श्री पार्वत्युवाच
नाम्नां सहस्रं परमं छिन्नमस्ताप्रियं शुभम् ।
कथितं भवता शम्भोस्सद्यश्शत्रुनिकृन्तनम् ॥ 1 ॥
पुनः पृच्छाम्यहं देव कृपां कुरु ममोपरि ।
सहस्रनामपाठे च अशक्तो यः पुमान् भवेत् ॥ 2 ॥
तेन किं पठ्यते नाथ तन्मे ब्रूहि कृपामय ।
श्री सदाशिव उवाच
अष्टोत्तरशतं नाम्नां पठ्यते तेन सर्वदा ॥ 3 ॥
सहस्रनामपाठस्य फलं प्राप्नोति निश्चितम् ।
ॐ अस्य श्रीछिन्नमस्तादेव्यष्टोत्तर शतनाम स्तोत्रमहामन्त्रस्य सदाशिव
ऋषिः अनुष्टुप् छन्दः श्रीछिन्नमस्ता देवता मम सकलसिद्धि प्राप्तये जपे विनियोगः ॥
ॐ छिन्नमस्ता महाविद्या महाभीमा महोदरी ।
चण्डेश्वरी चण्डमाता चण्डमुण्डप्रभञ्जिनी ॥ 4 ॥
महाचण्डा चण्डरूपा चण्डिका चण्डखण्डिनी ।
क्रोधिनी क्रोधजननी क्रोधरूपा कुहूः कला ॥ 5 ॥
कोपातुरा कोपयुता कोपसंहारकारिणी ।
वज्रवैरोचनी वज्रा वज्रकल्पा च डाकिनी ॥ 6 ॥
डाकिनीकर्मनिरता डाकिनीकर्मपूजिता ।
डाकिनीसङ्गनिरता डाकिनीप्रेमपूरिता ॥ 7 ॥
खट्वाङ्गधारिणी खर्वा खड्गखर्परधारिणी ।
प्रेतासना प्रेतयुता प्रेतसङ्गविहारिणी ॥ 8 ॥
छिन्नमुण्डधरा छिन्नचण्डविद्या च चित्रिणी ।
घोररूपा घोरदृष्टिः घोररावा घनोदरी ॥ 9 ॥
योगिनी योगनिरता जपयज्ञपरायणा ।
योनिचक्रमयी योनिर्योनिचक्रप्रवर्तिनी ॥ 10 ॥
योनिमुद्रा योनिगम्या योनियन्त्रनिवासिनी ।
यन्त्ररूपा यन्त्रमयी यन्त्रेशी यन्त्रपूजिता ॥ 11 ॥
कीर्त्या कपर्दिनी काली कङ्काली कलकारिणी ।
आरक्ता रक्तनयना रक्तपानपरायणा ॥ 12 ॥
भवानी भूतिदा भूतिर्भूतिधात्री च भैरवी ।
भैरवाचारनिरता भूतभैरवसेविता ॥ 13 ॥
भीमा भीमेश्वरी देवी भीमनादपरायणा ।
भवाराध्या भवनुता भवसागरतारिणी ॥ 14 ॥
भद्रकाली भद्रतनुर्भद्ररूपा च भद्रिका ।
भद्ररूपा महाभद्रा सुभद्रा भद्रपालिनी ॥ 15 ॥
सुभव्या भव्यवदना सुमुखी सिद्धसेविता ।
सिद्धिदा सिद्धिनिवहा सिद्धा सिद्धनिषेविता ॥ 16 ॥
शुभदा शुभगा शुद्धा शुद्धसत्त्वा शुभावहा ।
श्रेष्ठा दृष्टिमयी देवी दृष्टिसंहारकारिणी ॥ 17 ॥
शर्वाणी सर्वगा सर्वा सर्वमङ्गलकारिणी ।
शिवा शान्ता शान्तिरूपा मृडानी मदानतुरा ॥ 18 ॥
इति ते कथितं देवी स्तोत्रं परमदुर्लभम् ।
गुह्याद्गुह्यतरं गोप्यं गोपनियं प्रयत्नतः ॥ 19 ॥
किमत्र बहुनोक्तेन त्वदग्रे प्राणवल्लभे ।
मारणं मोहनं देवि ह्युच्चाटनमतः परम् ॥ 20 ॥
स्तम्भनादिककर्माणि ऋद्धयस्सिद्धयोऽपि च ।
त्रिकालपठनादस्य सर्वे सिद्ध्यन्त्यसंशयः ॥ 21 ॥
महोत्तमं स्तोत्रमिदं वरानने
मयेरितं नित्यमनन्यबुद्धयः ।
पठन्ति ये भक्तियुता नरोत्तमा
भवेन्न तेषां रिपुभिः पराजयः ॥ 22 ॥
इति श्रीछिन्नमस्तादेव्यष्टोत्तरशतनाम स्तोत्रम् ॥