

सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।
सहस्ररूपदृक् चैव सहस्रारमयोद्धवः ॥ 93 ॥

त्रिपादपुरुषश्चैव त्रिपादूर्ध्वस्तथैव च ।
त्र्यंबकश्च महावीर्यो योगवीर्यविशारदः ॥ 94 ॥

विजयी विनयी जेता वीतरागी विराजितः ।
रुद्रो रौद्रो महाभीमः प्राज्ञमुख्यः सदाशुचिः ॥ 95 ॥

अंतर्ज्योतिरनंतात्मा प्रत्यगात्मा निरंतरः ।
अरूपश्चात्मरूपश्च सर्वभावविनिर्वृतः ॥ 96 ॥

अंतःशून्यो बहिःशून्यः शून्यात्मा शून्यभावनः ।
अंतःपूर्णो बहिःपूर्णः पूर्णात्मा पूर्णभावनः ॥ 97 ॥

अंतस्त्यागी बहिस्त्यागी त्यागात्मा सर्वयोगवान् ।
अंतर्योगी बहिर्योगी सर्वयोगपरायणः ॥ 98 ॥

अंतर्भोगी बहिर्भोगी सर्वभोगविदुत्तमः ।
अंतर्निष्ठो बहिर्निष्ठः सर्वनिष्ठामयस्तथा ॥ 99 ॥

बाह्यांतरविमुक्तश्च बाह्यांतरविवर्जितः ।
शांतः शुद्धो विशुद्धश्च निर्वाणः प्रकृतेः परः ॥ 100 ॥

अकालः कालनेमी च कालकालो जनेश्वरः ।
कालात्मा कालकर्ता च कालज्ञः कालनाशनः ॥ 101 ॥

कैवल्यपददाता च कैवल्यसुखदायकः ।
कैवल्यकलनाधारो निर्भरो हर्षवर्धनः ॥ 102 ॥

हृदयस्थो हृषीकेशो गोविंदो गर्भवर्जितः ।
सकलागमपूज्यश्च निगमो निगमाश्रयः ॥ 103 ॥

पराशक्तिः पराकीर्तिः परावृत्तिर्निधिस्मृतिः ।
परविद्या पराक्षांतिर्विभक्तिर्युक्तसद्गतिः ॥ 104 ॥

स्वप्रकाशः प्रकाशात्मा परसंवेदनात्मकः ।
स्वसेव्यः स्वविदां स्वात्मा स्वसंवेद्योऽनघः क्षमी ॥ 105 ॥

स्वानुसंधानशीलात्मा स्वानुसंधानगोचरः ।
स्वानुसंधानशून्यात्मा स्वानुसंधानकाश्रयः ॥ 106 ॥

स्वबोधदर्पणोऽभंगः कंदर्पकुलनाशनः ।
ब्रह्मचारी ब्रह्मवेत्ता ब्राह्मणो ब्रह्मवित्तमः ॥ 107 ॥

तत्त्वबोधः सुधावर्षः पावनः पापपावकः ।
ब्रह्मसूत्रविधेयात्मा ब्रह्मसूत्रार्थनिर्णयः ॥ 108 ॥

आत्यंतिको महाकल्पः संकल्पावर्तनाशनः ।
आधिव्याधिहरश्चैव संशयार्णवशोषकः ॥ 109 ॥

तत्त्वात्मज्ञानसंदेशो महानुभवभावितः ।
आत्मानुभवसंपन्नः स्वानुभावसुखाश्रयः ॥ 110 ॥

अचिंत्यश्च बृहद्भानुः प्रमदोत्कर्षनाशनः ।
अनिकेत प्रशांतात्मा शून्यावासो जगद्वपुः ॥ 111 ॥

चिद्गतिश्चिन्मयश्चक्री मायाचक्रप्रवर्तकः ।
सर्ववर्णविदारंभी सर्वारंभपरायणः ॥ 112 ॥

पुराणः प्रवरो दाता सुंदरः कनकांगदी ।
अनसूयात्मजो दत्तः सर्वज्ञः सर्वकामदः ॥ 113 ॥

कामजित् कामपालश्च कामी कामप्रदागमः ।
कामवान् कामपोषश्च सर्वकामनिवर्तकः ॥ 114 ॥

सर्वकर्मफलोत्पत्तिः सर्वकामफलप्रदः ।
सर्वकर्मफलैः पूज्यः सर्वकर्मफलाश्रयः ॥ 115 ॥

विश्वकर्मा कृतात्मा च कृतज्ञः सर्वसाक्षिकः ।
सर्वारंभपरित्यागी जडोन्मत्तपिशाचवान् ॥ 116 ॥

भिक्षुर्भैक्षाकरश्चैव भैक्षाहारी निराश्रमी ।
अकूलश्चानुकूलश्च विकलो ह्यकलस्तथा ॥ 117 ॥

जटिलो वनचारी च दंडी मुंडी च गंडवान् ।
देहधर्मविहीनात्मा ह्येकाकी संगवर्जितः ॥ 118 ॥

आश्रम्यनाश्रमारंभोऽनाचारी कर्मवर्जितः ।
असंदेही च संदेही न किंचिन्न च किंचनः ॥ 119 ॥

नृदेही देहशून्यश्च नाभावी भावनिर्गतः ।
नाब्रह्मा च परब्रह्म स्वयमेव निराकुलः ॥ 120 ॥

अनघश्चागुरुश्चैव नाथनाथोत्तमो गुरुः ।
द्विभुजः प्राकृतश्चैव जनकश्च पितामहः ॥ 121 ॥

अनात्मा न च नानात्मा नीतिर्नीतिमतां वरः ।
सहजः सदृशः सिद्धश्चैकश्चिन्मात्र एव च ॥ 122 ॥

न कर्तापि च कर्ता च भोक्ता भोगविवर्जितः ।
तुरीयस्तुरीयातीतः स्वच्छः सर्वमयस्तथा ॥ 123 ॥

सर्वाधिष्ठानरूपश्च सर्वध्येयविवर्जितः ।
सर्वलोकनिवासात्मा सकलोत्तमवंदितः ॥ 124 ॥

देहभृद्देहकृच्चैव देहात्मा देहभावनः ।
देही देहविभक्तश्च देहभावप्रकाशनः ॥ 125 ॥

लयस्थो लयविच्चैव लयाभावश्च बोधवान् ।
लयातीतो लयस्यांतो लयभावनिवारणः ॥ 126 ॥

विमुखः प्रमुखश्चैव प्रत्यङ्मुखवदाचरी ।
विश्वभुग्विश्वधृग्विश्वो विश्वक्षेमकरस्तथा ॥ 127 ॥

अविक्षिप्तोऽप्रमादी च परर्धिः परमार्थदृक् ।
स्वानुभावविहीनश्च स्वानुभावप्रकाशनः ॥ 128 ॥

निरिंद्रियश्च निर्बुद्धिर्निराभासो निराकृतः ।
निरहंकाररूपात्मा निर्वपुः सकलाश्रयः ॥ 129 ॥

शोकदुःखहरश्चैव भोगमोक्षफलप्रदः ।
सुप्रसन्नस्तथा सूक्ष्मः शब्दब्रह्मार्थसंग्रहः ॥ 130 ॥

आगमापायशून्यश्च स्थानदश्च सतांगतिः ।
अकृतः सुकृतश्चैव कृतकर्मा विनिर्वृतः ॥ 131 ॥

भेदत्रयहरश्चैव देहत्रयविनिर्गतः ।
सर्वकाममयश्चैव सर्वकामनिवर्तकः ॥ 132 ॥

सिद्धेश्वरोऽजरः पंचबाणदर्पहुताशनः ।
चतुरक्षरबीजात्मा स्वभूश्चित्कीर्तिभूषणः ॥ 133 ॥

अगाधबुद्धिरक्षुब्धश्चंद्रसूर्याग्निलोचनः ।
यमदंष्ट्रोऽतिसंहर्ता परमानंदसागरः ॥ 134 ॥

लीलाविश्वंभरो भानुर्भैरवो भीमलोचनः ।
ब्रह्मचर्मांबरः कालस्त्वचलश्चलनांतकः ॥ 135 ॥

आदिदेवो जगद्योनिर्वासवारिविमर्दनः ।
विकर्मकर्मकर्मज्ञो अनन्यगमकोऽगमः ॥ 136 ॥

अबद्धकर्मशून्यश्च कामरागकुलक्षयः ।
योगांधकारमथनः पद्मजन्मादिवंदितः ॥ 137 ॥

भक्तकामोऽग्रजश्चक्री भावनिर्भावभावकः ।
भेदांतको महानग्र्यो निगूहो गोचरांतकः ॥ 138 ॥

कालाग्निशमनः शंखचक्रपद्मगदाधरः ।
दीप्तो दीनपतिः शास्ता स्वच्छंदो मुक्तिदायकः ॥ 139 ॥

व्योमधर्मांबरो भेत्ता भस्मधारी धराधरः ।
धर्मगुप्तोऽन्वयात्मा च व्यतिरेकार्थनिर्णयः ॥ 140 ॥

एकानेकगुणाभासाभासनिर्भासवर्जितः ।
भावाभावस्वभावात्मा भावाभावविभाववित् ॥ 141 ॥

योगिहृदयविश्रामोऽनंतविद्याविवर्धनः ।
विघ्नांतकस्त्रिकालज्ञस्तत्त्वात्मा ज्ञानसागरः ॥ 142 ॥

इतीदं दत्तसाहस्रं सायं प्रातः पठेत्तु यः ।
स इहामुत्र लभते निर्वाणं परमं सुखम् ॥ 143 ॥

गुरुवारे दत्तभक्तो भक्तिभावसमन्वितः ।
पठेत् सदैव यो ह्येतत् स लभेच्चिंतितं ध्रुवम् ॥ 144 ॥

इति श्रीमद्दत्तात्रेयपुराणे श्री दत्तात्रेय सहस्रनाम स्तोत्रम् ।




Browse Related Categories: