मुनयः ऊचुः
निखिलागमतत्त्वज्ञ ब्रह्मध्यानपरायण ।
वदास्माकं मुक्त्युपायं सूत सर्वोपकारकम् ॥ 1 ॥
सर्वदेवेषु को देवः सद्यो मोक्षप्रदो भवेत् ।
को मनुर्वा भवेत्तस्य सद्यः प्रीतिकरो ध्रुवम् ॥ 2 ॥
सूत उवाच ।
निगमागमतत्त्वज्ञो ह्यवधूतश्चिदम्बरः ।
भक्तवात्सल्यप्रवणो दत्त एव हि केवलः ॥ 3 ॥
सदा प्रसन्नवदनो भक्तचिन्तैकतत्परः ।
तस्य नामान्यनन्तानि वर्तन्तेऽथाप्यदः परम् ॥ 4 ॥
दत्तस्य नामसाहस्रं तस्य प्रीतिविवर्धनम् ।
यस्त्विदं पठते नित्यं दत्तात्रेयैकमानसः ॥ 5 ॥
मुच्यते सर्वपापेभ्यः स सद्यो नात्र संशयः ।
अन्ते तद्धाम संयाति पुनरावृत्तिदुर्लभम् ॥ 6 ॥
अस्य श्रीमद्दत्तात्रेयसहस्रनामस्तोत्रमन्त्रस्य अवधूत ऋषिः, अनुष्टुप् छन्दः, दिगम्बरो देवता, ॐ बीजं, ह्रीं शक्तिः, क्रौं कीलकं, श्रीदत्तात्रेयप्रीत्यर्थे जपे विनियोगः ।
अथ ध्यानम्
दिगम्बरं भस्मविलेपिताङ्गं
बोधात्मकं मुक्तिकरं प्रसन्नम् ।
निर्मानसं श्यामतनुं भजेऽहं
दत्तात्रेयं ब्रह्मसमाधियुक्तम् ॥
अथ स्तोत्रम्
दत्तात्रेयो महायोगी योगेशश्चामरप्रभुः ।
मुनिर्दिगम्बरो बालो मायामुक्तो मदापहः ॥ 1 ॥
अवधूतो महानाथः शङ्करोऽमरवल्लभः ।
महादेवश्चादिदेवः पुराणप्रभुरीश्वरः ॥ 2 ॥
सत्त्वकृत्सत्त्वभृद्भावः सत्त्वात्मा सत्त्वसागरः ।
सत्त्ववित्सत्त्वसाक्षी च सत्त्वसाध्योऽमराधिपः ॥ 3 ॥
भूतकृद्भूतभृच्चैव भूतात्मा भूतसम्भवः ।
भूतभावो भवो भूतवित्तथा भूतकारणः ॥ 4 ॥
भूतसाक्षी प्रभूतिश्च भूतानां परमा गतिः ।
भूतसङ्गविहीनात्मा भूतात्मा भूतशङ्करः ॥ 5 ॥
भूतनाथो महानाथ आदिनाथो महेश्वरः ।
सर्वभूतनिवासात्मा भूतसन्तापनाशनः ॥ 6 ॥
सर्वात्मा सर्वभृत्सर्वः सर्वज्ञः सर्वनिर्णयः ।
सर्वसाक्षी बृहद्भानुः सर्ववित् सर्वमङ्गलः ॥ 7 ॥
शान्तः सत्यः समः पूर्णो एकाकी कमलापतिः ।
रामो रामप्रियश्चैव विरामो रामकारणः ॥ 8 ॥
शुद्धात्मा पावनोऽनन्तः प्रतीतः परमार्थभृत् ।
हंससाक्षी विभुश्चैव प्रभुः प्रलय इत्यपि ॥ 9 ॥
सिद्धात्मा परमात्मा च सिद्धानां परमा गतिः ।
सिद्धिसिद्धस्तथा साध्यः साधनो ह्युत्तमस्तथा ॥ 10 ॥
सुलक्षणः सुमेधावी विद्यावान्विगतान्तरः ।
विज्वरश्च महाबाहुर्बहुलानन्दवर्धनः ॥ 11 ॥
अव्यक्तपुरुषः प्राज्ञः परज्ञः परमार्थदृक् ।
परापरविनिर्मुक्तो युक्तस्तत्त्वप्रकाशवान् ॥ 12 ॥
दयावान् भगवान् भावी भावात्मा भावकारणः ।
भवसन्तापनाशश्च पुष्पवान् पण्डितो बुधः ॥ 13 ॥
प्रत्यक्षवस्तुर्विश्वात्मा प्रत्यग्ब्रह्म सनातनः ।
प्रमाणविगतश्चैव प्रत्याहारनियोजकः ॥ 14 ॥
प्रणवः प्रणवातीतः प्रमुखः प्रलयात्मकः ।
मृत्युञ्जयो विविक्तात्मा शङ्करात्मा परो वपुः ॥ 15 ॥
परमस्तनुविज्ञेयः परमात्मनि संस्थितः ।
प्रबोधकलनाधारः प्रभावप्रवरोत्तमः ॥ 16 ॥
चिदम्बरश्चिद्विलासश्चिदाकाशश्चिदुत्तमः ।
चित्तचैतन्यचित्तात्मा देवानां परमा गतिः ॥ 17 ॥
अचेत्यश्चेतनाधारश्चेतनाचित्तविक्रमः ।
चित्तात्मा चेतनारूपो लसत्पङ्कजलोचनः ॥ 18 ॥
परं ब्रह्म परं ज्योतिः परं धाम परन्तपः ।
परं सूत्रं परं तन्त्रं पवित्रः परमोहवान् ॥ 19 ॥
क्षेत्रज्ञः क्षेत्रगः क्षेत्रः क्षेत्राधारः पुरञ्जनः ।
क्षेत्रशून्यो लोकसाक्षी क्षेत्रवान् बहुनायकः ॥ 20 ॥
योगेन्द्रो योगपूज्यश्च योग्य आत्मविदां शुचिः ।
योगमायाधरः स्थाणुरचलः कमलापतिः ॥ 21 ॥
योगेशो योगनिर्माता योगज्ञानप्रकाशनः ।
योगपालो लोकपालः संसारतमनाशनः ॥ 22 ॥
गुह्यो गुह्यतमो गुप्तो मुक्तो युक्तः सनातनः ।
गहनो गगनाकारो गम्भीरो गणनायकः ॥ 23 ॥
गोविन्दो गोपतिर्गोप्ता गोभागो भावसंस्थितः ।
गोसाक्षी गोतमारिश्च गान्धारो गगनाकृतिः ॥ 24 ॥
योगयुक्तो भोगयुक्तः शङ्कामुक्तसमाधिमान् ।
सहजः सकलेशानः कार्तवीर्यवरप्रदः ॥ 25 ॥
सरजो विरजो पुंसो पावनः पापनाशनः ।
परावरविनिर्मुक्तः परंज्योतिः पुरातनः ॥ 26 ॥
नानाज्योतिरनेकात्मा स्वयंज्योतिः सदाशिवः ।
दिव्यज्योतिर्मयश्चैव सत्यविज्ञानभास्करः ॥ 27 ॥
नित्यशुद्धः परः पूर्णः प्रकाशः प्रकटोद्भवः ।
प्रमादविगतश्चैव परेशः परविक्रमः ॥ 28 ॥
योगी योगो योगपश्च योगाभ्यासप्रकाशनः ।
योक्ता मोक्ता विधाता च त्राता पाता निरायुधः ॥ 29 ॥
नित्यमुक्तो नित्ययुक्तः सत्यः सत्यपराक्रमः ।
सत्त्वशुद्धिकरः सत्त्वस्तथा सत्त्वभृतां गतिः ॥ 30 ॥
श्रीधरः श्रीवपुः श्रीमान् श्रीनिवासोऽमरार्चितः ।
श्रीनिधिः श्रीपतिः श्रेष्ठः श्रेयस्कश्चरमाश्रयः ॥ 31 ॥
त्यागी त्यागार्थसम्पन्नस्त्यागात्मा त्यागविग्रहः ।
त्यागलक्षणसिद्धात्मा त्यागज्ञस्त्यागकारणः ॥ 32 ॥
भोगो भोक्ता तथा भोग्यो भोगसाधनकारणः ।
भोगी भोगार्थसम्पन्नो भोगज्ञानप्रकाशनः ॥ 33 ॥
केवलः केशवः कृष्णः कंवासाः कमलालयः ।
कमलासनपूज्यश्च हरिरज्ञानखण्डनः ॥ 34 ॥
महात्मा महदादिश्च महेशोत्तमवन्दितः ।
मनोबुद्धिविहीनात्मा मानात्मा मानवाधिपः ॥ 35 ॥
भुवनेशो विभूतिश्च धृतिर्मेधा स्मृतिर्दया ।
दुःखदावानलो बुद्धः प्रबुद्धः परमेश्वरः ॥ 36 ॥
कामहा क्रोधहा चैव दम्भदर्पमदापहः ।
अज्ञानतिमिरारिश्च भवारिर्भुवनेश्वरः ॥ 37 ॥
रूपकृद्रूपभृद्रूपी रूपात्मा रूपकारणः ।
रूपज्ञो रूपसाक्षी च नामरूपो गुणान्तकः ॥ 38 ॥
अप्रमेयः प्रमेयश्च प्रमाणं प्रणवाश्रयः ।
प्रमाणरहितोऽचिन्त्यश्चेतनाविगतोऽजरः ॥ 39 ॥
अक्षरोऽक्षरमुक्तश्च विज्वरो ज्वरनाशनः ।
विशिष्टो वित्तशास्त्री च दृष्टो दृष्टान्तवर्जितः ॥ 40 ॥
गुणेशो गुणकायश्च गुणात्मा गुणभावनः ।
अनन्तगुणसम्पन्नो गुणगर्भो गुणाधिपः ॥ 41 ॥
गणेशो गुणनाथश्च गुणात्मा गणभावनः ।
गणबन्धुर्विवेकात्मा गुणयुक्तः पराक्रमी ॥ 42 ॥
अतर्क्यः क्रतुरग्निश्च कृतज्ञः सफलाश्रयः ।
यज्ञश्च यज्ञफलदो यज्ञ इज्योऽमरोत्तमः ॥ 43 ॥
हिरण्यगर्भः श्रीगर्भः खगर्भः कुणपेश्वरः ।
मायागर्भो लोकगर्भः स्वयम्भूर्भुवनान्तकः ॥ 44 ॥
निष्पापो निबिडो नन्दी बोधी बोधसमाश्रयः ।
बोधात्मा बोधनात्मा च भेदवैतण्डखण्डनः ॥ 45 ॥
स्वाभाव्यो भावनिर्मुक्तो व्यक्तोऽव्यक्तसमाश्रयः ।
नित्यतृप्तो निराभासो निर्वाणः शरणः सुहृत् ॥ 46 ॥
गुह्येशो गुणगम्भीरो गुणदोषनिवारणः ।
गुणसङ्गविहीनश्च योगारेर्दर्पनाशनः ॥ 47 ॥
आनन्दः परमानन्दः स्वानन्दसुखवर्धनः ।
सत्यानन्दश्चिदानन्दः सर्वानन्दपरायणः ॥ 48 ॥
सद्रूपः सहजः सत्यः स्वानन्दः सुमनोहरः ।
सर्वः सर्वान्तरश्चैव पूर्वात्पूर्वतरस्तथा ॥ 49 ॥
खमयः खपरः खादिः खंब्रह्म खतनुः खगः ।
खवासाः खविहीनश्च खनिधिः खपराश्रयः ॥ 50 ॥
अनन्तश्चादिरूपश्च सूर्यमण्डलमध्यगः ।
अमोघः परमामोघः परोक्षः परदः कविः ॥ 51 ॥
विश्वचक्षुर्विश्वसाक्षी विश्वबाहुर्धनेश्वरः ।
धनञ्जयो महातेजास्तेजिष्ठस्तैजसः सुखी ॥ 52 ॥
ज्योतिर्ज्योतिर्मयो जेता ज्योतिषां ज्योतिरात्मकः ।
ज्योतिषामपि ज्योतिश्च जनको जनमोहनः ॥ 53 ॥
जितेन्द्रियो जितक्रोधो जितात्मा जितमानसः ।
जितसङ्गो जितप्राणो जितसंसारवासनः ॥ 54 ॥
निर्वासनो निरालम्बो निर्योगक्षेमवर्जितः ।
निरीहो निरहङ्कारो निराशीर्निरुपाधिकः ॥ 55 ॥
नित्यबोधो विविक्तात्मा विशुद्धोत्तमगौरवः ।
विद्यार्थी परमार्थी च श्रद्धार्थी साधनात्मकः ॥ 56 ॥
प्रत्याहारी निराहारी सर्वाहारपरायणः ।
नित्यशुद्धो निराकाङ्क्षी पारायणपरायणः ॥ 57 ॥
अणोरणुतरः सूक्ष्मः स्थूलः स्थूलतरस्तथा ।
एकस्तथाऽनेकरूपो विश्वरूपः सनातनः ॥ 58 ॥
नैकरूपो विरूपात्मा नैकबोधमयस्तथा ।
नैकनाममयश्चैव नैकविद्याविवर्धनः ॥ 59 ॥
एकश्चैकान्तिकश्चैव नानाभावविवर्जितः ।
एकाक्षरस्तथा बीजः पूर्णबिम्बः सनातनः ॥ 60 ॥
मन्त्रवीर्यो मन्त्रबीजः शास्त्रवीर्यो जगत्पतिः ।
नानावीर्यधरश्चैव शक्रेशः पृथिवीपतिः ॥ 61 ॥
प्राणेशः प्राणदः प्राणः प्राणायामपरायणः ।
प्राणपञ्चकनिर्मुक्तः कोशपञ्चकवर्जितः ॥ 62 ॥
निश्चलो निष्कलोऽसङ्गो निष्प्रपञ्चो निरामयः ।
निराधारो निराकारो निर्विकारो निरञ्जनः ॥ 63 ॥
निष्प्रतीतो निराभासो निरासक्तो निराकुलः ।
निष्ठासर्वगतश्चैव निरारम्भो निराश्रयः ॥ 64 ॥
निरन्तरः सर्वगोप्ता शान्तो दान्तो महामुनिः । [सत्त्व]
निःशब्दः सुकृतः स्वस्थः सत्यवादी सुरेश्वरः ॥ 65 ॥
ज्ञानदो ज्ञानविज्ञानी ज्ञानात्माऽऽनन्दपूरितः ।
ज्ञानयज्ञविदां दक्षो ज्ञानाग्निर्ज्वलनो बुधः ॥ 66 ॥
दयावान् भवरोगारिश्चिकित्साचरमागतिः ।
चन्द्रमण्डलमध्यस्थश्चन्द्रकोटिसुशीतलः ॥ 67 ॥
यन्त्रकृत्परमो यन्त्री यन्त्रारूढापराजितः ।
यन्त्रविद्यन्त्रवासश्च यन्त्राधारो धराधरः ॥ 68 ॥
तत्त्वज्ञस्तत्त्वभूतात्मा महत्तत्त्वप्रकाशनः ।
तत्त्वसङ्ख्यानयोगज्ञः साङ्ख्यशास्त्रप्रवर्तकः ॥ 69 ॥
अनन्तविक्रमो देवो माधवश्च धनेश्वरः ।
साधुः साधुवरिष्ठात्मा सावधानोऽमरोत्तमः ॥ 70 ॥
निःसङ्कल्पो निराधारो दुर्धरो ह्यात्मवित्पतिः ।
आरोग्यसुखदश्चैव प्रवरो वासवस्तथा ॥ 71 ॥
परेशः परमोदारः प्रत्यक्चैतन्यदुर्गमः ।
दुराधर्षो दुरावासो दूरत्वपरिनाशनः ॥ 72 ॥
वेदविद्वेदकृद्वेदो वेदात्मा विमलाशयः ।
विविक्तसेवी च संसारश्रमनाशनस्तथा ॥ 73 ॥
ब्रह्मयोनिर्बृहद्योनिर्विश्वयोनिर्विदेहवान् ।
विशालाक्षो विश्वनाथो हाटकाङ्गदभूषणः ॥ 74 ॥
अबाध्यो जगदाराध्यो जगदार्जवपालनः ।
जनवान् धनवान् धर्मी धर्मगो धर्मवर्धनः ॥ 75 ॥
अमृतः शाश्वतः साध्यः सिद्धिदः सुमनोहरः ।
खलुब्रह्मखलुस्थानो मुनीनां परमा गतिः ॥ 76 ॥
उपद्रष्टा तथा श्रेष्ठः शुचिभूतो ह्यनामयः ।
वेदसिद्धान्तवेद्यश्च मानसाह्लादवर्धनः ॥ 77 ॥
देहादन्यो गुणादन्यो लोकादन्यो विवेकवित् ।
दुष्टस्वप्नहरश्चैव गुरुर्गुरुवरोत्तमः ॥ 78 ॥
कर्मी कर्मविनिर्मुक्तः सन्न्यासी साधकेश्वरः ।
सर्वभावविहीनश्च तृष्णासङ्गनिवारकः ॥ 79 ॥
त्यागी त्यागवपुस्त्यागस्त्यागदानविवर्जितः ।
त्यागकारणत्यागात्मा सद्गुरुः सुखदायकः ॥ 80 ॥
दक्षो दक्षादिवन्द्यश्च ज्ञानवादप्रवर्तकः ।
शब्दब्रह्ममयात्मा च शब्दब्रह्मप्रकाशवान् ॥ 81 ॥
ग्रसिष्णुः प्रभविष्णुश्च सहिष्णुर्विगतान्तरः ।
विद्वत्तमो महावन्द्यो विशालोत्तमवाङ्मुनिः ॥ 82 ॥
ब्रह्मविद्ब्रह्मभावश्च ब्रह्मर्षिर्ब्राह्मणप्रियः ।
ब्रह्म ब्रह्मप्रकाशात्मा ब्रह्मविद्याप्रकाशनः ॥ 83 ॥
अत्रिवंशप्रभूतात्मा तापसोत्तमवन्दितः ।
आत्मवासी विधेयात्मा ह्यत्रिवंशविवर्धनः ॥ 84 ॥
प्रवर्तनो निवृत्तात्मा प्रलयोदकसन्निभः ।
नारायणो महागर्भो भार्गवप्रियकृत्तमः ॥ 85 ॥
सङ्कल्पदुःखदलनः संसारतमनाशनः ।
त्रिविक्रमस्त्रिधाकारस्त्रिमूर्तिस्त्रिगुणात्मकः ॥ 86 ॥
भेदत्रयहरश्चैव तापत्रयनिवारकः ।
दोषत्रयविभेदी च संशयार्णवखण्डनः ॥ 87 ॥
असंशयस्त्वसम्मूढो ह्यवादी राजवन्दितः ।
राजयोगी महायोगी स्वभावगलितस्तथा ॥ 88 ॥
पुण्यश्लोकः पवित्राङ्घ्रिर्ध्यानयोगपरायणः ।
ध्यानस्थो ध्यानगम्यश्च विधेयात्मा पुरातनः ॥ 89 ॥
अविज्ञेयो ह्यन्तरात्मा मुख्यबिम्बसनातनः ।
जीवसञ्जीवनो जीवश्चिद्विलासश्चिदाश्रयः ॥ 90 ॥
महेन्द्रोऽमरमान्यश्च योगेन्द्रो योगवित्तमः ।
योगधर्मस्तथा योगस्तत्त्वस्तत्त्वविनिश्चयः ॥ 91 ॥
नैकबाहुरनन्तात्मा नैकनामपराक्रमः ।
नैकाक्षी नैकपादश्च नाथनाथोत्तमोत्तमः ॥ 92 ॥
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।
सहस्ररूपदृक् चैव सहस्रारमयोद्धवः ॥ 93 ॥
त्रिपादपुरुषश्चैव त्रिपादूर्ध्वस्तथैव च ।
त्र्यम्बकश्च महावीर्यो योगवीर्यविशारदः ॥ 94 ॥
विजयी विनयी जेता वीतरागी विराजितः ।
रुद्रो रौद्रो महाभीमः प्राज्ञमुख्यः सदाशुचिः ॥ 95 ॥
अन्तर्ज्योतिरनन्तात्मा प्रत्यगात्मा निरन्तरः ।
अरूपश्चात्मरूपश्च सर्वभावविनिर्वृतः ॥ 96 ॥
अन्तःशून्यो बहिःशून्यः शून्यात्मा शून्यभावनः ।
अन्तःपूर्णो बहिःपूर्णः पूर्णात्मा पूर्णभावनः ॥ 97 ॥
अन्तस्त्यागी बहिस्त्यागी त्यागात्मा सर्वयोगवान् ।
अन्तर्योगी बहिर्योगी सर्वयोगपरायणः ॥ 98 ॥
अन्तर्भोगी बहिर्भोगी सर्वभोगविदुत्तमः ।
अन्तर्निष्ठो बहिर्निष्ठः सर्वनिष्ठामयस्तथा ॥ 99 ॥
बाह्यान्तरविमुक्तश्च बाह्यान्तरविवर्जितः ।
शान्तः शुद्धो विशुद्धश्च निर्वाणः प्रकृतेः परः ॥ 100 ॥
अकालः कालनेमी च कालकालो जनेश्वरः ।
कालात्मा कालकर्ता च कालज्ञः कालनाशनः ॥ 101 ॥
कैवल्यपददाता च कैवल्यसुखदायकः ।
कैवल्यकलनाधारो निर्भरो हर्षवर्धनः ॥ 102 ॥
हृदयस्थो हृषीकेशो गोविन्दो गर्भवर्जितः ।
सकलागमपूज्यश्च निगमो निगमाश्रयः ॥ 103 ॥
पराशक्तिः पराकीर्तिः परावृत्तिर्निधिस्मृतिः ।
परविद्या पराक्षान्तिर्विभक्तिर्युक्तसद्गतिः ॥ 104 ॥
स्वप्रकाशः प्रकाशात्मा परसंवेदनात्मकः ।
स्वसेव्यः स्वविदां स्वात्मा स्वसंवेद्योऽनघः क्षमी ॥ 105 ॥
स्वानुसन्धानशीलात्मा स्वानुसन्धानगोचरः ।
स्वानुसन्धानशून्यात्मा स्वानुसन्धानकाश्रयः ॥ 106 ॥
स्वबोधदर्पणोऽभङ्गः कन्दर्पकुलनाशनः ।
ब्रह्मचारी ब्रह्मवेत्ता ब्राह्मणो ब्रह्मवित्तमः ॥ 107 ॥
तत्त्वबोधः सुधावर्षः पावनः पापपावकः ।
ब्रह्मसूत्रविधेयात्मा ब्रह्मसूत्रार्थनिर्णयः ॥ 108 ॥
आत्यन्तिको महाकल्पः सङ्कल्पावर्तनाशनः ।
आधिव्याधिहरश्चैव संशयार्णवशोषकः ॥ 109 ॥
तत्त्वात्मज्ञानसन्देशो महानुभवभावितः ।
आत्मानुभवसम्पन्नः स्वानुभावसुखाश्रयः ॥ 110 ॥
अचिन्त्यश्च बृहद्भानुः प्रमदोत्कर्षनाशनः ।
अनिकेत प्रशान्तात्मा शून्यावासो जगद्वपुः ॥ 111 ॥
चिद्गतिश्चिन्मयश्चक्री मायाचक्रप्रवर्तकः ।
सर्ववर्णविदारम्भी सर्वारम्भपरायणः ॥ 112 ॥
पुराणः प्रवरो दाता सुन्दरः कनकाङ्गदी ।
अनसूयात्मजो दत्तः सर्वज्ञः सर्वकामदः ॥ 113 ॥
कामजित् कामपालश्च कामी कामप्रदागमः ।
कामवान् कामपोषश्च सर्वकामनिवर्तकः ॥ 114 ॥
सर्वकर्मफलोत्पत्तिः सर्वकामफलप्रदः ।
सर्वकर्मफलैः पूज्यः सर्वकर्मफलाश्रयः ॥ 115 ॥
विश्वकर्मा कृतात्मा च कृतज्ञः सर्वसाक्षिकः ।
सर्वारम्भपरित्यागी जडोन्मत्तपिशाचवान् ॥ 116 ॥
भिक्षुर्भैक्षाकरश्चैव भैक्षाहारी निराश्रमी ।
अकूलश्चानुकूलश्च विकलो ह्यकलस्तथा ॥ 117 ॥
जटिलो वनचारी च दण्डी मुण्डी च गण्डवान् ।
देहधर्मविहीनात्मा ह्येकाकी सङ्गवर्जितः ॥ 118 ॥
आश्रम्यनाश्रमारम्भोऽनाचारी कर्मवर्जितः ।
असन्देही च सन्देही न किञ्चिन्न च किञ्चनः ॥ 119 ॥
नृदेही देहशून्यश्च नाभावी भावनिर्गतः ।
नाब्रह्मा च परब्रह्म स्वयमेव निराकुलः ॥ 120 ॥
अनघश्चागुरुश्चैव नाथनाथोत्तमो गुरुः ।
द्विभुजः प्राकृतश्चैव जनकश्च पितामहः ॥ 121 ॥
अनात्मा न च नानात्मा नीतिर्नीतिमतां वरः ।
सहजः सदृशः सिद्धश्चैकश्चिन्मात्र एव च ॥ 122 ॥
न कर्तापि च कर्ता च भोक्ता भोगविवर्जितः ।
तुरीयस्तुरीयातीतः स्वच्छः सर्वमयस्तथा ॥ 123 ॥
सर्वाधिष्ठानरूपश्च सर्वध्येयविवर्जितः ।
सर्वलोकनिवासात्मा सकलोत्तमवन्दितः ॥ 124 ॥
देहभृद्देहकृच्चैव देहात्मा देहभावनः ।
देही देहविभक्तश्च देहभावप्रकाशनः ॥ 125 ॥
लयस्थो लयविच्चैव लयाभावश्च बोधवान् ।
लयातीतो लयस्यान्तो लयभावनिवारणः ॥ 126 ॥
विमुखः प्रमुखश्चैव प्रत्यङ्मुखवदाचरी ।
विश्वभुग्विश्वधृग्विश्वो विश्वक्षेमकरस्तथा ॥ 127 ॥
अविक्षिप्तोऽप्रमादी च परर्धिः परमार्थदृक् ।
स्वानुभावविहीनश्च स्वानुभावप्रकाशनः ॥ 128 ॥
निरिन्द्रियश्च निर्बुद्धिर्निराभासो निराकृतः ।
निरहङ्काररूपात्मा निर्वपुः सकलाश्रयः ॥ 129 ॥
शोकदुःखहरश्चैव भोगमोक्षफलप्रदः ।
सुप्रसन्नस्तथा सूक्ष्मः शब्दब्रह्मार्थसङ्ग्रहः ॥ 130 ॥
आगमापायशून्यश्च स्थानदश्च सताङ्गतिः ।
अकृतः सुकृतश्चैव कृतकर्मा विनिर्वृतः ॥ 131 ॥
भेदत्रयहरश्चैव देहत्रयविनिर्गतः ।
सर्वकाममयश्चैव सर्वकामनिवर्तकः ॥ 132 ॥
सिद्धेश्वरोऽजरः पञ्चबाणदर्पहुताशनः ।
चतुरक्षरबीजात्मा स्वभूश्चित्कीर्तिभूषणः ॥ 133 ॥
अगाधबुद्धिरक्षुब्धश्चन्द्रसूर्याग्निलोचनः ।
यमदंष्ट्रोऽतिसंहर्ता परमानन्दसागरः ॥ 134 ॥
लीलाविश्वम्भरो भानुर्भैरवो भीमलोचनः ।
ब्रह्मचर्माम्बरः कालस्त्वचलश्चलनान्तकः ॥ 135 ॥
आदिदेवो जगद्योनिर्वासवारिविमर्दनः ।
विकर्मकर्मकर्मज्ञो अनन्यगमकोऽगमः ॥ 136 ॥
अबद्धकर्मशून्यश्च कामरागकुलक्षयः ।
योगान्धकारमथनः पद्मजन्मादिवन्दितः ॥ 137 ॥
भक्तकामोऽग्रजश्चक्री भावनिर्भावभावकः ।
भेदान्तको महानग्र्यो निगूहो गोचरान्तकः ॥ 138 ॥
कालाग्निशमनः शङ्खचक्रपद्मगदाधरः ।
दीप्तो दीनपतिः शास्ता स्वच्छन्दो मुक्तिदायकः ॥ 139 ॥
व्योमधर्माम्बरो भेत्ता भस्मधारी धराधरः ।
धर्मगुप्तोऽन्वयात्मा च व्यतिरेकार्थनिर्णयः ॥ 140 ॥
एकानेकगुणाभासाभासनिर्भासवर्जितः ।
भावाभावस्वभावात्मा भावाभावविभाववित् ॥ 141 ॥
योगिहृदयविश्रामोऽनन्तविद्याविवर्धनः ।
विघ्नान्तकस्त्रिकालज्ञस्तत्त्वात्मा ज्ञानसागरः ॥ 142 ॥
इतीदं दत्तसाहस्रं सायं प्रातः पठेत्तु यः ।
स इहामुत्र लभते निर्वाणं परमं सुखम् ॥ 143 ॥
गुरुवारे दत्तभक्तो भक्तिभावसमन्वितः ।
पठेत् सदैव यो ह्येतत् स लभेच्चिन्तितं ध्रुवम् ॥ 144 ॥
इति श्रीमद्दत्तात्रेयपुराणे श्री दत्तात्रेय सहस्रनाम स्तोत्रम् ।